॥ जैमिनिरुवाच ॥ ॥
अतः परं प्रवक्ष्यामि शयनोत्सवमुत्तमम् ॥
आषाढीमवधिं कृत्वा हरेः स्वापस्तु कर्कटे ॥ १ ॥
वार्षिकांश्चतुरो मासान्यावत्स्यात्कार्त्तिकी द्विजाः ॥
अयं पुण्यतमः कालो हरेराराधनं प्रति ॥ २ ॥
काश्यां बहुयुगं वासान्नियमव्रतसंस्थितेः ॥
फलं यदुक्तं तद्विद्यात्क्षेत्रे श्रीपुरुषोत्तमे ॥ ३ ॥
चातुर्मास्यदिनैकेन वसतः सन्निधौ हरेः ॥
वार्षिकाणां चतुर्णां तु यान्यहानि वसन्नयेत् ॥ ४ ॥
पुण्यक्षेत्रे जगन्नाथसन्निधौ निर्मलान्तरे ॥
प्रत्यक्षं वाजिमेधस्य सहस्रस्य लभेत्फलम् ॥ ५ ॥
स्नात्वा सिन्धुजले पुण्ये दृष्ट्वा श्रीपुरुषोत्तमम् ॥
चातुर्मास्यव्रते तिष्ठन्न शोचति कुतश्चन ॥ ६ ॥
चातुर्मास्ये निवसति क्षेत्रे श्रीपुरुषोत्तमे ॥
साक्षाद्दृष्टिर्भगवतस्तद्द्वयं मुक्तिसाधनम् ॥ ७ ॥
तस्मात्सर्वाणि सन्त्यज्य श्रौतस्मार्त्तानि मानवः ॥
प्रयत्नान्निवसेत्पुण्ये क्षेत्रे श्रीपुरुषोत्तमे ॥ ८ ॥
भोगिभोगासने सुप्तश्चातुर्मास्येषु वै प्रभुः ॥
सर्व क्षेत्रेषु सान्निध्यं न करोति जगद्गुरुः ॥ ९ ॥
अत्र साक्षान्निवसति यथा वैकुण्ठवेश्मनि ॥
द्वादशस्वपि मासेषु भगवानत्र मूर्तिमान् ॥
मुक्तिदश्चक्षुषा दृष्टश्चातुर्मास्ये विशेषतः ॥ 2.2.36.१० ॥
अष्टमासनिवासेन दृष्ट्वा विष्णुं दिने दिने ॥
यदाप्नोति फलं तद्धि चातुर्मास्यदिनैकतः ॥ ११ ॥
चातुर्मास्यनिवासेन क्षेत्रे श्रीपुरुषोत्तमे ॥
दिनं दिनं महापुण्यं सर्वक्षत्रनिवासजम् ॥
फलं ददाति भगवान्क्षेत्रे वर्षनिवासतः ॥ १२ ॥
सर्वपापप्रसक्तोऽपि सर्वाचारच्युतोऽपि च ॥
सर्वधर्मबहिर्भूतो निवसेत्पुरुषोत्तमे ॥ १३ ॥
चातुर्मास्यमथेकं यः कुर्याद्वै पापकृन्नरः ॥
विहाय सर्वपापानि बहिरन्तश्च निर्मलः ॥ १४ ॥
नरसिंहप्रसादेन वैकुण्ठभवनं व्रजेत् ॥ १५ ॥
तस्मान्नरः सर्वभावैर्विष्णोः शयनभावितान् ॥
वार्षिकांश्चतुरो मासान्निवसेत्पुरुषोत्तमे ॥ १६ ॥
कुर्यादन्यन्न वा कुर्याज्जन्मसाफल्यमृच्छति ॥ १७ ॥
आषाढशुक्लैकादश्यां कुर्यात्स्वापमहोत्सवम् ॥
मण्डपं रचयेत्तत्र शयनागारमुत्तमम् ॥ १८ ॥
देवस्य पुरतः शय्यां रत्नपल्यङ्किकोपरि ॥
स्वास्तीर्य सोपधानां तु मृदुचीनोत्तरच्छदाम् ॥ १९ ॥
कर्पूरधूलिविक्षिप्तां साधुचन्द्रातपां शुभाम् ॥
सर्वतो वेष्टितां छिद्ररहितां चदनोक्षिताम् ॥ 2.2.36.२० ॥
साधुद्वारां समां स्निग्धां नानाचित्रोपशोभिताम्॥
एकं स्वापगृहं कृत्वा निशीथे प्रतिमात्रयम् ॥ २१ ॥
सौवर्णं राजतं वापि रीतिजं दार्षदं तथा ॥
यथाश्रद्धं प्रकुर्वीत प्रशस्तं चोत्तरोत्तरम्॥ २२ ॥
तत्त्रयाणां सुराणां वै पादमूले यथातथम् ॥
निधाय पूजूयेद्देवांस्तच्छेषं तेषु निक्षिपेत् ॥ २३ ॥
पूजान्ते भावयेदैक्य तेषां कृष्णादिभिः सह ॥
एह्येहि भगवन्देव सर्वलोकैकजीवन ॥ २४ ॥
स्वापार्थं चतुरो मासान्सर्वकल्याणवृद्धये ॥
इति सम्प्रार्थ्य देवेशांस्तदङ्गात्तत्स्रजां त्रयम् ॥ २५ ॥
प्रत्यर्चासु विनिक्षिप्य माङ्गल्यस्तुतिगीतिभिः ॥
नयेच्छय्यागृहद्द्वारं वासयेद्धटिकात्रये ॥२६॥
पञ्चामृतैः स्नापयेत्तान्पृथक्पलशताधिकैः ॥
सुगन्धचन्दनैर्लिप्तान्वस्त्रालङ्करणादिभिः ॥ २७ ॥
पूजयित्वा यथान्यायं प्राञ्जलिर्मन्त्रमुच्चरेत् ॥
जगद्वन्द्य जगन्नाथ जगत्त्राणपरायण ॥२८ ॥
हिताय जगतामीश चातुर्मास्यान्घनागमान् ॥
सुप्त्वा प्रशमयारिष्टाञ्छक्रेण सह पूजितः ॥ २९ ॥
एह्येहि शयनागारं सुखमत्र स्वप प्रभो ॥
इति सम्प्रार्थ्य देवेशं स्वापयेत्पुरुषोत्तमम् ॥ 2.2.36.३० ॥
सुदृढं बन्धयेद्द्वारं विष्णोः शयनवेश्मनः ॥
स्वापयित्वा जगन्नाथं लभते सुखमुत्तमम् ॥ ॥ ३१ ॥
वार्षिकांश्चतुरो मासान्प्रसुप्ते वै जनार्दने ॥
व्रतैरनेकैर्नियमैर्मासान्वै चतुरः क्षिपेत् ॥ ३२ ॥
कल्पस्थायी विष्णुलोके नरो भक्तो भवेद्ध्रुवम्॥
नियमव्रतानि गदतः शृणुध्वं मुनयो मम ॥ ३३ ॥
मञ्चखट्वादिशयनं वर्जयेद्भक्तिमान्नरः ॥
अनृतौ न व्रजेद्भार्यां मासं मधु परौदनम् ॥ ॥ ३४ ॥
पटोलं मूलकं चैव वार्ताकं च न भक्षयेत् ॥
अभक्ष्यं वर्जयेद्दूरान्मसूरं सितसर्षपम् ॥ ३५ ॥
राजमाषान्कुलत्थांश्च आशुधान्यं च सन्त्यजेत्॥
शाकं दधि पयो माषाच्छ्रावणादौ क्रमादिमान् ॥ ३६ ॥
राजगोपयतींस्त्यक्त्वा नारोहेच्चर्मपादुके ॥
वार्षिकांश्चतुरो मासानव्रतेन नयेद्यदि ॥
तस्य पापस्य शान्त्यर्थं कार्तिके वा व्रती भवेत् ॥ ३७ ॥
नमः कृष्णाय हरये केशवाय नमोनमः ॥
नमोऽस्तु नारसिंहाय विष्णवे पापजिष्णवे ॥ ३८ ॥
सायं प्रातर्दिवामध्ये कर्मान्तेषु च योजयेत् ॥ ३९ ॥
तस्य पापानि घोराणि चितानि बहुजन्मसु ॥
निर्दहत्येव सर्वाणि तूलराशिमिवानलः ॥ 2.2.36.४० ॥
एकाहारो यताहारो विष्णुनिर्माल्यभोजनः ॥
आषाढीमवधिं कृत्वा कार्तिक्यवधि यो भवेत् ॥
नक्तभोजी भवेद्वापि स्वर्गस्तस्याल्पकं फलम्॥ ४१ ॥
तैलाभ्यङ्गं दिवास्वापं मृषावादं च वर्जयेत् ॥
आषाढशुक्लैकादश्यां सङ्क्रान्तौ कर्कटस्य वा ॥ ४२ ॥
आषाढ्यां वा नरो भक्त्या गृह्णीयान्नियमं व्रती ॥
सर्वपापहरं देवं प्रपूज्य मधुसूदनम् ॥ ४३ ॥
तदग्रे प्रतिसङ्कल्प्य व्रतार्चनजपादिकम् ॥
प्रार्थयेत्परमानन्दं कृताञ्जलिपुटो व्रती ॥ ४४ ॥
चातुर्मास्यव्रतं देव गृहीतं त्वत्प्रसादतः ॥
तव प्रसादान्निर्विघ्नं सिद्धिमायातु केशव ॥ ४५ ॥
व्रतेस्मिन्यद्यसम्पूर्णे परलोकगतिर्भवेत्॥
तन्मे भवतुसम्पूर्णं त्वत्प्रसादादधोक्षज ॥ ४६ ॥
इति सम्प्रार्थ्य देवेशं पूर्वोक्तनियमे स्थितः ॥
यापयेच्चतुरो मासान्विष्ण्वर्पित मतिर्व्रती॥४७॥
पारणं प्रतिमासान्ते प्रीत्यै कृष्णस्य कारयेत् ॥४८॥
मिष्टान्नैर्भोजयेद्विप्रान्पूजयित्वा जगत्पतिम् ॥
असमर्थस्तु कार्तिक्यां पारयेद्व्रतमुत्तमम्॥४९॥
तस्यां पूज्य जगन्नाथं वह्निस्थं तर्पयेत्ततः ॥
द्विजाग्र्यान्पायसैर्मिष्टैर्विष्णुभक्त्या प्रपूजयेत् ॥2.2.36.५०॥
यथाशक्त्या प्रदद्याद्वै कनकं वस्त्रमेव च ॥
अशक्तः कार्तिके मासि व्रतं कुर्यात्पुरोदितम् ॥५१॥
व्रतं च विविधं विष्णोः कृच्छ्रचान्द्रायणं तथा ॥५२॥
पयः पीत्वा नयेद्यस्तु शाकाहारेण वा पुनः ॥
भुक्त्वात्र विपुलान्भोगान्परं निर्वाणमृच्छति॥५३॥
तत्रापि चेदशक्तः स्याद्भीष्मपञ्चकमुत्तमम्॥
प्रीतये देवदेवस्य वन्यवृत्तिर्भवेद्व्रती ॥५४॥
एतद्व्रतं समाख्यातं भगवत्प्रीतिकारकम् ॥
सर्वपापप्रशमनं विष्णुलोकगतिप्रदम् ॥
धन्यं यशस्यमायुष्यं सर्वकामप्रसाधनम् ॥५५॥
मुनयः प्रोक्तमेतद्वो रहस्यं शृणुतापरम् ॥
एतद्व्रतानि चान्यानि व्रतानि सबहूनि च ॥ ५६ ॥
भगवद्भक्तिहीनानां जानीध्वं विफलानि वै ॥
फलं महाक्रतूनां यत्तीर्थानां फलमुत्तमम् ॥ ५७ ॥
दानानां तपसां चैव सात्त्विकानां च यत्फलम् ॥
एकया विष्णुभक्त्या तत्समग्रं फलमश्नुते ॥ ५८ ॥
ये पश्यन्ति महात्मानः शयनोप्सवमुत्तमम्॥
मातुर्गर्भे न स्वपन्ति कारयन्ति च ये महम् ॥ ५९ ॥
उत्सवान्ते व्रतं चेदं प्रतिज्ञाय तदग्रतः ॥
पर्याप्तं पारयित्वा तु ब्रह्मलोके महीयते ॥ 2.2.36.६० ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे पुरुषोत्तमक्षेत्रमाहात्म्ये षट्त्रिंशोऽध्यायः ॥ ३६ ॥