०३५

॥ जैमिनिरुवाच ॥ ॥
अतः परं प्रवक्ष्यामि रथरक्षाकरं विधिम्॥
भूतप्रेतादयो घोरा दारुणान्यद्भुतानि च ॥ १ ॥
न बाधन्ते रथान्येन मुनयो वश्च यन्मतम् ॥
प्रत्यहं पूजयेद्देवान्कृष्णादीन्ध्वजसंस्थितान् ॥ २ ॥
गन्धपुष्पाक्षतैर्माल्यैरुपहारैरनुत्तमैः ॥
गीतनृत्तादिकैश्चैव धूपदीपनिवेदनैः ॥ ॥ ३ ॥
दिक्पालेभ्यो बलिं दद्यात्पायसान्नेन चान्वहम् ॥
भूतप्रेतपिशाचेभ्यो दद्याच्च बलिमुत्तमम् ॥ ४ ॥
रक्षेच्च यत्नतस्तान्वै रथानारोहणोचितान् ॥
यथा न कश्चिदारोहेन्नरो ग्राम्यपशुस्तथा ॥
पक्षिणश्च विशेषेण येषां वासो न शोभनः ॥ ५ ॥
अष्टमेऽह्नि पुनः कृत्वा दक्षिणाभिमुखान्रथान्॥
विभूषयेद्वस्त्रमाल्यपताकैश्चामरादिभिः ॥ ६ ॥
नवम्यां वासयेद्देवांस्तेषु प्रातः समृद्धिमत् ॥ ७ ॥
दक्षिणाभिमुखा यात्रा विष्णोरेषा सुदुर्लभा ॥
यात्रा प्रयत्नतः सा हि भक्तिश्रद्धासमन्वितैः ॥ ८ ॥
यथा पूर्वा तथा चेयं द्वे च मुक्तिप्रदायिके ॥
यात्राप्रवेशौ देवस्य एक एवोत्सवो मतः ॥ ९ ॥
पुराविदो वदन्त्येतां यात्रां नवदिनात्मिकाम् ॥
एषा त्र्यवयवा यात्रा सम्पूर्णा यैरुपासिता ॥ 2.2.35.१० ॥
सुसम्पूर्णफलस्तेषां महावेदीमहोत्सवः ॥ ११ ॥
गुण्डिचामण्डपात्कृष्णमायान्तं दक्षिणामुखम् ॥
रथस्थं बलिनं भद्रां पश्यन्तो मुक्तिभागिनः । १२ ॥
उत्तराभिमुखान्दृदृष्ट्वा लभन्ते यादृश फलम् ॥
रामादीन्स्यन्दनस्थान्ये पश्यन्त्येवं महोदयान् ॥
यादृशं फलमाप्नुयुस्तादृशं दक्षिणामुखान् ॥ ॥ १३ ॥
पदा यान्तं रथे यान्तं यः पश्येद्दक्षिणामुखम् ॥
तस्य जन्म कृतार्थं स्याद्वाजिमेधः पदे पदे ॥ १४ ॥
स्तुतिभिः प्रणिपातैश्च पुष्पवृष्टिभिरेव च ॥
नानानृत्तोपहारैश्च व्यजनच्छत्रचामरैः ॥
उपायनैर्बहुविधैरुपतिष्ठेद्रथाग्रतः ॥ १५ ॥
नीलाचलं समायान्तं रथस्थं दक्षिणामुखम्।
ये पश्यन्ति हृषीकेशं सुभद्रां लाङ्गलायुधम् ॥ १६ ॥
कामकल्पतरुं पुंसां दर्शनादेव मुक्तिदम् ॥
ते व्रजन्ति महात्मानो वैकुण्ठ भवनं हरेः ॥ १७ ॥
रथेन विचरन्तं तं सिन्धुतीरे जनार्दनम् ॥
पश्यन्तं करुणापाङ्गैः प्रणतान्पुरतो नरान् ॥ १८ ॥
दक्षिणाभिमुखं यान्तं प्रासादं नीलभूधरे ॥
सर्वतीर्थनिधिं सर्वदानकल्पतरुं हरिम् ॥ १९ ॥
स्तुवन्तः प्रणमन्तश्च श्रद्दधानाश्च ये नराः ॥
न ते पुनरिहायान्ति ब्रह्मलोकस्थिता ध्रुवम्॥ 2.2.35.२० ॥
मुनयः कथितो वोऽयं महावेदीमहोत्सवः ॥
यस्य सङ्कीर्त्तनादेव निर्मलो जायते नरः ॥ २१ ॥
यश्चेदं कीर्तयेन्नित्यं प्रातरुत्थाय मानवः ॥
शृणुयादपि बुद्धिस्थः शक्रलोकं व्रजेदसौ ॥ २२ ॥
प्रत्यर्चारूपमपि वा रथमास्थाप्य यो हरेः ॥
कुर्याद्यात्रामिमां श्रद्धाभक्तिभावेन मानवः ॥ २३ ॥
सोऽपि विष्णोः प्रसादेन गुण्डिचोत्सवजं फलम्॥
प्राप्य वैकुण्ठभवनं याति नात्र विचारणा ॥ २४ ॥
पश्य श्रीर्यावती विप्रा भक्तिर्वा श्रद्धयान्विता ॥
तावतीयं महायात्रा यो यथा कर्तुमिच्छति ॥ २५ ॥
इदं पवित्रं परमं रहस्यं वेधसोदितम् ॥
कारयित्वाथवा दृष्ट्वा यन्नरो नावसीदति ॥ २६ ॥ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे पुरुषोत्तमक्षेत्रमाहात्म्ये पञ्चत्रिंशोऽध्यायः ॥ ३५ ॥