०४० प्रावरणोत्सववर्णनम्

॥ ॥ जैमिनिरुवाच ॥ ॥
मार्गशीर्षे सिते पक्षे षष्ठ्यां प्रावरणोत्सवम् ॥
कृत्वा दृष्ट्वा नरो भक्त्या वैष्णवं लोकमाप्नुयात् ॥ १ ॥
विधानं तस्य वक्ष्यामि शृणुध्वं मुनयोऽधुना ॥
वासोधिवासं कुर्वीत पञ्चम्यां निशि कर्मवित् ॥ २ ॥
देवाग्रे मण्डपे कुर्यात्पद्ममष्टदलान्वितम् ॥
दिक्पालान्पूजयेद्दिक्षु क्षेत्रपालं गणाधिपम् ॥ ३ ॥
चण्डप्रचण्डौ च बहिश्चतुर्दिक्षु प्रपूजयेत् ॥
मध्ये पात्रं समाधाय प्रोक्षयेद्वस्त्रवारिणा ॥ ४ ॥
द्युतानस्त्वेति मन्त्रेणच्छादयेद्दिव्यवाससा ॥
सुधूपितं वस्त्रजातमेकविंशतिसङ्ख्यकम् ॥ ५ ॥
तन्मध्ये स्थापयेन्मन्त्रं वैष्णवं च समुच्चरन् ॥
अन्येन वाससा तद्धि समाच्छाद्य प्रयत्नतः ॥६॥
स्पृष्ट्वा जपेन्मन्त्रमिमं संस्मरन्पुरुषोत्तमम् ॥
आच्छादको यो जगतां तेजसा विष्णुरव्ययः ॥ ७ ॥
वसनात्तस्य वस्त्र त्वं वस वासे जगत्पतेः ॥
इन्द्रघोषस्त्वेति रक्षां विदध्यात्तस्य सर्वतः ॥ ८ ॥
पूजयेद्गन्धपुष्पाभ्यां ततो देवं प्रपूजयेत् ॥
सर्वलेपं प्रकुर्वीत नृत्यगीतैर्नयेन्निशाम् ॥ ९ ॥
ततोऽरुणोदये काले प्रातःसन्ध्यासमीपतः ॥
पुनः प्रपूजयेद्देवं पूर्ववत्सुसमाहितः ॥ 2.2.40.१० ॥
ततस्तं पूजितं वस्त्रसमूहं बहिरानयेत् ॥
कार्पासपट्टक्षौमाढ्यं तथैवाच्छादितं द्विजाः ॥ ११ ॥
छत्रध्वजपताकाभिश्चामरान्दोलनैस्तथा ॥
गीतवादित्रनृत्यैश्च प्रसूनोत्किरणेन च ॥ १२ ॥
प्रासादं त्रिः परिभ्रम्य देवं त्रिर्भ्रामयेत्ततः ॥
आच्छादितं तदाकृष्य संस्कुयार्द्वीक्षणादिभिः ॥ १३ ॥
सप्तभिः सप्तभिर्देवान्वासोभिः परिवेष्टयेत् ॥
मुखवर्जं तु सर्वाङ्गं शीतप्रावरणैर्द्विजाः ॥ १४ ॥
ताम्बूलं च निवेद्याथ कर्पूरलतिकां तथा ॥
दूर्वाक्षतैः प्रपूज्याथ कुर्यान्नीराजनं विभोः ॥ १५ ॥
हिमागमे नृसिंहं ये प्रावृण्वन्ति सुचेलकैः ॥
पश्यन्ति प्रावृतिं ये वा न तेषां मोहसंवृतिः ॥ १६ ॥
ते द्वन्द्ववातशीतोत्थभयं नाप्नुवते क्वचित् ॥
विष्णोर्देवाधिदेवस्य इमं प्रावरणोत्सवम् ॥ १७ ॥
भक्त्या ये वै प्रपश्यन्ति सर्वान्कामानवाप्नुयुः ॥
भगवन्तं समुद्दिश्य ब्राह्मणेभ्यः प्रदापयेत् ॥ ॥ १८ ॥
गुरुभ्यश्चान्यदेवेभ्यो दीनानाथेभ्य एव च ॥
शीतप्रावरणं दद्यात्सत्कृत्य परया मुदा ॥
ददाति भगवान्प्रीतस्तस्मै वरमनुत्तमम्॥ ॥ १९ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे पुरुषोत्तमक्षेत्रमाहात्म्ये प्रावरणोत्सववर्णनन्नाम चत्वारिंशोऽध्यायः ॥ ४० ॥