०३४

॥ जैमिनिरुवाच ॥ ॥
अश्वमेधाङ्गसरसो नृसिंहस्य च दक्षिणे ॥
तत्रासीनश्च भगवान्पुनश्चावतरन्निव ॥ १ ॥
बभासे दिव्यरूपोऽसौ दुर्विभाव्यः सुरासुरैः ॥
तदा पूजोपहारैश्च भक्ष्यभोज्यादिकैस्तथा ॥ ॥ २ ॥
पूजयित्वा जगन्नाथं तोषयेद्गीतनृत्यकैः ॥
पुष्पोपहारैर्विविधैः सुगन्धैरनुलेपनैः ॥ ३ ॥
कृष्णागुरुजधूपैश्च गन्धतैलप्रदीपकैः ॥
तोषयेज्जगतां नाथमनेकैरुपहारकैः ॥ ४ ॥
बिन्दुतीर्थतटे तस्मिन्सप्ताहानि जनार्दनः ॥
तिष्ठेत्पुरा स्वयं राज्ञे वरमेतत्समादिशत् ॥ ५ ॥
त्वत्तीर्थतीरे राजेन्द्र स्थास्यामि प्रतिवत्सरम् ॥
सर्वतीर्थानि तस्मिंश्च स्थास्यन्ति मयि तिष्ठति ॥ ६ ॥
तत्र स्नात्वा विधानेन तीर्थे तीर्थोघपावने ॥
सप्ताहं ये प्रपश्यन्ति गुण्डिचामण्डपे स्थितम् ॥ ७ ॥
मां च रामं सुभद्रां च मत्सायुज्यमवाप्नुयुः ॥
ततस्तस्मिन्महापुण्ये सर्वपापप्रणाशने ॥ ८ ॥
सर्वतीर्थैकफलदे विष्णु प्रीतिकरे शुभे ॥
स्नात्वा सन्तर्प्य विधिवत्पितॄन्देवानतन्द्रितः ॥ ९ ॥
तटस्थं नरसिंहं तं पूजयित्वा प्रणम्य च ॥
महावेदीं नरो गत्वा कृतशौचाचमक्रियः ॥ 2.2.34.१० ॥
पूजयेत्पूर्ववद्विप्राः प्रणमेद्वापि भक्तितः ॥
सप्ताहं यो नरो नारी न सा प्राकृतमानुषी ॥ ११ ॥
विष्णुसायुज्यमाप्नोति शासनान्मुरवैरिणः ॥
दिवा तदृर्शनं पुण्यं रात्रौ दशगुणं भवेत् ॥ १२ ॥
यत्किञ्चित्क्रियते कर्म सन्निधौ जगदीशितुः ॥
स्वल्पं वाप्यथवा भूरि कोटिकोटिगुणं भवेत्॥ १३ ॥
तुलापुरुषदानानि महादानानि यो ददेत् ॥
एके प्रदत्ते दानेपि सर्वं दत्तं भवेद्द्विजाः ॥ १४ ॥
सर्वं मेरुसमं दानं सर्वे व्याससमा द्विजाः ॥
महावेद्यां गते कृष्णे योगोऽयं खलु दुर्लभः ॥ १५ ॥
अर्द्धोदयादिका योगाः स्कन्देन परिभाषिताः ॥
महावेद्याख्ययोगस्य कला नार्हन्ति षोडशीम् ॥ १६ ॥
अतः परं प्रवक्ष्यामि पितॄणां कार्यमुत्तमम् ॥
यावज्जीवं गयाश्राद्धैरलभ्यं भुवि यत्फलम् ॥ १७ ॥
दिविस्था नरकस्था वा तिर्यग्योनिगतास्तथा ॥
तथा मनुष्यजातिस्थाः सर्वे पितृपितामहाः ॥ १८ ॥
शतं पुरुषविख्याता यं वाञ्छन्ति सुतैः कृतम्॥
तं वो विधिं प्रवक्ष्यामि शृणुध्वं मुनयो वरम् ॥ १९ ॥
मघा वै पितृनक्षत्रं पितॄणा प्रीतिदं परम् ॥
तत्र श्राद्धं तु प्रीणाति दत्तं पुत्रैर्मुदान्वितैः ॥ 2.2.34.२० ॥
पञ्चमी च तिथिः श्रेष्ठा श्राद्धेभ्युदयकारिणी ॥
उभयोर्यदि संयोगो महापुण्यतमा तिथिः ॥ २१ ॥
यस्यां श्राद्धे कृते पुत्रैः पितॄणामुद्धृतिर्भवेत् ॥
सर्वतीर्थमये तस्मिन्सन्निधौ मुरवैरिणः ॥२२॥
श्राद्धं चेच्छ्रद्धया कुर्यान्नीलकण्ठनृसिंहयोः ॥
मध्ये मेध्यतमे देशे योगे परमदुर्लभे ॥ २३ ॥
पुरुषाञ्छतमुद्धृत्य ब्रह्मलोके महीयते ॥
प्रशस्यः कुतपः कालो मन्दीभूतदिवाकरः ॥ २४ ॥
पितॄनुद्दिश्य वा दद्यादशक्तः कनकं शुचिः ॥
तर्पयित्वा तिलैः सम्यक्पैतृकीं प्रीतिमुत्तमाम् ॥ २५ ॥
अथवा भोजयैद्विप्रान्भोज्यमूल्यानि वा ददेत् ॥
एकस्मै वा गुणवते सहस्रं भोजनं ददेत् ॥ २६ ॥
गुणागुणविवेकस्तु नात्र योगे विधीयते ॥
तस्मिन्सुदुर्लभे योगे सर्वे मुनिसमा द्विजाः ॥ २७ ॥
आषाढस्य सिते पक्षे पञ्चमी पितृदैवतम् ॥
नक्षत्रं जगदीशस्य महावेदीसमागमः ॥ २८ ॥
एते यदा त्रयः स्युश्चेदिन्द्रद्युम्नसरोवरे ॥
चतुष्पादः स्मृतो योगः पितॄणामक्षयप्रदः ॥२९॥
पितृकार्ये न सीदन्ति निरूप्य श्राद्धमत्र वै ॥
शृणुध्वमन्यद्विप्रा वै प्रसङ्गाच्च ब्रवीमि वः ॥ 2.2.34.३० ॥
नभस्य दर्शे यः कुर्याच्चतुर्ष्वपि युगादिषु ॥
श्राद्धं पितॄन्समुद्दिश्याऽश्वमेधाङ्गसम्भवे ॥ ३१ ॥
गयाश्राद्धसहस्रस्य श्रद्धया विहितस्य वै ॥
फलं यद्धि समं त्वस्य नात्र कार्या विचारणा ॥ ३२ ॥
दानं होमो जपश्चापि सर्वपापापनोदनः॥
दिनानि सप्त यान्यत्र कृष्णे वसति मण्डपे ॥ ३३ ॥
एकस्मादुत्तरं श्रेयो यत्तस्मादुत्तरोत्तरम् ॥
आषाढशुक्ल तृतीयायां प्रातःस्नानं समाचरेत् ॥ ३४ ॥
इन्द्रद्युम्नतटे देशे नृसिंहक्षेत्र उत्तमे ॥
व्रतमेतत्तु गृह्णीयात्सङ्कल्प्य विधिवन्नरः ॥ ३५ ॥
वनजागरणं नाम भगवत्प्रीतिवर्द्धनम् ॥
सर्वपापप्रशमनं सर्वव्रतफलप्रदम् ॥ ३६ ॥
दिनानि सप्त मौनी स्यात्कृतत्रिषवणक्रियः ॥
कुम्भे च पूजयेद्देवं त्रिसन्ध्यं भक्तिभावितः ॥ ३७ ॥
गोघृतेनाथ तैलेन तिलजेन प्रदीपयेत् ॥
अहर्निशं हरेरग्रे रक्षेत्तं यत्नतो व्रती ॥ ॥ ३८ ॥
दिवा दिवा वसेन्मौनी रात्रौ रात्रौ च जागृयात् ॥
मन्त्रं भागवतं जप्यान्नित्यकृत्यान्तरे व्रती ॥ ३९ ॥
उपवासपरो भूत्वा सप्ताहानि नयेद्व्रती ॥
अष्टमे प्रातरुत्थाय प्रतिष्ठां कारयेद्दिने ॥ 2.2.34.४० ॥
तस्मिन्नेव तीर्थवरे स्नात्वागत्य गृहं पुनः ॥
मण्डले सर्वतोभद्रे पूर्वे कुम्भं निवेशयेत ॥ ४१ ॥
तत्रावाह्य हृषीकेशं पूजयेदुपचारकैः ॥
तस्य पश्चिमदेशे च स्थण्डिले विधिसंस्कृते ॥ ४२ ॥
अग्निं प्रणीय गृह्योक्तविधिना ब्राह्मणावृतः ॥
अग्निकार्यं प्रकुर्वीत समिदाज्यचरूंस्तथा ॥ ४३ ॥
सहस्रं जुहुयादग्नौ प्रत्येकं वा शतं शतम् ॥
गायत्री वैष्णवी या वै तया होमविधिः स्मृतः ॥ ॥ ४४ ॥
सम्प्राश्य दक्षिणां दयाद्धेनुं वस्त्रं हिरण्यकम् ॥
विप्रांश्च भोजयेदन्ते प्रीतये विश्वसाक्षिणः ॥ ४५ ॥
व्रतराजमिमं कृत्वा विधिनानेन भो द्विजाः ॥
चतुर्वर्गानवाप्नोति यो यः कामानभीप्सति ॥ ४६ ॥
नारी वा श्रद्धया युक्ता कुर्याद्वेदीमहोत्सवम् ॥
सापि तत्फलमाप्नोति या कुर्याद्व्रतमुत्तमम् ॥ ४७ ॥
यात्राकर्तुः फलं यादृग्व्रतकर्तुश्च तत्फलम् ॥
भवते वै द्विजश्रेष्ठाः कथितं वो मुदान्विताः ॥ ४८ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे पुरुषोत्तमक्षेत्रमाहात्म्ये जैमिनिऋषिसंवादे चतुस्त्रिंशोऽध्यायः ॥ ३४ ॥