॥ जैमिनिरुवाच ॥ ॥
अत्र वः कथयिष्यामि व्रतं सांवत्सरं परम्॥
संवत्सरस्यादिदिने पौर्णमास्यां तु फाल्गुने॥१॥
अनादिदेवस्य हरेर्मूर्त्तयो द्वादशैव याः॥
विष्ण्वादिनामप्रथिताः प्रतिमासं प्रपूजयेत्॥२॥
एकैकां मूर्तिमेतासां मासेषु द्वादशस्वपि ॥
प्रत्यहं पूजयेत्पुष्पैः फलैर्द्वादशभिस्तथा ॥३॥
अशोको मल्लिका चैव पाटलं च कदम्बकम् ॥
करवीरं जातिपुष्पं मालतीशतपत्रकम् ॥४ ॥
उत्पलं चैव वासन्ती कुन्दं पुन्नागकं तथा॥
एतानि क्रमशो दद्यात्कुसुमानि हरेर्मुदा ॥ ५ ॥
दाडिमं नारिकेलं च आम्रं च पनसं तथा ॥
खर्जूरं तृणराजं च प्राचीनामलकं तथा ॥ ६ ॥
श्रीफलं नागरङ्गं च क्रमुकं करमङ्गकम् ॥
जातीफलं च क्रमशः फलान्येतानि वै ददेत् ॥ ७ ॥
भक्ष्यभोज्यानि चोष्याणि लेह्यानि मधुराणि च ॥
आसनाद्युपचारांश्च दत्त्वा स्तुत्वा जगद्गुरुम् ॥ ८ ॥
सर्वव्यापिञ्जगन्नाथ भूतभव्यभवत्प्रभो ॥
त्राहि मां पुण्डरीकाक्ष विष्णो संसारसागरात् ॥ ९ ॥
एकार्णवजले रौद्रे निरालम्बे पुरा मधुम्॥।
अवधीर्विश्वरक्षार्थ मधुसूदन रक्ष माम् ॥2.2.44.१०॥
त्रीन्विक्रमान्क्रमित्वा यो हत्वा दैत्यबलं महत्॥
त्रैलोक्यं पालयामास त्रिविक्रम नमोस्तु ते ॥११॥
कृत्वा वामनकं रूपमृग्यजुःसामगर्भकम् ॥
मोहयित्वाद्भुतं रूपं तस्मै मायाविने नमः ॥ १२ ॥
यः श्रियं धारयेन्नित्यं हृदि भक्तेभ्य एव च ॥
ददात्यपि श्रियं तस्मै श्रीधराय नमोऽस्तु ते ॥ १३ ॥
इन्द्रियाणामधिष्ठाता यः सर्वेषां सदा प्रभुः ॥
सुखैकहेतुर्भक्तानां हृषीकेश नमोऽस्तु ते ॥ १४ ॥
यन्नाभिपद्मसम्भूतं जगदेतच्चराचरम् ॥
विधातुरासनं नित्यं पद्मनाभ नमोऽस्तु ते ॥ १५ ॥
यस्यैतत्त्रिगुणैर्बद्धं जगदेतच्चराचरम्॥
दाम्ना बद्धः स गोप्या तु दामोदर नमोऽस्तु ते ॥ १६ ॥
त्रैलोक्यविप्लवकरं हतवान्केशिदानवम्॥
ईशिता सर्वसौख्यानां त्राहि केशव मां प्रभो ॥ १७ ॥
स्रष्टा ससर्ज भूतानि जगतामादिकारणम् ॥
अचिन्त्यमहिमन्विष्णो नारायण नमोऽस्तु ते ॥१८॥
मायया यस्य विश्वं वै मोहितं यदनाद्यया ॥
सर्वधर्मस्वरूपाय माधवाय नमो नमः ॥ १९ ॥
ज्ञानिनां ज्ञानगम्यस्त्वमगतीनां गतिप्रदः ॥
सम्पूर्णमस्तु गोविन्द त्वत्प्रसादाद्व्रतं मम ॥ 2.2.44.२० ॥
प्रतिमासं पूजनान्ते मन्त्रैरेतैः कृताञ्जलिः ॥
प्रार्थयेत्परया भक्त्या भजनान्तं जनार्दनम् ॥ २१ ॥
एवं संवत्सरं नीत्वा व्रतं वै मूर्तिपञ्जरम् ॥
सम्पूर्णफलसिद्ध्यर्थं प्रतिष्ठाविधिमाचरेत् ॥ २२ ॥
सुवर्णनिर्मिता विष्णोर्मूर्तयो द्वादशैव तु ॥
यथाशक्ति कृताः स्थाप्याः कुम्भेषु द्वादशस्वपि ॥ २३ ॥
आम्रपात्राच्छादितेषु साक्षात्तेषु पृथक्पृथक् ॥
श्वेतवस्त्रावनद्धेषु गन्धपल्लववारिषु ॥ २४ ॥
अष्टदिक्षु चतुर्दिक्षु सर्वतोभद्रमण्डले ॥
स्थापनीयाश्च ते कुम्भास्तेषु पूज्याश्च मूर्तयः ॥ २५ ॥
द्वादशाक्षरमन्त्रेण उपचारैः पृथक्पृथक् ॥
पञ्चामृतैश्च स्नपनं सर्वेषामादितो द्विजाः ॥२६॥
गीतवादित्रनृत्याद्यैस्तथा ब्राह्मणपूजनैः ॥
वस्त्रयुग्मैर्द्वादशभिश्छत्रोपानद्युगैस्तथा ॥२७॥
व्यजनैरुदकुम्भैश्च शयनीयैः सपीठकैः ॥
गन्धैर्माल्यैः सुताम्बूलैर्मुद्रिकाकुण्डलैस्तथा ॥ २८ ॥
प्रदीपाः सर्पिषा ज्वाल्या द्वादशद्वादश क्रमात् ॥
नीत्वा त्रियामामित्थं वै प्रभाते वह्निकर्म च ॥ २९ ॥
समिदाज्यचरूणां वै प्रतिदेवं शतत्रयम्॥
अष्टोत्तरसहस्रं तु तिलैर्व्याहृतिभिस्ततः ॥ 2.2.44.३० ॥
होमान्ते प्राशनं कृत्वा दद्यादाचार्यदक्षिणाम् ॥
कपिला धेनवो देयाः सालङ्काराश्च द्वादश ॥३१॥
शतं चतुश्चत्वारिंशद्ब्राह्मणान्भोजयेत्ततः ॥
तद्देववृन्दं सघटं सवितानं सचामरम् ॥ ३२ ॥
सर्वोपचारसहितमाचार्याय निवेदयेत्॥
व्रतराजमिमं कृत्वा सर्वान्कामानवाप्नुयात् ॥३३॥
गुण्डिचाद्यास्तु या यात्रा विष्णोर्द्वादश कीर्तिताः ॥
तासां दर्शनजं पुण्यं व्रतेनानेन लभ्यते ॥ ३४॥
ऐन्द्रं पदं सार्वभौमं चक्रवर्तित्वमेव च ॥
अष्टैश्वर्यमवाप्नोति देवदेवप्रसादतः ॥ ३५ ॥
एतन्महापुण्यतमं नारदः कृतवान्व्रतम् ॥
कृत्वा द्वादश वर्षाणि जीवन्मुक्तोऽभवन्मुनिः ॥ ३६ ॥
अन्ये च वैष्णवा ये वै चक्रुस्ते बहुशः पुरा ॥ व्रतं नातः परतरं भगवत्प्रीतिकारकम् ॥ ३७ ॥
धर्म्यं यशस्यमायुष्यं ब्राह्मण्यं वंशवर्द्धनम्॥
भवन्तोऽपि यतात्मानः कुर्वन्ति व्रतमुत्तमम्॥ ३८ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे पुरुषोत्तमक्षेत्रमाहात्म्ये ज्येष्ठपञ्चकव्रतवर्णनन्नाम चतुश्चत्वारिंशोऽध्यायः ॥ ४४ ॥