॥ जैमिनिरुवाच ॥ ॥
मृगराशिं सङ्क्रमति यदा भास्वान्द्विजोत्तमाः ॥
उत्तराशां जिगमिषुस्तदा स्यादुत्तरायणम् ॥ १ ॥
तस्य सङ्क्रमणार्द्धं च यावत्स्युर्विंशतिः कलाः ॥
महापुण्यतमः कालः पितृदेवद्विजप्रियः ॥ २ ॥
तत्र स्नात्वा विधानेन र्तार्थराजजले नरः ॥
नारायणं समभ्यर्च्य कल्पवृक्षं प्रणम्य च ॥ ३ ॥
प्रविश्य देवतागारं कृत्वा तं त्रिः प्रदक्षिणाम्॥
मन्त्रराजेन सम्पूज्य देवं श्रीपुरुषोत्तमम् ॥ ४ ॥
तथा बलं सुभद्रां च स्वमन्त्रेण प्रपूजयेत् ॥
दृष्ट्वोत्तरायणे देवं मुच्यते देहबन्धनात् ॥ ५ ॥
विधानं तस्य वक्ष्याभि शृणुध्वं पावनं महत् ॥
सङ्क्रान्तेः पूर्वदिवसे नवां शालिं सुकुट्टिताम् ॥ ६ ॥
प्रासादपूर्वदेशे च स्थापयित्वाधिवासयेत् ॥
नवेन वाससावेष्ट्य दूर्वासर्षपपुष्पकैः ॥ ७ ॥
पूजयित्वा मन्त्रयेद्वै कृष्णस्त्वामभिरक्षतु ॥
तस्मिन्नेव निशायामे व्यतीते जगदीशितुः ॥ ८ ॥
प्रत्यर्चां सन्निधौ नीत्वा भावयेदेकताधिये ॥
उपचारावशिष्टाभ्यां पूजयेद्वै समाहितः ॥ ९ ॥
ततो निर्माल्यवसनमालामस्यां निधापयेत् ॥
महासमृद्ध्या तामर्चां त्रिर्देवान्भ्रामयेत्ततः ॥ 2.2.42.१० ॥
आन्दोलिकायामारोप्य प्रासादद्वारमानयेत् ॥
त्रिविक्रमं त्रिक्रमेण त्रैलोक्यक्रमणं विभुम् ॥ ११ ॥
विडम्बयन्तं तां लीलां प्रासादं भ्रामयेच्च तम् ॥
त्रिरन्ते पुनरङ्के च सुसमृद्ध्या शनैःशनैः ॥ १२ ॥
दीपिकाशतसंरुद्धतमसोवरणान्तरे ॥
छत्रध्वजपताकाभिर्नृत्यवादित्रगीतकैः ॥ १३ ॥
तद्दर्शनपरिक्षीणपातकानां महात्मनाम् ॥
न च चिह्नं शरीरेऽस्य नवाङ्गे भ्रमणं ततः ॥ १४ ॥
अनुयान्ति तदा ये तं महे यान्तं त्रिविक्रमम् ॥
लभन्ते वाजिमेधस्य फलं ते वै पदे पदे ॥ १५ ॥
प्रथमभ्रमणं दृष्ट्वा मुच्यते पञ्चपातकैः ॥
मलिनीकरणैर्मुच्येद्द्वितीयं भ्रमणं द्विजाः ॥ १६ ॥
अपात्रीकरणैर्दृष्ट्वा तृतीयं भ्रमणं ध्रुवम् ॥
उपपातकपापैश्च चतुर्थं मुच्यते ततः ॥ १७ ॥
पुनः प्रभाते देवेशं प्रलिम्पेद्गन्धचन्दनैः ॥
वस्त्रालङ्कारमाल्यैश्च भूषयित्वा यथाविधि ॥ १८ ॥
पूजयेदुपचारैस्तं यथाशक्ति समृद्धिमत् ॥
नीराजयित्वा देवेशं तन्दुलानधिवासितान् । १९ ॥
स्थालीषु शातकुम्भासु दधिखण्डाज्यमिश्रितान् ॥
सनारिकेलशकलाच्छृङ्गवेर दलान्वितान् ॥ 2.2.42.२० ॥
प्रासादं त्रिः परिभ्रम्य नयेद्देवसमीपतः ॥
पङ्क्तिशः स्थापयेदग्रे गन्धपुष्पाक्षतान्वितान् ॥ २१ ॥
जीवनं सर्वभूतानां जनकस्त्वं जगत्प्रभो ॥
त्वन्मयाः शालयो ह्येते त्वयैव जनिताः प्रभो ॥ २२ ॥
लोकानुग्रहणार्थाय गृहीतोचितविग्रह ॥
तव प्रीत्यै कृतानेतान्गृहाण परमेश्वर ॥ २३ ॥
त्वयि तुष्टे जगत्सर्वमनेन प्रभविष्यति ॥
स्वाहाकारस्वधाकारवषट्कारा दिवौकसाम् ॥ २४ ॥
आप्यायना भविष्यन्ति तैरेवाप्यायितं जगत् ॥
रक्ष सर्वं जगन्नाथ त्वन्मयं सचराचरम् ॥ २५ ॥
इति सम्प्रार्थ्य देवेशं शालिस्तम्बान्निवेदयेत् ॥
तन्मयान्भक्षभोज्यांश्च दधिकुम्भान्सुगन्धिनः ॥ २६ ॥
कर्पूरखण्डमरिचचूर्णयुक्तान्निवेदयेत् ॥
ब्राह्मणान्पूजयेद्भक्त्या देवदेवपुरःस्थितान् ॥ २७ ॥
तेभ्यः प्रदद्याद्भक्त्या ताञ्छाल्यादीन्भगवद्धिया ॥
इमं महोत्सवं विप्राः पुरा कल्पे च कश्यपः ॥ २८ ॥
स च सृष्टिं विनिर्माय भगवत्प्रीतयेऽकरोत् ॥
ये पश्यन्त्युत्सवं चैनं कश्यपेन विनिर्मितम् ॥ २९ ॥
सर्वदा सर्वकामैस्ते पूर्णाः शोचन्ति न द्विजाः ॥
उषित्वा त्रिदशैः सार्द्धं कल्पान्ते मोक्षमाप्नुयुः ॥ 2.2.42.३० ॥
महानसस्य संस्कारं वह्नेः संस्कारमेव च ॥
अत्रापि कुर्यान्मुनयो वैश्वदेवं दिनेदिने ॥ ३१ ॥
आधानसंस्कृते वह्नौ भगवद्भुक्तये रमा ॥
प्रत्यहं पाकमाधत्ते दिव्यरूपा तिरोहिता ॥ ३२ ॥
अस्मिन्महापुण्यतम उत्सवे परमात्मनः ॥
तुलापुरुषदानादि कोटिकोटिगुणं भवेत्॥ ३३ ॥
स्नानं दानं तपो होमः स्वाध्यायः पितृतर्पणम् ॥
सर्वमक्षयतां याति ह्युत्सवे चोत्तरायणे ॥ ३४ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे पुरुषोत्तमक्षेत्रमाहात्म्ये मकरसङ्क्रमविधिवर्णनन्नाम द्विचत्वारिंशोऽध्यायः॥ ४२ ॥