॥ मुनय ऊचुः ॥ ॥
भगवन्सर्वशास्त्रज्ञ श्रुतं परममद्भुतम् ॥
यात्रारूपं भगवतो माहात्म्यं पापनाशनम् ॥ १ ॥
यथाहं पूजितो देवः कामिभिः सर्वकामदः ॥
भूत्युपासनया भूतिप्रदो ब्रूहि तथा हि नः ॥२॥
॥जैमिनिरुवाच॥
सर्वा विभूतयो विष्णोर्जगत्यस्मिंश्चराचराः॥
भूतिप्रदो विभूतिश्च स एकः परमेश्वरः॥३॥
यथायथोप चरति तथा वै जायते नरः॥
एतावदस्य महिमा परिमातुं न शक्यते॥४॥
यो यथा समुपास्ते तं तथा वै फलमाप्नुयात्॥
एकः पन्थाश्चतुर्णां वै धर्मादीनां स दारवः ॥ ५ ॥
धर्मस्य पथा गहनः सङ्कीर्णो वहुशासनैः ॥
तत्त्वावधारणे नास्य क्षमः कोऽपि द्विजोत्तमाः ॥ ६ ॥
अर्थकामौ हि तन्मूलावित्थं स्थूलगती सदा ॥
तेषां त्रयाणां भगवाननायासेन वृद्धिकृत् ॥ ७ ॥
धर्मो हि भगवान्विष्णुर्धर्ममूलमिदं जगत् ॥
धर्मस्य जगतश्चापि प्रभुरेष जनार्दनः ॥ ८ ॥
पुरुषार्थमये तस्मिन्भक्तिर्यस्य प्रतिष्ठिता ॥
स सर्वकामतृप्तात्मा न शोचति न काङ्क्षति ॥ ९ ॥
त्रैलोक्यैश्वर्यदातासौ शक्ररूपो ह्युपासितः ॥
भावितो धातृरूपेण वंशवृद्धिकरो हरिः ॥ 2.2.47.१० ॥
सनत्कुमाररूपेण दीर्घमायुः प्रयच्छति ॥
वृत्तिसम्पत्प्रदो ह्येष पृथुरूपेण भावितः ॥ ११ ॥
गङ्गादितीर्थफलदो वाचस्पतिरुपासितः ॥
अन्तस्तमः प्रणुदति भास्वद्रूपेण भावितः ॥ १२ ॥
सौभाग्यमतुलं दद्यादमृतांशुरुपासितः ॥
विद्याष्टादशतत्त्वज्ञो वाक्पतित्वेन भावयन् ॥ १३ ॥
वाजिमेधादियज्ञानां फलदोऽयं सनातनः ॥
यज्ञेश्वरस्वरूपेण भावितोऽयं जगन्मयः ॥ १४ ॥
ध्यातः कुबेररूपेण समृद्धिमतुलां ददेत् ॥ १५ ॥
एवं दयाम्बुधिरसौ तस्मिन्नीलाचले वसन् ॥
दीनानाथानुग्रहाय दारुव्याजशरीरवान् ॥ १६ ॥
प्रयात तत्र भो विप्रा वसध्वं सुसमाहिताः ॥
श्रीशपादाब्जयुगलं शरणं तत्प्रपद्यत ॥ १७ ॥
ऐहिकामुष्मिकान्भोगान्वाञ्छध्वं यदि शाश्वतान् ॥
अन्ते मुक्तिं च कैवल्यां यथेच्छं तत्र प्राप्नुत ॥ १८ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे पुरुषोत्तमक्षेत्रमाहात्म्ये सप्तचत्वारिंशोऽध्यायः ॥ ४७ ॥