०३७

॥ जैमिनिरुवाच ॥ ॥
अतः परं प्रवक्ष्यामि दक्षिणायनमुत्तमम् ॥
सङ्क्रान्तेः पूर्वकाले याः कला वै विंशतिर्मताः ॥ १ ॥
अयनं पुण्यकालोऽयं पुण्यकर्मसु कर्मिणाम् ॥
पञ्चामृतैस्तत्र देवं स्नापयेत्स्वापवद्द्विजाः ॥ २ ॥
सर्वाङ्गं लेपयेदस्यागुरुकर्पूरचन्दनैः ॥
सुगन्ध माल्यालङ्कारैश्चारुवस्त्रैश्च दीपकैः ॥ ३ ॥
नानाभक्ष्योपहारैश्च पूजयेत्परमेश्वरम् ॥
कर्पूरालतिकामुच्चैर्मुखाभ्याशे हरेर्ददेत् ॥ ४ ॥
दूर्वाङ्कुराक्षतैर्नीराजनेनाथ प्रवन्दयेत् ॥
माङ्गल्यगीतनृत्ताद्यैर्नारी हुलुहुलां वदेत् ॥ ५ ॥
पूजितं पूज्यमानं च यः पश्येत्पुरुषोत्तमम् ॥
पूजाशतगुणं पुण्यं तस्मै दद्याज्जनार्दनः ॥ ६ ॥
अयने दक्षिणे तस्मिन्नर्च्यमानं श्रियः पतिम् ॥
विहाय सर्वपापानि विष्णुलोकं व्रजन्ति ते ॥ ७ ॥
स्वल्पा वा महती यात्रा सर्वा मुक्तिप्रदा हरेः ॥
तस्मिंस्तस्मिन्दिने दृष्टो भगवान्मुक्तिदो ध्रुवम् ॥ ८ ॥
विश्वासहेतोर्मूर्खाणां यात्रा ह्येताः कृपावता ॥
विष्णुना कथिता विप्राः पापिनां किल्बिषापहाः ॥ ९ ॥
आयासजनितं पुण्यं मन्यन्ते ये नराधमाः ॥
लक्ष्मीपतेर्भोजनाय संस्कार्योऽत्र महानसः ॥ 2.2.37.१० ॥
वैष्णवाग्निं समाधाय निरुप्य चरुमुत्तमम् ॥
वैश्वदेवं प्रकुर्वीत भगवत्पाकसाधनम् ॥११॥
ब्रह्मणे वास्तुपतये प्रजानां पतये तथा ॥
विष्णवे विश्वकर्त्रे च शुच्यग्नौ जुहुयाच्छुचिः ॥ १२ ॥
राज्ञा नियुक्त आचार्यः श्रौतस्मार्तक्रियापरः ॥
द्वारपालप्रचण्डाभ्यामैशान्यां क्षेत्रपालिने ॥ १३ ॥
दक्षिणे च विरूपाय खगानां पतये तथा ॥
दुर्गासरस्वतीभ्यां च नैर्ऋत्यां विनिवेदयेत् ॥ १४ ॥
महालक्ष्मीमहेन्द्राभ्यां प्राच्यां दिशि बलिः स्मृतः ॥
विष्णु पारिषदेभ्योऽथ पशूनां पतये तथा ॥ १५ ॥
उदीच्यां बलिदानं तु नारदायाथ पश्चिमे ॥
आग्नेय्यामग्नये दद्याद्वायव्यां विश्वसाक्षिणे ॥ १६ ॥
पञ्चश्वसनरूपेभ्यो विश्वकर्त्रेऽथ मध्यतः ॥
आद्यन्तयोर्जलं दद्यात्प्रत्येकं बलिकर्मणि ॥ ३७ ॥
दत्त्वा वलिं तदग्नौ तु कारयेत्पाकमुत्तमम् ॥
सन्ध्यात्रये भगवतः पूजायै चरुकारणात् ॥ १८ ॥
चरुसंस्कारकाङ्गानि भक्ष्यभोज्यादिकानि वै ॥
न दीप्तान्योजयेत्तत्र लोके त्रैवर्णिको नृपः ॥ ॥ १९ ॥
आर्यान्पवित्राञ्छूद्रान्वा वर्णांश्च परिसेवकान् ॥
लौकिकव्यवहारोऽयं पचति श्रीः स्वयं ध्रुवम् ॥ 2.2.37.२० ॥
भुङ्क्ते नारायणो नित्यं तया पक्वं शरीरवान् ॥
अमृतं तद्धि नैवेद्यं पापघ्नं मूर्ध्नि धारणात् ॥ २१ ॥
भक्षणान्मद्यपानादिमहादुरितनाशनम् ॥
आघ्राणान्मानसं पापं दर्शनाद्दृष्टिजं तथा ॥ २२ ॥
आस्वादात्तु कृतं पापं श्रावणं च व्यपोहति ॥
स्पर्शनात्त्वक्कृतं पापं मिथ्याभाषणजं तथा ॥ २३ ॥
गात्रलेपाद्दहेत्पापं शारीरं वै न संशयः ॥ २४ ॥
महापवित्रं हि हरेर्निवेदितं नियोजयेद्यः पितृदेवकर्मसु ॥
तृप्यन्ति तस्मै पितरः सुरास्तथा प्रयान्ति लोकं मधुसूदनस्य ते ॥ २५ ॥
नात्ः पवित्रं वस्त्वस्ति हव्यकव्येषु भो द्विजाः ॥
नराणां रूपमास्थाय तदश्नन्ति दिवौकसः ॥ २६ ॥
अभिमानो महांस्तत्र देवदेवस्य चक्रिणः ॥
श्वेतो नाम महाराजः पुरा त्रेतायुगेऽभवत् ॥ २७ ॥
व्रतस्थोऽपि महाभक्तिं चकार पुरुषोत्तमे ॥
इन्द्रद्युम्नेन रचितभोगमात्रानुसारतः ॥ २८ ॥
भोगान्प्रकल्पयामास प्रत्यहं श्रीपतेर्मुदा ॥
भक्ष्यभोज्यान्यनेकानि षड्रसांश्च सुसंस्कृतान् ॥ २९ ॥
माल्यानि च विचित्राणि सुगन्धमनुलेपनम् ॥
गीतवादित्रनृत्यानि दिव्यानि सुबहूनि च ॥ 2.2.37.३० ॥
राजोपचारा बहुशोऽवसरेऽवसरे हरेः ॥
बहुवित्तव्ययायास भक्तिभावनिरूपकाः ॥ ३१ ॥
तत्तद्वैष्णवशास्त्रोक्तचित्रभोगाः पृथग्विधाः ॥
कल्पितास्तेन भूपेन विद्वत्पङ्कजभानुना ॥ ३२ ॥
प्रातः पूजनवेलायां हरिं द्रष्टुं जगाम सः ॥
कस्मिंश्चिद्दिवसे राजा पूज्यमानं ददर्श तम् ॥ ३३ ॥
प्रणम्य देवदेवं तु बद्धाञ्जलिपुटो मुदा ॥
प्रासादद्वारनिकटे तस्थिवानृपसत्तमः ॥ ३४ ॥
दृष्ट्वा स्वयं विरचितानुपचाराननुत्तमान् ॥
उपायनसहस्रं च हरेरग्रे प्रकल्पितम् ॥ ३५ ॥
चिन्तयामास मनसा किञ्चिद्ध्यानावलम्बितः ॥
मनुष्यकल्पितम्भोगं ग्रहीष्यति हरिः किमु ॥ ३६ ॥
देवैर्दिव्योपचारैर्यो शक्यते नार्चनाविधौ ॥
मानसैरुपहारैर्यं पूजयन्ति यतव्रताः ॥ ३७ ॥
भावदुष्टो बहिर्यागो न मुदे तस्य निश्चितम् ॥
इत्थं सञ्चितयन्राजा दिव्यासनगतं विभुम् ॥ ३८ ॥
भुञ्जानमन्नपानाढ्यं श्रिया सुपरिवेषितम् ॥
दिव्यस्रजालङ्कृतया दिव्यगन्धदुकूलया ॥ ३९ ॥
अनर्घ्यरत्नमञ्जीरसिञ्जितेन सुरालयम् ॥
पूरयन्त्या स्वर्णदर्व्या ददत्या सादरं रसान् ॥ 2.2.37.४० ॥
भगवत्प्रतिरूपैश्च भुञ्जानैः परिवेष्टितम् ॥
दृष्ट्वा कृतार्थमात्मानं मन्यमानस्तदद्भुतम् ॥ ४१ ॥
प्रोन्मीलिताक्षः स पुनः प्राग्दृष्टं समवैक्षत ॥
अतः प्रभृति राजासौ परां निर्वृतिमाप्तवान् ॥ ४२ ॥
निवेदिताशीर्व्रतवांश्चचार सुमहत्तपः ॥
अकालमृत्युनाशाय स्वराज्ये मृतमुक्तये ॥ ४३ ॥
मन्त्रराजं जपन्नित्यं श्रितानां कल्पपादपम् ॥
ददर्श शतवर्षान्ते नृहरिं दुरितापहम् ॥ ४४ ॥
योगासनाब्जनिलयं वामाङ्गावस्थितश्रियम् ॥
दिव्यालङ्कृतसर्वाङ्गं स्फटिकामलविग्रहम् ॥ ४५ ॥
त्रिदशैः सिद्धमुक्तैश्च स्तूयमानं स्मिताननम् ॥
भ्रान्तो विस्मयभीतिभ्यां हर्षगद्गदया गिरा ॥
प्रसीद नाथेति लपन्पपात धरणीतले ॥ ४६ ॥
तपःकृशं तं प्रणतं दृष्ट्वा मनुजकेसरी ॥
अकल्मषं क्षितिपतिं विवक्षुर्भक्तवत्सलः ॥ ४७ ॥ ॥
॥ श्रीभगवानुवाच ॥ ॥
उत्तिष्ठ वत्स भक्त्या ते प्रसन्नं विद्धि मां प्रभुम् ॥
मयि प्रसन्ने नालभ्यं वरं तत्प्रार्थ्यतां भवान् ॥४८॥
श्रुत्वेत्थं भगवद्वाक्यं समुत्तस्थौ ततो नृपः ॥
बद्धाञ्जलिपुटो नम्रो भक्त्योवाच जनार्दनम् ॥ ४९ ॥
॥ श्वेत उवाच ॥ ॥
स्वामिन्यदि प्रसादस्ते मयि जातः सुदुर्लभः ॥
सारूप्यमथ सम्प्राप्य स्थास्यामि तव सन्निधौ ॥ 2.2.37.५० ॥
स्थास्ये यावन्नृपत्वेऽहं मद्राज्ये नो जनः क्वचित् ॥
अकाले म्रियतां जन्तुः काले चेन्मुक्तिमाप्नुयात् ॥५१॥
तच्छ्रुत्वा भगवान्प्राह श्वेतराजानमुत्तमम् ॥५२॥
श्वेत ते वाञ्छितं भूयात्तिष्ठ त्वं मम दक्षिणे ॥
भुक्त्वा वर्षसहस्रं तु स्वराज्यं सुसमृद्धिमत् ॥५३॥
मम निर्माल्यभोगेन क्षीणशेषाघसञ्चयः ॥
सुनिर्मलान्तःकरणो मत्सायुज्यमवाप्स्यसि ॥ ५४ ॥
वटसागरयोर्मध्ये मुक्तिस्थाने सुदुर्लभे ॥
मदीयाऽऽद्यावतारस्य विष्णोर्मत्स्यस्वरूपिणः॥५५॥
सम्मुखीनो वस त्वं हि स्फटिकामलविग्रहः ॥
ख्यातिं यास्यसि भूर्लोके श्वेतमाधवसञ्ज्ञया॥५६॥
युवयोरन्तराले ये प्राणांस्त्यक्ष्यन्ति मानवाः ॥
तिर्यञ्चोऽपि च कीटा वा ध्रुवं ते मुक्तिमाप्नुयुः ॥५७॥
अमरा यत्र मरणमिच्छन्ति किमु मानवाः ॥
तवोत्तरस्यां दिशि यत्सरः पापनिबर्हणम् ॥५८॥
तत्र स्नात्वा उपस्पृश्य तदीये दक्षिणे तटे ॥
उभयोर्दृष्टिपूतःसन्त्यक्त्वा प्राणान्विमुच्यते ॥ ॥५९॥
आसमन्तादिदं क्षेत्रं यत्रतत्रापि मुक्तिदम् ॥
मूढात्मनां विश्वसितुं प्रधानं स्थानमीरितम्॥2.2.37.६०॥
तव राज्ये तु ये लोका मम निर्माल्यभोजिनः॥
मृतिराकालिकी तेषां न कदाचिद्भविष्यति ॥ ६१ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे पुरुषोत्तमक्षेत्रमाहात्म्ये सप्तत्रिंशोऽध्यायः॥३७॥