॥ मुनय ऊचुः ॥ ॥
मुने व्रतमिदं पुण्यं श्रुतं वै मूर्तिपञ्जरम् ॥
अन्तःप्रमोदजननं महिम्ना च महत्तरम् ॥ १ ॥
यात्रा द्वादश पुण्या या उद्दिष्टा भगवत्प्रियाः ॥
तासां द्वे अवशिष्टे नः कथयस्व महामुने ॥ २ ॥
॥ जैमिनिरुवाच ॥ ॥
वासन्तिकां समाख्यास्ये यात्रां दमनभञ्जिकाम्॥
यस्यां कृतायां दृष्टायां प्रीणाति पुरुषोत्तमः ॥ ३ ॥
पुरा यत्कथितं विप्रास्तृणं दमनकाह्वयम् ॥
चैत्रशुक्लत्रयोदश्यामाहरेत्तत्समूलकम् ॥ ४ ॥
तन्मध्ये मण्डलं कुर्यात्सुशुभं पद्मसञ्ज्ञितम् ॥
तदन्तर्वासयेद्देवप्रत्यर्चां प्रतिपूजिताम् ॥ ५ ॥
युक्तां श्रीसत्यभामाभ्यां पूजयेद्विधिवच्च ताः ॥
अर्द्धरात्रे तु कर्मेदं देवदेवस्य कारयेत् ॥ ६ ॥
पुरा निशीथेऽपि विभुर्बभञ्ज दमनासुरम् ॥
भङ्क्त्वा लेभे परां प्रीतिं तदङ्गोत्थं च तत्तृणम् ॥७॥
तस्यामेव त्रयोदश्यां तृणं दैत्यं विभावयेत् ॥
कृताञ्जलिपुटो भूत्वा वाक्यं चेदमुदाहरेत् ॥ ८॥
अवधीर्दमनं दैत्यं पुरा त्रैलोक्यकण्टकम् ॥
स एवेत्थं परिणतः पुरतस्तव तिष्ठति ॥ ९ ॥
अस्योत्पत्तौ तदा प्रीतिरासीद्या तव माधव ॥
अधुनापि तथैवास्तां प्रीतिर्दमनभञ्जने ॥ 2.2.45.१० ॥
इत्युक्त्वा तृणमेके तु करे देवस्य दापयेत् ॥
ततोऽवशिष्टां रात्रिं च नृत्यगीतादिभिर्नयेत् ॥ ११ ॥
ततश्चाभ्युदिते सूर्ये देवं तृणपुरःसरम् ॥
नयेच्च जगदीशस्य समीपं द्विजसत्तमाः ॥ १२ ॥
उपचारैर्जगन्नाथं पूजयेत्पूर्ववत्ततः ॥
हिरण्यकशिपुं हत्वा ह्यन्त्रमालां तदङ्गजाम् ॥ १३ ॥
कृत्वा कण्ठे यथाऽप्रीणास्तथेदं दमनं तृणम् ॥
तव प्रीत्यै तु भगवन्मया दत्तं तवाङ्गके ॥ १४ ॥
इत्युच्चार्य हरेर्मूर्ध्नि दद्याद्गन्धतृणं शुभम् ॥
तदा दृष्ट्वा हरेर्वक्त्रपद्मं प्रीतिकरं मुदा ॥
भवदुःखपरिक्षीणः सुखमाप्नोत्यनुत्तमम् ॥ १५ ॥
गृहीत्वा मूर्ध्नि तच्छाखां विष्णुमूर्ध्नोऽपकाषताम् ॥
सर्वपापविनिर्मुक्तो वसेद्विष्णुपुरे ध्रुवम् ॥ १६ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे पुरुषोत्तमक्षेत्रमाहात्म्ये दमनकभञ्जनविधिवर्णनन्नाम पञ्चचत्वारिंशोऽध्यायः ॥ ४५ ॥