०३८ दमनकचरितम्

॥ जैमिनिरुवाच ॥ ॥
इति दत्त्वा वरं तस्मै श्वेतराजाय वै पुरा ॥
जगामान्तर्हितो विप्राः प्रासादान्तः स्थितो हरिः॥१॥
समस्तजगतां या श्रीः सृष्टिस्थितिविनाशकृत् ॥
वैष्णवीशक्तिरतुला परिवेषणकारिणी ॥ २ ॥
सुधोपमं सुपक्वान्नं भुङ्क्ते नारायणः प्रभुः ॥
तदुच्छिष्टोपभोगो हि सर्वाघक्षयकारकः ॥ ३ ॥
न तादृशसमं पुण्यं वस्त्वस्ति पृथिवीतले ॥
पापसंस्कारकर्तॄणां सम्पर्कात्तु न दुष्यति ॥ ४ ॥
पद्मायाः सन्निधानेन सर्वे ते शुचयः स्मृताः ॥
विष्ण्वालयगतं तद्धि निर्माल्यं पतितादयः ॥ ५ ॥
स्पृशन्ति चेन्न दुष्टं तद्यथा विष्णुस्तथैव तत् ॥
व्रतस्था विधवाश्चैव सर्वे वर्णाश्रमास्तथा ॥ ६ ॥
तत्प्राशनेन पूयन्ते दीक्षिताश्चाग्निहोत्रिणः ॥
दरिद्रः कृपणो वापि गृहस्थः प्रभुरेव वा ॥७॥
स्वदेश्याः परदेश्या वा सर्वे तत्र समागताः ॥
नाभिमानं प्रकुर्वीरन्विष्णोर्निर्माल्यभक्षणे ॥ ८ ॥
भक्त्या लोभात्कौतुकाद्वा क्षुधासंशमनेन वा ॥
आकण्ठभक्षितं तद्धि पुनाति सकलांहसः ॥ ९ ॥
सर्वरोगोपशमनं पुत्रपौत्रप्रवर्द्धनम् ॥
दारिद्र्यहरणं श्रेष्ठं विद्यायुःश्रीप्रदं शुभम् ॥ 2.2.38.१० ॥
पक्षपातो महांस्तत्र विष्णोरमिततेजसः ॥
निन्दन्ति ये तदमृतं मूढाः पण्डितमानिनः ॥ ११ ॥
स्वयं दण्डधरस्तेषु सहते नापराधिनः ॥
येषामत्र स दण्डश्चेद्ध्रुवा तेषां हि दुर्गतिः ॥ १२ ॥
कुम्भीपाके महाघोरे पच्यन्ते तेऽतिदारुणे
तं न विक्रयः क्रयो वापि प्रशस्तस्तस्य भो द्विजाः ॥ १३ ॥
निर्माल्यं जगदीशस्य नाशित्वाश्नामि किञ्चन ॥
इति सत्यप्रतिज्ञो यः प्रत्यहं तच्च भक्षयेत् ॥ १४ ॥
सर्वपापविनिर्मुक्तः शुद्धान्तःकरणो नरः ॥
स शुद्धं वैष्णव स्थानं क्रमाद्याति न संशयः ॥ १५ ॥
चिरस्थमपि संशुष्कं नीतं वा दूरदेशतः ॥
यथातथोपयुक्तं तत्सर्वं पापापनोदनम् ॥ १६ ॥
कुक्कुरस्य मुखाद्भ्रष्टं तदन्नं पतितं यदि ॥
ब्राह्मणेनापि भोक्तव्यमितरेषां तु का कथा ॥ १७ ॥
उपोष्य तिष्ठता वापि नोपवासं च कुर्वता ॥
अशुचिर्वाप्यनाचारो मनसा पापमाचरन् ॥
प्राप्तमात्रेण भोक्तव्यं नात्र कार्या विचारणा ॥ १८ ॥
नैवेद्यान्नं जगद्भर्त्तुर्गाङ्गं वारि समं द्वयम् ॥
दृष्टेः स्वर्गादि सम्प्राप्तिर्भक्षणाच्चाघनाशनम् ॥ १९ ॥
जगद्धात्र्या हि यत्पक्वं वैष्णवेऽग्नौ सुसंस्कृते ॥
भुक्तेऽन्वहं चक्रपाणिर्युगमन्वन्तरादिषु ॥ 2.2.38.२० ॥
सप्तद्वीप धरामध्ये सान्निध्यं नेदृशं हरेः ॥
यादृशं नीलगोत्रेऽस्मिन्व्याजमानुषचेष्टितम् ॥ २१ ॥
दारुरूपं परं ब्रह्म सर्वचाक्षुषगोचरम् ॥
प्रकाशते भो मुनयो न दृष्टं न श्रुतं क्वचित् ॥ २२ ॥
तस्मै प्रवृत्तिरूपाय ब्रह्मणे परमात्मने ॥
प्रवृत्तिरूपा शक्तिः श्रीः प्रवर्तयति यद्धविः ॥ २३ ॥
तदश्नाति जगन्नाथस्तच्छेषं दुरितापहम् ॥
किमत्र चित्रं भो विप्रा यदुक्तं मुक्तिकारणम् ॥ २४ ॥
नाल्पपुण्यवतां तत्र विश्वासश्च प्रजायते ॥
वेदाचारप्रधानेषु युगे ह्येतत्प्रकीर्तितम् ॥ २५ ॥
महिमानं न वेदास्य विशेषाच्छ्रूयतां कलौ ॥
घोरे कलियुगे तस्मिंस्त्रिपादो धर्मविप्लवः ॥ २६ ॥
धर्मः स्यादेकपादस्तु क्वचित्तस्य भयाच्चरेत् ॥
सर्वेनृतप्रधाना हि दाम्भिकाः शब्दवृत्तयः ॥ २७ ॥
प्रायश्च धर्मविमुखा जिह्वोपस्थपरायणाः ॥
न ध्यायन्ति तपस्यन्ति व्रतयन्ति कदाचन ॥ २८ ॥
अधर्मबहुलाः सर्वे हिंसका लोलुपाः परम् ॥
परेषां परिवादेन तुष्यन्ति स्वकृतं विना ॥ २९ ॥
प्रसङ्गात्कौतुकाद्वापि निघ्नन्ति परकर्म वै ॥
क्षुद्रकार्याशयात्स्वस्य परकार्यप्रबाधकाः ॥ 2.2.38.३० ॥
धर्मलब्धां स्त्रियं रम्यामवज्ञाय स्ववेश्मनि ॥
परयोषिति निन्द्यायां प्रसक्ताः पशुचेष्टिताः ॥ ३१ ॥
अग्निहोत्रादिकं वापि व्रतं नान्यत्क्वचित्क्वचित् ॥
जीविका तद्द्विजातीनां येषां वा पारलौकिकम्॥३२॥
अव्रताधीतवेदेन अन्यायाप्तधनेन च ॥
वित्तशाठ्येन च कृतं न तथा फलदायि तत् ॥ ३३ ॥
प्रायः कलियुगे भूपाः प्रजावनपराङ्मुखाः ॥
करादानपरा नित्यं पापिष्ठाश्चौर्यवृत्तयः ॥ ३४ ॥
वर्णसङ्करिणः सर्वे शूद्रप्रायाः कलौ युगे ॥
हर्तारः पार्थिवा एव शूद्राश्च नृपसेवकाः ॥ ३५ ॥
श्रौतस्मार्तादिकं कर्म न तथा सदनुष्ठितम् ॥
युगे चतुर्थे भो विप्राः परलोकाय कल्पिते ॥ ३६ ॥
दानधर्मः परो ह्येष नान्यो धर्मः प्रशस्यते ॥
कर्मणा मनसा वाचा हितमिच्छेद्द्विजन्मनाम् ॥ ३७ ॥
इति होवाच भगवान्ब्राह्मणो मामकी तनुः ॥
ब्राह्मणा यस्य सन्तुष्टाः सन्तुष्टस्तस्य चाप्यहम् ॥ ३८ ॥
उभयत्र समो भूयाद्ब्राह्मणे च जनार्दने ॥
यद्वदन्ति द्विजा वाक्यं तत्स्वयं भगवान्वदेत् ॥ ३९ ॥
यथातथा वर्तमानो वर्णानां ब्राह्मणो गुरुः ॥
भगवानपि देवेशः स साक्षाद्ब्राह्मणप्रियः ॥ 2.2.38.४० ॥
सदावतारं कुरुते ब्राह्मणार्थं जनार्दनः ॥
तत्पालनार्थं दुष्टान्वै निगृह्णाति युगे युगे ॥ ४१ ॥
ससर्ज ब्राह्मणानग्रे सृष्ट्यादौ स चतुर्मुखः ॥
सर्वे वर्णाः पृथक्पश्चात्तेषां वंशेषु जज्ञिरे ॥ ४२ ॥
तस्मात्कलियुगे तस्मिन्ब्राह्मणो विष्णुरेव च ॥
उभौ गतिश्च सर्वेषां ब्राह्मणानां हरिर्गतिः ॥ ४३ ॥
हरिरेवात्र सर्वेषां गतिः प्राप्ते कलौ युगे ॥
शालग्रामादिके क्षेत्रे स्मर्यते कीर्त्यतेऽपि च ॥ ॥ ४४ ॥
तस्मिन्नीलाचले पुण्ये क्षेत्रे क्षेत्रज्ञवर्ष्मणि ॥
जीवभूतः स सर्वेषां दारुव्याजशरीरभृत् ॥ ४५ ॥
कलिकल्मषनाशाय प्रायो दुष्कृतकर्मणाम् ॥
दर्शनस्तवनोच्छिष्टभोजनैर्मुक्तिदायकः ॥ ४६ ॥
उच्छिष्टेन सुरेशस्य व्याप्तं यस्य कलेवरम् ॥
तदाहारस्तदात्मा हि लिप्यते न स पातकैः ॥ ४७ ॥
निवेदनीयमन्यासु मूर्तिष्वीशस्य वर्तते ॥
पावनं तदपि प्रोक्तमुच्छिष्टं तु विमोचकम् ॥ ४८ ॥
भुङ्क्ते त्वत्रैव भगवान्पश्यत्यन्यत्र चक्षुषा ॥
पुरायं प्रार्थितो देवो योगिभिः परिवेष्टितैः ॥ ४९ ॥
निर्माल्योच्छिष्टभोगेन तव मायां जयेमहि ॥
अत्यन्तस्तिमिताक्षाणामनायासेन मुक्तिदः ॥ 2.2.38.५० ॥
शयनासनभोगाद्यै रमते च श्रिया सह ॥
अत्र चेष्टा भगवतो वेदार्थ इति धार्यताम् ॥ ५१ ॥
समतिक्रान्तवेदो हि न कदाचित्प्रवर्तते ॥
वेदरक्षार्थमेवास्य सम्भवो हि युगे युगे ॥ ५२ ॥
प्रमाणभूतो भगवान्विरुद्धं कथमाचरेत् ॥
तस्मिन्विरुद्धं चरति जगदेव तथा भवेत् ॥ ५३ ॥
आचारेण हि वेदार्थो नियतो धामतां गतः ॥
मध्यदेशभवः पूर्वमत्रागच्छद्द्विजोत्तमः ॥ ५४ ॥
शिष्टाचारैः सुविमलः शास्त्रार्थपरिनिष्ठितः ॥
सदा शान्तः सदा दान्तः कायवाङ्मनसैर्गृही ॥ ५५ ॥
स तीर्थविधिना देवं समभ्यर्च्य च साग्निकः ॥
त्रिरात्रमत्रोषितवान्विष्ण्वर्चनपरः शुचिः ॥ ॥ ५६ ॥
यज्ञशेषं गृहस्थानां भोक्तव्यमिति शास्त्रतः ॥
देवोच्छिष्टं न जग्राह अन्यपाकाभिशङ्कया ॥ ५७ ॥
दैवतैरत्र संस्कार्यो देवयोग्यः कथं भवेत् ॥
अयोग्यत्वाच्च नैवेद्यमग्राह्यं च भवेद्ध्रुवम् ॥५८॥
अगृहीते च नैवेद्ये श्रोत्रियेण तदा द्विजाः ॥
सर्वे च तस्यानुचरा नाभुञ्जन्त निवेदितम् ॥ ॥ ५९ ॥
ततः स व्याधिसम्मग्नो विह्वलीभूतविग्रहः ॥
सकुटुम्बोऽभवन्मूको भगवद्द्रोहसंयुतः ॥ 2.2.38.६० ॥
मनसा चिन्तयत्येवं निर्निमित्तं कथं नु मे ॥
कुटुम्बसहितस्याभूत्पीडा सर्वाङ्गभञ्जिनी ॥ ६१ ॥
एवं चिन्तयमानस्य त्रिरात्रान्तेऽभवन्मतिः ॥
नेदृशी व्याधिपीडा च सर्वेषामेकदा भवेत् ॥ ॥ ६२ ॥
को वा द्रोहः कृतोऽस्माभिरेतस्मिन्पुरुषोत्तमे ॥
न बुद्धिपूर्वकः किं स्यात्ततो मे व्याधिकारणम् ॥ ६३ ॥
मुहुरित्थं चिन्तयित्वा दध्यौ नारायणं प्रभुम् ॥
ध्यानावसाने तुष्टाव शास्त्रतत्त्वार्थदर्शकः ॥ ६४ ॥
॥ शाण्डिल्य उवाच ॥ ॥
चतुर्दशापि या विद्या धर्मनिर्णयहेतवः ॥
ताः सर्वास्तव वाक्यानि मुखपद्मविनिर्गताः ॥ ६५ ॥
ताभिरेवाचरेद्धर्ममिति शास्त्रार्थनिश्चयः ॥
तस्य धर्मस्य रक्षार्थमवतारो युगे युगे ॥ ६६ ॥
तमुल्लङ्घ्य वर्त्तमानो भवद्द्रोहकरो ध्रुवम् ॥
अहं ते देवदेवेश कर्मणा मनसा गिरा ॥ ६७ ॥
धर्मशास्त्रमतिक्रम्य न वर्त्तेऽप्यर्थकामयोः ॥
अनेक जन्मसाहस्रैः सञ्चितं पापसञ्चयम् ॥ ६८ ॥
दग्धुमत्रागतो देव त्वद्दर्शनदवाग्निना ॥
कोऽपराधः कृतो देव त्वच्छास्त्रपथि वर्तिना ॥
सर्वाङ्गं वाधते यस्मादुग्रो व्याधिरहेतुकः ॥ ६९ ॥
ज्ञानतोऽज्ञानतो वापि त्वत्पादसरसीरुहे ॥
कृतोऽपराधो यो देव तं क्षमस्व कृपाम्बुधे ॥
भूमौ स्खलितपादानां भूमिरेवावलम्बनम् ॥ 2.2.38.७० ॥
त्वयि जातापराधानां त्वमेव शरणं प्रभो ॥
तवापराधजं पापं त्वमेव च क्षमस्व मे ॥ ७१ ॥
वह्निसन्तापतो नश्येद्वह्निसन्तापजो व्रण ॥
तदिमां दुर्दशां देव प्रारब्धां पापबीजजाम् ॥ ७२ ॥
लीलापाङ्गेन शमय अपवर्गैकहेतुना ॥
मामुद्धर जगन्नाथ पतितं शोकसागरे ॥ ७३ ॥
त्वद्दर्शनपथं यातः किं नु शोच्यो भवेन्नरः ॥
निसर्गकरुणाम्भोधे यस्त्वद्दृष्टिपथं गतः ॥ ७४ ॥
सदानन्दाब्धिसम्मग्नो न शोचति न काङ्क्षति ॥
नाल्पभाग्यो ह्यहं देव त्वामद्राक्षं स्वचक्षुषा ॥ ७५ ॥
अपवर्गान्तरायो मे ध्रुवमेषा विभीषिका ॥
तत्प्रसीद जगन्नाथ सेवकं द्रोहिणं सदा ॥ ७६ ॥
सेव्यसेवकसम्बन्धादपराधं क्षमस्व मे ॥
इति स्तवान्ते तस्याशु देहपीडागमत्तदा ॥ ७७ ॥
ददर्श सोथ गोविन्दं नृसिंहं भक्तवत्सलम् ॥
दिव्यसिंहासनारूढं दिव्यालङ्कारभूषितम् ॥ ७८ ॥
आददानं श्रिया दत्तं परमान्नं कराम्बुजे ॥
ग्रासावशेषं पात्रेषु क्षिपन्तं च मुहुर्मुहुः ॥ ७९॥
यावद्दत्तं वस्तुजातं तावदश्नन्तमत्वरम् ॥
विलाससस्मितापाङ्गं हस्ते लक्ष्म्यापवर्जितम् ॥ 2.2.38.८० ॥
तं दृष्ट्वा विस्मयाविष्टः शाण्डिल्यः स द्विजोत्तमः ॥
सस्मारात्मकृतं द्रोहं नैवेद्याग्रहणे स्थितम् ॥ ८१ ॥
क्वाहं प्रादेशिकः प्राज्ञः सर्वज्ञाननिधिर्भवान् ॥
क्व त्वं महदहङ्कारभूततत्त्व विसर्जकः ॥ ८२ ॥
त्वन्मायामूढमनसो जानीयुः कथमीश ते ॥
निरङ्कुशामनिर्वाच्यामिच्छां सृष्टिलयात्मिकाम् ॥ ८३ ॥
इति स्तुवन्तं नृहरिस्तेनैवोच्छिष्टपाणिना ॥
सिषेच ग्रासशिष्टांश्च सर्वाङ्गे द्विजसत्तमम् ॥ ८४ ॥
तैः सिक्तैर्ब्राह्मणः सद्यः सुधासेकोपमैर्मुदा ॥
बभौ दिव्यवपुः श्रीमाञ्ञ्जीवन्मुक्तो यथा मुनिः ॥ ८५ ॥
महिमानं हि भक्तेस्तु भक्ता एव विजानते ॥
महतीं सूतिपीडां तु वन्ध्या नानुभवेत्क्वचित्॥ ८६ ॥
इत्युदीर्य स्वयं गात्रादुच्छिष्टं परमात्मनः ॥
भुक्त्वा कृतार्थमात्मानं मेने श्रोत्रियपुङ्गवः ॥ ८७ ॥
साधारणं धर्मशास्त्रं क्षेत्रेऽस्मिन्न विचार्यते ॥
अयं तु परमो धर्मो यो देवेन प्रकीर्तितः ॥ ८८ ॥
आचारप्रभवो धर्मो धर्मस्य प्रभुरच्युतः ॥
इत्थं सञ्चितयन्विप्रः कुटुम्बार्थेऽवशेषितम् ॥ ८९ ॥
आजहार स्वयं मुष्ट्या ध्यानभङ्गमवाप च ॥
प्रबुद्धश्चिन्तयामास स्वप्नं तं विस्मिताशयः ॥ 2.2.38.९० ॥
अयमेव मम द्रोहो ह्यवज्ञासिषमीश्वरम् ॥
नैवेद्याशन माहात्म्यमजानन्परमाद्भुतम् ॥ ९१ ॥
अष्टादश चतुर्दश ब्रह्माण्डं यत्पदाम्बुजम् ॥
धर्मद्रवेण प्रक्षाल्य अपुनात्स्वं तदम्बुना ॥ ९२ ॥
यमर्चयन्ति शक्राद्या दिव्यभोगैरनुत्तमैः ॥
स मानुष्यकृतं भुङ्क्ते क्षेत्रेस्मिन्महदद्भुतम् ॥ ९३ ॥
इत्याश्चर्यपरस्तेन स्वप्नलब्धेन वै द्विजाः ॥
नैवेद्येन कुटुम्बं स्वं मार्जयामास सादरम् ॥ ९४ ॥
ततः सर्वे नीरुजास्ते सुवाक्याहृष्टमानसाः ॥
पुनर्जन्म मन्यमानाः शशंसुः क्षेत्रमुत्तमम् ॥ ९५ ॥
नास्त्यस्य सदृशं क्षेत्रं सप्तद्वीपावनीतले ॥
यत्र स्वोच्छिष्टदानेन पापान्मोचयते नरान् ॥ ९६ ॥
पुरुषोत्तममाहात्म्यं क्षेत्रं परमदुर्लभम् ॥
यतः स्वर्गश्च भोगश्च मुक्तिश्चैव करे स्थिता ॥९७ ॥
आर्तानां भवकान्तारे भाग्यादत्र समीयुषाम् ॥
नानाभोगोपतृप्तानां मुक्तिमार्गः सुखं भवेत् ॥ ९८ ॥
इत्थं ते हर्षमापन्नाः प्रलपन्तः परस्परम् ॥
यथेष्टं भोजयामासुरन्योन्यं च निवेदितम् ॥९९॥
ततस्ते निर्मला विप्रास्तरुणादित्यवर्चसः॥
देवा इव बभुः सर्वे निष्पापा निर्गतज्वराः ॥2.2.38.१००॥
नैवेद्याशनमाहात्म्यं कथितं वो द्विजोत्तमाः ॥
श्रुत्वापि महतः पापान्मुच्यते पापकृत्तमः॥१॥
निर्माल्यग्रहणस्यास्य फलं वक्तुं न शक्नुमः॥
साक्षाद्ब्रह्मस्वरूपेण ध्रियते वपुषा हि तत् ॥ २ ॥
पुष्पचन्दनमाल्यादि यदङ्गैरुपधार्यते॥
अपनीतं यथाकाले निर्माल्यं तत्प्रकीर्तितम् ॥३॥
धारणं शिरसा तस्य तेनाङ्गे चापि मार्जनम् ॥
सार्द्धानां कोटितीर्थानामभिषेकफलप्रदम् ॥
भक्षणं गुरुतल्पादि पातकौघविनाशनम् ॥ ४ ॥
लेप्या मूर्त्तिरियं विष्णोरन्येभ्यो लेप उत्तमः ॥
श्रीखण्डागुरुकर्पूरकस्तूरीकुङ्कुमादिभिः ॥५ ॥
प्रपिष्टलेपस्नेहेन चन्दनागुरुदारुणा ॥
शरीरे वासुदेवस्य इन्द्रद्युम्नेन कारितः ॥ ६ ॥
प्रत्यहं भो द्विजश्रेष्ठा वर्षान्ते चापनीयते ॥
लेप्यानां लेपनिर्मोके दर्शनं न प्रशस्यते ॥ ७ ॥
अन्तरा चेत्पतेल्लेपः पिष्टं लिम्पेत्पुनश्च तम् ॥
नान्यलेपः प्रशस्यो हि स विष्णोरङ्गसम्मतः ॥ ८ ॥
चन्दनार्द्रशरीरं च दृष्ट्वा विष्णुं पुरा किल ॥
सौगन्ध्याल्लोभयामास नृपपुत्रः स मूढधीः ॥ ९ ॥
तस्य प्रीत्यै नियुक्तस्तु आकृष्याङ्गात्प्रलेपनम् ॥
ददौ नृपकुमाराय स लिलिम्पे हृदि स्वके ॥ 2.2.38.११० ॥
तावत्प्रदेशं कुष्ठं वै श्वेतं तस्याभवत्क्षणात् ॥
स आसीत्कुष्ठपाणिस्तु तस्मै यो दत्तवान्किल ॥ ११ ॥
ततो वर्षावधिष्ठायी लेपः पुण्यतमः स्मृतः ॥
निर्माल्यानां प्रधानं तद्घ्राणादंहोविनाशनम् ॥१२॥
पुरा दमनकं दैत्यं समुद्रोदकचारिणम् ॥
बाधितारं जनानां वै मायाबलपराक्रमम्॥१३॥
भगवानपि मायावी पितामहनिदेशतः ॥
मत्स्यावतारेण विभुः प्रविश्य वरुणालयम् ॥ १४ ॥
अन्विष्याकृष्य वेलायां निष्पिपेष महीतले ॥
मधोः शुक्लचतुर्दश्यां पतितो दानवोत्तमः ॥ १५ ॥
भगवत्करसम्पर्कात्सुगन्धिरभवत्तृणम् ॥
तस्यैव नाम्ना त सम्यग्जग्राहाश्चर्यमानसः ॥ १६ ॥
मालां कृत्वा हृत्प्रदेश मिलितं वनमालया ॥
अचिन्तयत्तस्य गन्धं यावद्वस्तु चिरस्थितम् ॥ १७ ॥
तस्यापि गन्धः सर्वेषां पुष्पाणां सौरभापहः ॥
वर्णस्तु भगवन्मूर्तेस्तुल्योऽभूत्स सुशोभनः ॥ १८ ॥
तस्य माला भगवतः परमप्रीतिकारिणी ॥
शुष्का पर्युषिता वापि न दुष्टा भवति क्वचित् ॥ १९ ॥
तस्य सुग्रथितां मालां दत्त्वा दमनकारये ॥
उत्पादयेन्महाप्रीतिं विष्णोर्या मुक्तिदायिनी ॥ 2.2.38.१२० ॥
अङ्गापकर्षितां मालां भक्त्या यो धारयेन्नरः ॥
हयमेधसहस्रस्य फलं प्राप्नोत्यसंशयम् ॥ २१ ॥
तुलसीकल्पितां मालां विष्णोरङ्गापकर्षिताम् ॥
धारयेन्मूर्ध्नि कण्ठे च भक्तो यो विन्यसेद्धदि ॥
तावत्सङ्ख्यं वाजिमेधफलमव्यग्रमश्नुते ॥ २२ ॥
निर्माल्यतुलसीपत्रं यावद्भक्षयते हरेः ॥
तावज्जन्मसहस्रं तु विष्णुलोके महीयते ॥ २३ ॥
हरेर्नैवेद्यमन्नं च तुलसीदलमिश्रितम् ॥
प्रतिग्रासं सोमपानं फलं तत्सममश्नुते ॥२४॥
यावज्जीवं तु भुञ्जानो ध्रुवं मोक्षमवाप्नुयात् ॥२५॥
अर्घ्यशेषादिकं विष्णोस्तथा चाचमनोदकम् ॥
पादोदकं स्नानवारि प्रत्येकं पापनाशनम् ॥ २६ ॥
सर्वतीर्थाभिषेकाणां फलदं ग्रहनाशनम् ॥
अलक्ष्मीपापरक्षोघ्नं भूतवेतालनाशनम् ॥ ॥ २७ ॥
शवाद्यमेध्यसंस्पर्शदोषनाशनमुत्तमम् ॥
सर्वदीक्षाव्रतफलप्रदमैश्वर्यवर्द्धनम् ॥ २८ ॥
अकालमृत्युहरणं व्याधिव्यूहनिबर्हणम् ॥
सुरोपमांसभक्ष्यादि पापसङ्घविनाशनम् ॥ २९ ॥
एतैराप्लुतदेहस्तु शृणुयाद्यदि सूतकम् ॥
नाशौचं विद्यते तस्य सर्वकर्माधिकारिणः ॥ 2.2.38.१३० ॥
यावज्जीवं प्रतिज्ञाय यस्त्वेतान्येकमेव वा ॥
गृह्णीयाद्भूरि वा स्वल्पं मुच्येद्विष्णोः प्रसादतः ॥ ३१ ॥
एवं तत्र वसन्देवो लोकानुग्रहकाङ्क्षया ॥
रममाणः श्रिया सार्द्धमनायासविमोचकः ॥ ३२ ॥
निर्माल्यपादाम्बुनि वेदनीयदानैस्तदालोकनतत्प्रणामैः ॥
पूजोपहारैश्च विमुक्तिदाता क्षेत्रोत्तमेस्मिन्पुरुषोत्तमाख्ये ॥ १३३ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे पुरुषोत्तमक्षेत्रमाहात्म्ये जैमिनिऋषिसंवादे दमनकचरितन्नामाष्टत्रिंशोऽध्यायः ॥ ३८ ॥