०४६

॥ जैमिनिरुवाच ॥ ॥
अतः परं प्रवक्ष्यामि यात्रामक्षयमोक्षदाम् ॥
अनायासेन मूढानां वासनाबद्धचेतसाम् ॥ १ ॥
वैशाखस्यामले पक्षे द्वितीयारात्रिमध्यतः ॥
मण्डपं च चतुष्कोणं सुधालिप्तं सवेदिकम् ॥ २ ॥
सुधौतवाससा कुर्यात्प्रतिसीरासमं ततः ॥
साधुसोपानसंयुक्तं चारुचन्द्रातपान्वितम्॥ ३ ॥
तन्मध्ये विन्यसेन्नूनं साधु भद्रासनोत्तमम् ॥
तस्मिन्निचोलसञ्छन्ने विन्यसेत्स्वर्णभाजनम् ॥ ४ ॥
तस्य पश्चिमभागे वै स्वासीनो ब्राह्मणः शुचिः ॥
पात्रान्तरे तु गृह्णीयाच्चन्दनं पचविंशतिम् ॥ ५ ॥
सुपिष्टं कृष्णस्नेहस्य गृह्णीयाच्च पलाधिकम् ॥
अगुर्वर्द्धं कुङ्कुमं स्यात्कुङ्कुमार्द्धं च सिह्लकम् ॥ ६ ॥
कस्तूरिकाकर्पुरयोः प्रमाणं सिह्लसम्मितम् ॥
सर्वमेकत्र सम्पिष्यात्पाटलोद्भववारिणा ॥ ७ ॥
पलद्वयं ततो दद्यादगुरुस्नेहमुत्तमम् ॥
एकत्र लोडितां कृत्वा पूर्वपात्रे निधापयेत् ॥ ८ ॥
आच्छाद्य केतकीपत्रैर्वेष्टयेच्चीनवाससा ॥
गन्धस्ते सोममन्त्रेण रक्षेद्गरुडमुद्रया ॥ ९ ॥
एवं तु मण्डपे तस्मिन्साधिवासं निधापयेत् ॥
अरुणोदयकालेऽथ नयेत्कृष्णस्य सन्निधिम् ॥ 2.2.46.१० ॥
शङ्खचामरछत्राद्यैर्भ्रामयित्वा सुरालयम् ॥
देवाग्रे स्थापयित्वा च पूजयेत्पुरुषोत्तमम्॥ ११ ॥
उद्धाटयेत्ततो वस्त्रे दिव्यदृष्ट्यावलोकयेत् ॥
प्रोक्षितं मन्त्रराजेन सङ्कुर्यात्ताडनादिभिः ॥ १२ ॥
गन्धपुष्पाक्षतैः पूज्यः श्रियः सूक्तेन लेपयेत् ॥
श्रीशस्य सर्वगात्रेषु मृदुस्पर्शं शनैः शनैः ॥ १३ ॥
वैष्णवा जयशब्दैस्तं वर्द्धयन्ति तदा हरिम् ॥
नानासूक्तोपनिषदैर्विद्वांसस्तं स्तुवन्ति वै ॥ १४ ॥
वेणुवीणादिकैर्नृत्यगीतवाद्यैरनेकशः ॥
व्यजनैश्चामरैच्छत्रैरन्यैर्नानोपहारकैः ॥ १५ ॥
सन्तोषयञ्जगन्नाथं तृतीयादौ विलेपयेत् ॥
यस्य चिन्तनमात्रेण तापा नश्यन्ति देहिनाम् ॥ ॥ १६ ॥
सोऽसौ सन्दर्शनात्तापान्नृणां हन्ति तदा द्विजाः ॥
अचिन्त्यो महिमा विष्णोरीदृक्तादृक्तया सदा ॥ १७ ॥
ततः सूक्ष्माम्बरैर्माल्यैर्भक्ष्यभोज्यादिपानकैः ॥
द्रव्यैर्नानाविधैर्हृद्यैर्गव्यैरावर्तितैः शुभैः ॥ १८ ॥
ततः सम्पूजयेद्देवं ताम्बूलैश्च सुसंस्कृतैः ॥
तस्मिन्काले तु ये कृष्णं भक्त्या पश्यन्ति मानवाः ॥ १९ ॥
न तेषां पुनरावृत्तिः कल्पकोटिशतैरपि ॥
विष्णोः स्वरूपमासाद्य विष्णुलोके वसन्ति वै ॥ 2.2.46.२० ॥
पुरा कलियुगे विप्रा दक्षो नाम प्रजापतिः ॥
आध्यात्मिकादिसन्तापैः सुदीनान्वीक्ष्य मानवान् ॥ २१ ॥
तत्र गत्वा कृपायुक्तो महिमानं चकार वै ॥
यथाविधि मया प्रोक्तं स एव प्रथमं द्विजाः ॥ २२ ॥
प्रलिप्य चन्दनेनाङ्गे माधवामलपक्षके ॥
तृतीयायां जगन्नाथं स्तुतिमेतां मुदा जगौ ॥२३॥
॥ दक्ष उवाच ॥ ॥
देवदेव जगन्नाथ सहजानन्दनिर्मल ॥
संसारार्णवसम्मग्नांस्त्राहि नः परमेश्वर ॥ २४ ॥
नानाविधैश्च सन्तापैः सन्तप्तान्मानवानिमान् ॥
ममानुक्रोशबुद्ध्या वै शुभदृष्ट्याऽमृतेन च ॥२५॥
सन्तर्पय तृणाञ्छुष्कान्कृष्ण मेऽघ नमोऽस्तुते ॥
कलिकल्मषसम्मूढानुद्धर्तुं जगतां पते ॥ २६ ॥
अवतारोऽयमेतस्मिन्नीलाचलगुहान्तरे ॥
चिरकालप्ररूढानां दुस्त्यजानां महांहसाम् ॥२७॥
राशिं दग्धुं त्वमेवेशो दीनानाथकृपाकर ॥
त्वद्दर्शनमहायोगे यमाद्यष्टाङ्गवर्जिते ॥ २८ ॥
येषां मतिः समुत्पन्ना चतुर्वर्गैकसाधने ॥
न ते शोचन्ति दुष्पारे भवारण्ये महाभये ॥ २९ ॥
कर्मानपेक्षं देवेश नात्मज्ञानं विमोचकम् ॥
इदं ते दर्शनं नाथ विना कर्मापि मोचयेत् ॥ 2.2.46.३० ॥
जय कृष्ण जयेशान जयाक्षर जयाव्यय ॥
प्रसीदानुगृहाणेमान्दीनान्मूढान्विचेतसः ॥ ३१ ॥
इति स्तुत्वा दण्डपातं पपात चरणाम्बुजे ॥
प्रसीदेश प्रसीदेश प्रसीदेशेति घोषयन् ॥ ३२ ॥
ततो जगाद भगवान्सुस्वरेण प्रजापतिम् ॥
उत्तिष्ठ वत्स ते दत्तं दुर्लभं यद्वरं त्वया ॥ ३३ ॥
काङ्क्षितं मत्प्रसादेन भविष्यति न संशयः ॥
मदनुग्रहोऽल्पपुण्यानां दुर्लभो विदितस्तव ॥ ॥ ३४ ॥
मदङ्गजातोऽस्ति भवान्मां त्वं प्रार्थितवानसि ॥
ममोत्सवेन सन्तोष्य ततस्ते प्रददाम्यहम् ॥ ३५ ॥
इमामक्षययात्रां ये भक्त्या पश्यन्ति हर्षिताः ॥
तस्मिन्काले यदिच्छन्ति मनसा तदवाप्नुयुः ॥ ३६ ॥
यथा सन्तापहरणं चन्दनेनानुलेपनम् ॥
तथोत्सवोऽयं मे दक्ष सन्तापत्रयनाशनः ॥ ३७ ॥
मत्प्रेरितमतिस्त्वं हि उत्सवं कृतवानसि ॥
सङ्कल्पितोऽयं मनसा दीनोद्धृत्यै मया ध्रुवम् ॥ ३८ ॥
त्वयाभिकाक्षितं सर्वं दास्याम्येव प्रजापते ॥
द्वादशैता महायात्रा गुण्डिचाद्यास्तु पावनाः ॥ ३९ ॥
एकैका मुक्तिदा सर्वा धर्मकामार्थवर्द्धनाः ॥ 2.2.46.४० ॥
तासामेकतमां वापि यो भक्त्या चावलोकयेत् ॥
एकयापि भवाब्धिं स तीर्त्वा विष्णुपदं व्रजेत् ॥ ४१ ॥
॥ जैमिनिरुवाच ॥ ॥
इत्युदीर्य प्रजानाथं भगवान्स तिरोदधे ॥ ४२ ॥
दक्षः प्रजापतिः सोऽपि श्रद्दधानस्तदाज्ञया ॥
संवत्सरं गिरौ स्थित्वा सन्ददर्श महोत्सवान् ॥ ४३ ॥
सर्वज्ञो ब्राह्मणो भूत्वा कौशिकस्य कुलोत्तमे ॥
लोकान्प्रवर्तयामास यथाविधि महेषु सः ॥ ४४ ॥
विश्वासायाल्पबुद्धीनां यात्रा वै परिकीर्तिताः ॥
अयं च साक्षात्परमब्रह्मरूपी जगद्गुरुः ॥
प्रसादितः सुरेशेन लोकानुग्रहणाय वै ॥ ४५ ॥
यथा तथा दृष्टिपथं यातो मुक्तिप्रदो धुवम् ॥
सर्वान्कामान्ददात्येव नारीणां नात्र संशयः ॥ ४६ ॥
सत्यप्रतिज्ञो भगवांस्तत्रास्ते मधुसूदनः ॥
शोकं तरति यं दृष्ट्वा भवपाथोधिसम्भवम् ॥
किं व्रतैः किं तपोदानैः किं कृच्छ्रैः क्रतुभिस्तथा ॥ ४७ ॥
किमष्टाङ्गेन योगेन किं साङ्ख्येन परेण च ॥ ४८ ॥
तीर्थराजजले स्नात्वा क्षेत्रे श्रीपुरुषोत्तमे ॥
न्यग्रोधमूलवसतौ वसन्तं चर्मचक्षुषा ॥
दृष्ट्वा दारुमयं ब्रह्म देहबन्धात्प्रमुच्यते ॥ ४९ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे पुरुषोत्तमक्षेत्रमाहात्म्ये षट्चत्वारिंशोऽध्यायः ॥ ४६ ॥