०४१ पुष्याभिषेकविधिवर्णनम्

॥ जैमिनिरुवाच ॥ ॥
पुष्यस्नानोत्सवं वक्ष्ये यथोक्तं ब्रह्मणा पुरा ॥
पुष्यर्क्षेण च संयुक्ता पौर्णमासी यदा भवेत् ॥ १ ॥
पौषे मासि तथा कुर्यात्पुष्यस्नानोत्सवं हरेः ॥
एकादश्यां प्रकुर्वीत ऐशान्यामङ्कुरार्पणम् ॥ २ ॥
ततः प्रतिदिनं कुर्यात्प्रतिमायां हरेर्गृहे ॥
नृत्यगीतोपहारैश्च प्रतिरात्रं वलिं हरेत् ॥ ३ ॥
चतुर्दशीनिशायां तु कुम्भानामधिवासनम् ॥
एकाशीतिप्रमाणानां तथा स्वर्णमयाञ्च्छुभान् ॥ ४ ॥
गव्यसर्पिःप्रपूर्णांश्च स्थापयेदेकविंशतिम् ॥
कारयेत्सर्वतोभद्रं मण्डलं पुरतो हरेः ॥ ५ ॥
तन्मध्ये बृहदाधारं स्थापयेद्दर्पणं शुभम् ॥
रात्रौ जागरणं कुर्याद्गीतनृत्यादिविस्तरैः ॥ ६ ॥
प्रभाते वह्निकार्यं च कुर्यात्तद्दैवतं द्विजाः ॥
पालाशीभिः समिद्भिस्तु चरुणा सर्पिषा तथा ॥ ७ ॥
ब्रह्मविष्णुशिवेभ्यस्तु प्रत्येकं तु सहस्रकम् ॥
स्वलिङ्गमन्त्रैर्जुहुयात्तदन्ते पुरुषोत्तमम् ॥ ८ ॥
पूजयेदुपचारैस्तैरादर्शं प्रतिबिम्बितम् ॥
ततः पुरुषसूक्तेन कुम्भांस्तानभिमन्त्रयेत् ॥ ९ ॥
तेनैवाच्छिद्रधारेण स्नापयेत्पुरुषोत्तमम्॥
पावमानीयकैर्देवाञ्छ्रीसूक्तेन ततः परम् ॥ 2.2.41.१० ॥
सर्पिः कुम्भैः स्नापयेच्च गायत्र्या च ततः परम् .॥
वैष्णव्या गन्धतोयेन श्रीसूक्तेन समर्चयेत् ॥ ११ ॥
सहस्रधारया देवं ततो निर्माल्यमुत्सृजेत् ॥
देवाङ्गं लेपयेद्गन्धैश्चन्दनेन च विग्रहे ॥ १२ ॥
यथास्थानं यथाशोभमलङ्कारांश्च योजयेत् ॥
सुगन्धसुमनोमाल्यैर्भूषयेत्तदनन्तरम् ॥ १३ ॥
अष्टायुधानि देवस्य चक्रादीनि न्यसेत्पुरः ॥
रत्नच्छत्रं समुच्छ्रित्य पूजयेत्पुरुषोत्तमम् ॥ १४ ॥
लक्ष्म्या युक्तं पुनर्विप्रा उपहारैः समृद्धिमत् ॥
शङ्खेषु पूर्यमाणेषु स्निग्धगम्भीरनादिषु ॥ १५ ॥
चामरान्दोलव्यग्रासु वेश्यासु रुचिरासु च ॥
माङ्गल्यगीतनृत्याद्यैः स्तुतिपाठेषु बन्दिनाम् ॥ १६ ॥
जयशब्दं प्रकुर्वत्सु द्विजातिषु मुहुर्मुहुः ॥
दूर्वाक्षताञ्जलिभिस्त्रिभिः सम्पूज्य केशवम् ॥ १७ ॥
गोसर्पिर्दीपकैः स्वर्णपात्रकैरतिनिर्मलैः ॥
नीराजयेज्जगन्नाथं कर्पूरयुतवर्तिभिः ॥ १८ ॥
स्वर्णपात्रस्थितं चारु ताम्बूलं सुपरिष्कृतम् ॥
शनैःशनैर्मुखाभ्याशे प्रत्येकं विनिवेदयेत् ॥ ॥ १९ ॥
आचार्ये दक्षिणां दद्याद्ब्राह्मणांश्चैव पूजयेत् ॥ 2.2.41.२० ॥
पुष्यस्नानोत्सवं पुण्यं ये पश्यन्ति मुदान्विताः ॥
सम्पूर्णसर्वकामास्ते व्रजेयुर्वैष्णवं पदम् ॥ २१ ॥
राज्यभ्रष्टो लभेद्राज्यं सार्वभौमं च विन्दति ॥
अपुत्रा मृतवत्सा वा पुत्रं दीर्घायुषं लभेत् ॥ २२ ॥
दारिद्र्यनाशनं धन्यं ब्रह्मवर्चसकारणम् ॥
पुष्यस्नानं कीर्तितं वः शृणुध्वं चोत्तरायणम् ॥ २३ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे पुरुषोत्तमक्षेत्रमाहात्म्ये पुष्याभिषेकविधिवर्णनं नामैकचत्वारिंशोऽध्यायः ॥ ४१ ॥