॥ जैमिनिरुवाच ॥ ॥
फाल्गुने मासि कुर्वीत दोलारोहणमुत्तमम् ॥
यत्र क्रीडति गोविन्दो लोकानुग्रहणाय वै ॥ १ ॥
प्रत्यर्चां देवदेवस्य गोविन्दाख्यां तु कारयेत् ॥
प्रासादपुरतः कुर्यात्षोडश स्तम्भमुच्छ्रितम॥ २ ॥
चतुरस्रं चतुर्द्वारं मण्डपं वेदिकान्वितम् ॥
चारुचन्द्रातपं माल्यचामरध्वजशोभितम् ॥ ३ ॥
भद्रासनं वेदिकायां श्रीपर्णीकाष्ठनिर्मितम् ॥
फल्गूत्सवं प्रकुर्वीत पञ्चाहानि त्र्यहाणि वा ॥ ४ ॥
फाल्गुन्यां पूर्वतो विप्राश्चतुर्दश्यां निशामुखे ॥
वह्न्युत्सवं प्रकुर्वीत दोलामण्डपपूर्वतः ॥ ५ ॥
गोविन्दानुगृहीतं तु यात्राङ्गं तत्प्रकीर्तितम्॥
आचार्यवरणं कृत्वा वह्निं निर्मथनोद्भवम् ॥ ६ ॥
भूमिं संस्कृत्य विधिवत्तृणराशिं महोच्छ्रयम्॥
सुसमं कारयित्वा तु वह्निं तत्र विनिक्षिपेत्॥ ७ ॥
पूजयित्वा विधानेन कूष्माण्डविधिना हुनेत् ॥
गोविन्दं पूजयित्वा तु भ्रामयेत्स तत विभुम् ॥ ८ ॥
यत्नात्तं रक्षयेद्वह्निं यावद्यात्रा समाप्यते ॥
प्रातर्यामे चतुर्दश्यां गोविन्दप्रतिमां शुभाम् ॥ ९ ॥
वासयित्वा हरेरग्रे पूजयेत्पुरुषोत्तमम् ॥
उपचारावशिष्टैस्तु प्रत्यर्चामपि पूजयेत् ॥ 2.2.43.१० ॥
ततोऽवरोप्य वसनं मालां च द्विजसत्तमाः ॥
अर्चायां विन्यसेन्मन्त्री परं ज्योतिर्विभावयन् ॥ ११ ॥
ततः सा प्रतिमा साक्षाज्जायते पुरुषोत्तमः ॥
रत्नान्दोलिकया तां वै नयेत्स्नानस्य मण्डपम् ॥ ॥ १२ ॥
तत्र नाना तूर्यनादैः शङ्खध्वनिपुरःसरम्॥
जयशब्दैस्तथा स्तोत्रैः पुष्पवृष्टिभिरेव च ॥ १३ ॥
छत्रध्वजपताकाभिश्चामरैर्व्यजनैस्तथा ॥
निरन्तरं दीपिकाभिस्तदा कुर्यान्महोत्सवम् ॥ १४ ॥
आगच्छन्ति तदा देवाः पितामहपुरोगमाः ॥
द्रष्टुं चर्षिगणैः सार्द्धं गोविन्दस्य महोत्सवम् ॥ ॥ १५ ॥
भद्रासनेऽधिवास्यैव पूजयेदुपचारकैः ॥
महास्नानस्य विधिना स्नपनं तस्य कारयेत् ॥ १६ ॥
पञ्चामृतैश्च सर्वैश्च तेषामन्यतमेन वा ॥
स्नानान्ते गन्धतोयेन श्रीसूक्तेनाभिषेचयेत् ॥ १७ ॥
सम्प्रोक्ष्य भूषयेद्देवं वस्त्रालङ्कारमाल्यकैः ॥
नीराजयित्वा सम्पूज्य प्रासादं परिवेष्टयेत् ॥ १८ ॥
सप्तकृत्वस्ततो देवं दोलामण्डपमानयेत् ॥
सुसंस्कृतायां रथ्यायां पताकातोरणादिभिः ॥
अधोदेशे मण्डपं तं सप्तशो भ्रामयेत्पुनः ॥ १९ ॥
ऊर्द्ध्वदेशे पुनः सप्त स्तम्भवेद्यां च सप्त वै ॥
यात्रावसाने च पुनर्भ्रामयेदेकविंशतिम् ॥ 2.2.43.२० ॥
इयं लीला भगवतः पितामहमुखेरिता ॥
राजर्षिणेन्द्रद्युम्नेन कारिता पूर्वमेव हि ॥ २१ ॥
फलपुष्पोपनम्रैश्च शाखिभिः परिकल्पिते ॥
वृन्दावनान्तरे रम्ये मत्तभ्रमरराविणि ॥ २२ ॥
कोकिलारावमधुरे नानापक्षिगणाकुले ॥
नानोपशोभारचितनानागुरुसुधूपिते ॥ २३ ॥
प्रफुल्लकेतकीषण्डगन्धामोदिदिगन्तरे ॥
मल्लिकाशोकपुन्नागचम्पकैरुपशोभिते ॥ २४ ॥
तत्काननान्तर्घटिते मण्डपे चारुतोरणे ॥
भूषिते माल्यवसनचामरैरुपशोभिते ॥ २५ ॥
रत्नखट्वान्दोलिकायां तन्मध्ये वासयेत्प्रभुम् ॥
सद्रत्नमुकुटं तारहारशोभितवक्षसम् ॥ २६ ॥
अनर्घ्यरत्नघटितकुण्डलोद्भासितश्रुतिम् ॥
यथास्थानं यथाशोभं दिव्यालङ्कारमञ्जुलम् ॥ २७ ॥
विकचाम्बुजमध्यस्थं विश्वधात्र्या श्रिया युतम् ॥ २८ ॥
शङ्खचक्रगदापद्मधारिणं वनमालिनम् ॥
सुप्रसन्नं सुनासं तं पीनवक्षःस्थलोज्ज्वलम् ॥ २९ ॥
पुरो व्योमस्थितैर्देवैर्ब्रह्माद्यैर्नतमस्तकैः ॥
कृताञ्जलिपुटैर्भक्त्या जयशब्दैरभिष्टुतम् ॥ 2.2.43.३० ॥
गन्धर्वैरप्सरोभिश्च किन्नरैः सिद्धचारणैः ॥
हाहाहूहूप्रभृतिभिः सत्वरं दिव्यगायनैः ॥ ३१ ॥
अहम्पूर्विकया नृत्यगीतवादित्रकारिभिः ॥
नेत्राम्बुजसहस्रैश्च पूज्यमानं मुदान्वितैः ॥ ३२ ॥
किरद्भिः सर्वतोदिक्षु गन्धचन्दनजं रजः ॥
उपवेश्याथ गोविन्दं पूजयेदुपचारकैः ॥ ३३ ॥
बल्लवीवृन्दमध्यस्थं कदम्बतरुमूलगम् ॥
हावहास्यविलासैश्च क्रीडमानं वनान्तरे ॥ ३४ ॥
गोपीभिश्चैव गोपालैर्लीलान्दोलितयानगम् ॥
चिन्तयित्वा जगन्नाथं विकिरेद्गन्धचूर्णकैः ॥ ३५ ॥
सकर्पूरै रक्तपीतशुक्लैर्दिक्षु समन्ततः ॥
दिव्यैर्वस्त्रैर्दिव्यमाल्यैर्द्दिव्यैर्गन्धैः सुधूपकैः ॥ ३६ ॥
चामरान्दोलनैर्गीतैः स्तुतिभिश्च समर्चितम् ॥
आन्दोलयेद्दोलिकास्थं सप्तवाराञ्छनैः शनैः ॥ ॥३७॥
तदा पश्यन्ति ये कृष्णं मुक्तिस्तेषां न संशयः ॥
ब्रह्महत्यादिपापानां पञ्चकानां क्षयो भवेत् ॥ ३८ ॥
त्रिरेवं दोलयेद्देवं सर्वपापापनोदनम् ॥
भक्त्यानुग्राहकं पुंसां भुक्तिमुक्त्येककारणम् ॥ ३९ ॥
लीलाविचेष्टितं यस्य कृत्रिमं सहजं तथा ॥
अंहःसङ्घक्षयकरं मूलाविद्यानिवर्त्तकम् ॥ 2.2.43.४० ॥
पश्यन्द्वितीयं हरति गोहत्याद्युपपातकम् ॥
हरत्यशेषपापानि तृतीये नात्र संशयः ॥४१॥
दृष्ट्वा दोलायितं देवं सर्वपापैः प्रमुच्यते ॥
आध्यात्मिकैराधिभौतैराधिदैवैर्विमुच्यते ॥ ४२ ॥
इमां यात्रां कारयित्वा चक्रवर्ती भवेन्नृपः ॥
ब्राह्मणस्तु चतुर्वेदी ज्ञानवाञ्जायते ध्रुवम् ॥४३॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे पुरुषोत्तमक्षेत्रमाहात्म्ये दोलारोहणन्नाम त्रयश्चत्वारिंशोऽध्यायः ॥४३॥