॥ ॥ जैमिनिरुवाच ॥ ॥
अत ऊर्ध्वं प्रवक्ष्यामि महावेदीमहोत्सवम् ॥
अज्ञानतिमिरान्धोऽपि येन भास्वत्पदं व्रजेत् ॥१॥
वैशाखस्यामले पक्षे तृतीया पापनाशिनी ॥
स्वयमाविष्कृता चैषा प्राजापत्यर्क्षसंयुता ॥ २ ॥
तस्यां सङ्कल्प्य नृपतिराचार्यं वरयेच्छुचिः ॥
एकं त्रीनथ तक्षाणं दृष्टकर्माणमादरात्॥३॥
वृणुयाद्वनयागाय वस्त्रालङ्करणादिभिः ॥
तक्ष्णा सार्द्धं वनं गत्वा साधुवृक्षगणाकुलम् ॥४॥
तन्मध्ये वह्निमाधाय मन्त्रराजेन मन्त्रवित्॥
अष्टोत्तरशतं हुत्वा सम्पाताज्यविमिश्रितम् ॥ ५ ॥
आज्यं तरूणां मूले तु प्रत्येकमभिघारयेत् ॥
दिक्पालेभ्यो बलिं दत्त्वा क्षेत्रपालपशूंस्तथा ॥ ६ ॥
वनस्पतये जुहुयात्क्षीरोदनशताहुतिम् ॥
ततः परशुमादाय वृक्षमूलेषु दिक्षु वै ॥ ७ ॥
आज्यसंस्कृतिदेशेषु आचार्यो मन्त्रमुच्चरन् ॥
किञ्चित्किञ्चिच्छेदयेद्वै चिन्तयन्गरुडध्वजम् ॥ ८ ॥
नदत्सु तूर्यघोषेषु गीतमङ्गलवादिषु ॥
नियोज्य वर्द्धकिं तत्र आचार्यः स्वगृहं व्रजेत् ॥ ९ ॥
अथवा स्थान लब्धानि दारूणि रथकर्मणि ॥
उक्तसंस्कारविधिना संस्कुर्यात्कल्पितेनले ॥ 2.2.33.१० ॥
आरभेत रथं कृत्वा विघ्रराजमहोत्सवम् ॥
षोडशारैः षोडशभिश्चक्रैर्लोहमयैर्दृढैः ॥ ११ ॥
युक्तं विष्णो रथं कुर्याद्दृढाक्षं दृढकूबरम् ॥
विचित्रघटनाकक्षपुत्तलीपरिवेष्टितम् ॥ १२ ॥
नानाविचित्रबहुलमिक्षुखण्डविराजितम्॥
चतुस्तोरणसंयुक्तं चतुर्द्वारं सुशोभनम् ॥ १३ ॥
नानाविचित्रबहुलं हेमपट्टविराजितम् ॥
द्वाविंशतिकरोच्छ्रायं पताकाभिरलङ्कृतम् ॥ १४ ॥
गारुडं च ध्वजं कुर्याद्रक्तचन्दननिर्मितम् ॥
दीर्घनासं स्थूलदेहं कुण्डलाभ्यां विभूषितम् ॥ १५ ॥
चञ्च्वग्रदष्टभुजगं सर्वालङ्कारभूषितम् ॥
वितत्य पक्षती व्योम्नि उड्डीयन्तमिवोदितम् ॥ १६ ॥
दैत्यदानवसङ्घस्य बलदर्पविनाशनम् ॥
सर्वाङ्गं तस्य कनकैराच्छाद्य परिशोभयेत् ॥ १७ ॥
रथमेव हरेः कुर्यात्स्वासनं सुपरिष्कृतम् ॥
चतुर्दशरथाङ्गैस्तं रथं कुर्याच्च सीरिणः ॥ १८ ॥
चक्रैर्द्वादशभिः कुर्यात्सुभद्राया रथोत्तमम् ॥
सप्तच्छदमयं कुर्यात्सीरिणो लाङ्गलध्वजम् ॥ १९ ॥
देव्याः पद्मध्वजं कुर्यात्पद्मकाष्ठविनिर्मितम् ॥
विरचय्य रथान्राजा प्रतिष्ठां पूर्ववच्चरेत् ॥ 2.2.33.२० ॥
यथामन्त्रं यथाशास्त्रं विश्वसेद्ब्राह्मणेषु च ॥
ब्राह्मणा जगदीशस्य जङ्गमास्तनवः स्मृताः ॥ २१ ॥
इत्थं सुघटितं चक्रित्रयं देवत्रयस्य वै ॥
आषाढस्य सिते पक्षे दिने विष्णोः शुभप्रदे ॥ २२ ॥
प्रतिष्ठाप्य समृद्धेन विधिना पूर्ववद्विजाः ॥
रक्षणीयं तथा तत्र नारोहेत्कश्चनाशुभः ॥ २३ ॥
पक्षी वा मानुषो वापि मार्जारनकुलादयः ॥
ततो दिनत्रयादर्वाग्रथानामुत्तरे कृते ॥ २४ ॥
मण्डपे उत्सवाङ्गे वा प्रकुर्यादङ्कुरार्पणम् ॥
अद्भुतेष्वथ जातेषु शान्तिं कुर्यात्पुरोदिताम् ॥ २५ ॥
रथ्या सुसंस्कृता कार्या महावेदीं यथा व्रजेत् ॥
पार्श्वयोर्मण्डलं कुर्यात्पथि गुल्मादिभिः फलैः ॥ २६ ॥
सुमनस्तबकैर्माल्यैर्दुकूलैश्चामरैस्तथा ॥
यथा सुपुष्पितारण्यराजी तत्र विराजते ॥ २७ ॥
भूमिः समा च कार्या वै निष्पङ्का सुखचारणा ॥
निर्मला च सुगन्धा च सुदूराद्वर्जितोत्करा ॥ २८ ॥
धूपपात्राण्यनुपदं दिगामोदकराणि च ॥
चन्दनाम्भः परिक्षेपो यन्त्रपातोत्करस्तथा ॥ २९ ॥
बहूनि ऋतुपुष्पाणि पुष्पवृष्ट्यर्थमेव हि ॥
नटनर्त्तकमुख्याश्च गायना बहवस्तथा ॥ 2.2.33.३० ॥
वेश्या यौवनगर्वाढ्याः रूपालङ्कारभूषिताः ॥
मृदङ्गा पणवाश्चैव भेरीढक्कादयस्तथा ॥ ३१ ॥
बहवो बहुधा तत्र पताकाश्चित्रितान्तराः ॥
ध्वजाश्च बहवस्तत्र स्वर्णराजतनिर्मिताः ॥ ॥ ३२ ॥
वैजयन्त्यो बहुविधा भूमिगा वाहनास्तथा ॥
हस्तिनश्च हयाश्चैव सुसन्नद्धाः स्वलङ्कृताः ॥ ३३ ॥
एवं सम्भृतसम्भारः क्षितिपालः शुचिव्रतः ॥
मुदा भक्त्या च परया युक्तः कुर्यान्महोत्सवम् ॥ ३४ ॥
आषाढस्य सिते पक्षे द्वितीया पुष्यसंयुता ॥
अरुणोदयवेलायां तस्यां देवं प्रपूजयेत् ॥ ३५ ॥
ब्राह्मणैर्वैष्णवैः सार्द्धं यतिभिश्च तपस्विभिः ॥
विज्ञापयेद्देवदेवं यात्रायै संस्कृताञ्जलिः ॥ ३६ ॥
इन्द्रद्युम्नं क्षितिभुजं यथाज्ञासीः पुरा विभो ॥
विजयस्व रथे नाथ गुण्डिचामण्डपं प्रति ॥ ३७ ॥
तवापाङ्गविलोकेन प्रपुनन्तु दिशो दश ॥
निःश्रेयसपदं यान्तु स्थावराणि चराणि च ॥ ३८ ॥
अवतारः कृतो ह्येष लोकानुग्रहकाम्यया ॥
तदेहि भगवन्प्रीत्या चरणं न्यस्य भूतले ॥ ३९ ॥
ततः कर्पूरचूर्णैश्च सुमनोभिरवाकिरेत् ॥
पथि शाकुनसूक्तानि प्रपठन्ति द्विजातयः ॥ 2.2.33.४० ॥
केचिन्मङ्गलगाथाश्च केचिज्जय जयेति च ॥
जितं त इति मन्त्रं वै केचिदुच्चैर्जपन्ति च ॥ ४१ ॥
सूतमागधमुख्याश्च कीर्तिं पुण्यां मुदा जगुः ॥
स्वर्णदण्डप्रकीर्णानां श्रेणी चोभयपार्श्वयोः ॥ ४२ ॥
लीलयान्दोलयन्ति स्म रणत्कङ्कणमञ्जुलम् ॥
स्वर्णपात्रपरिक्षिप्तकृष्णागुरुसुधूपितैः ॥ ४३ ॥
सुरभीकृतसर्वाशा मुखे व्योमाङ्गणे तथा ॥
चर्चरीझर्झरीवेणुवीणामाधुरिकादयः ॥
शब्दायन्ते सुमधुरं गोविन्दविजयान्तरे ॥ ४४ ॥
एवं प्रवृत्ते समये कृष्णं रामपुरःसरम्॥
नयन्ति विप्रा भद्रां च क्षत्रियाश्च विशस्तथा ॥ ४५ ॥
छत्रमाला समुदिता मुक्तास्रक्चीनतोरणा ॥
रत्नध्वजा हेमदण्डाः पार्श्वयोर्मुरवैरिणः ॥ ४६ ॥
राजा चतुर्विधा वर्णा अन्ये ये च पृथग्जनाः ॥
दीना महान्तश्च तदा समानास्तत्र भान्ति वै ॥ ४७ ॥
सलीलचरणन्यासं तूलिकास्तरणेषु तान् ॥
वासयन्तः क्वचित्छान्ता देवांस्ते रथमन्वियुः ॥ ४८ ॥
महोत्सवं समासाद्य गीतकोलाहलानि च ॥
करे कृत्वा जगन्नाथं भ्रामयित्वा रथोत्तमम् ॥ ४९ ॥
रामं कृष्णं सुभद्रां च रथमध्ये निवेशयेत् ॥
चारुचन्द्रातपाढ्येन मण्डपेन विराजिते ॥ 2.2.33.५० ॥
किङ्किणीमालिकाभिश्च माल्यचामरभूषिते ॥
ससारकृष्णागुरुजधूपपूरितगर्भके ॥ ५१ ॥
ततस्तान्वासयित्वा तु तूलिकासु सुरोत्तमान् ॥
भूषयेद्विविधैर्भक्त्या वस्त्रालङ्कार माल्यकैः ॥ ५२ ॥
पूजयेदुपचारैस्तैः समृद्धैर्भक्तिभावितैः ॥
नातः परतरं विष्णोर्यात्रान्तरमवेक्ष्यते ॥ ५३ ॥
यत्र स्वयं त्रिलोकेशः स्यन्दनेन कुतूहलात् ॥
मानयन्पूर्वमाज्ञां तां वर्षे वर्षे व्रजेदसौ ॥ ५४ ॥
रथस्थितं व्रजन्तं तं महावेदीमहोत्सवे ॥
ये पश्यन्ति मुदा भक्त्या वासस्तेषां हरेः पदे ॥ ॥ ५५ ॥
सत्यं सत्यं पुनः सत्यं प्रतिजाने द्विजोत्तमाः ॥
नातः श्रेयः परं विष्णोरुत्सवः शास्त्रसम्मतः ॥ ५६ ॥
यथा रथविहारोऽयं महावेदीमहोत्सवः ॥
यत्रागत्य दिवो देवाः स्वर्गं यान्त्यधिकारिणः ॥ ५७ ॥
किं वच्मि तस्य माहात्म्यमुत्सवस्य मुरद्विषः ॥
यस्य सङ्कीर्तनात्पापं नश्येज्जन्म शतोद्भवम् ॥ ५८ ॥
महावेदीं व्रजन्तं तं रथस्थं पुरुषोत्तमम् ॥
बलभद्रं सुभद्रां च जन्मकोटिसमुद्भवम् ॥ ५९ ॥
दृष्ट्वा पापं नाशयति नात्र कार्या विचारणा ॥
रथच्छायां समाक्रम्य ब्रह्महत्या व्यपोहति ॥ 2.2.33.६० ॥
तद्रेणुसंसक्तवपुस्त्रिविधां पापसंहतिम् ॥
नाशयेत्स्वर्गगङ्गायाः स्नानजं फलमाप्नुयात् ॥ ६१ ॥
घनाम्बुवृष्टियोगेन रथमार्गे तु पङ्किले ॥
दिव्यदृष्ट्या च कृष्णस्य समस्तमलहारिणि ॥ ६२ ॥
तत्र ये प्रणिपातांस्तु कुर्वते वैष्णवोत्तमाः ॥
अनादिव्यूढपङ्कांस्ते हित्वा मोक्षमवाप्नुयुः ॥ ६३ ॥
गवां कोटिप्रदानस्य कन्यानामयुतस्य च ॥
वाजिमेधसहस्रस्य फलं प्राप्नोत्यसंशयः ॥ ६४ ॥
अनुगच्छन्ति कृष्णं ये यात्राकौतूहलादपि ॥
अनुव्रजन्ति नित्यं वै देवाः शक्रपुरोगमाः ॥ ६५ ॥
पश्यन्ति ये रथं यान्तं दारुब्रह्म सनातनम् ॥
पदे पदेऽश्वमेधस्य फलं तेषां प्रकीर्तितम् ॥ ६६ ॥
वेदैः स्तुवन्ति वेदानां वक्तारो मोक्षदायिनम्॥
इतिहासपुराणाद्यैः स्तोत्रैर्वापि स्वयङ्कृतैः ॥ ६७ ॥
स्तुवन्ति पुण्डरीकाक्षं ये वै विगतकल्मषाः ॥
वैष्णवं योगमास्थाय मोदन्ते नारदादिभिः ॥ ६८ ॥
कुर्वन्ति वासुदेवाग्रे जयशब्देन वा स्तुतिम् ॥
ते वै जयन्ति पापानि विविधानि न संशयः ॥ ६९ ॥
लयतालानभिज्ञोपि गीतमाधुर्यवर्जितः ॥
नर्त्तनं कुरुते वापि गायत्यथ नरोत्तमः॥
वैष्णवोत्तमसंसर्गान्मुक्तिं प्राप्नोत्यसंशयः ॥2.2.33.७०॥
नामानि कीर्तयन्नस्य तेन याति सहैव यः ॥
अनुव्रज्यात्तत्फलं वै प्राप्नोत्यत्र न संशयः ॥ ७१ ॥
जय कृष्ण जय कृष्ण जय कृष्णेति यो वदेत् ॥
गुण्डिचानगरं यान्तं कृष्णं भक्तिसमन्वितः ॥
न मातृगर्भवासस्य स च दुःखमवाप्नुयात् ॥७२॥
चामरैर्व्यजनैः पुष्पस्तबकैर्नीलचोलकैः॥
रथस्याग्रस्थितो यो वै वीजयेत्पुरुषोत्तमम्॥७३॥
स वीज्यमानोप्सरोभिर्गन्धर्वैरुपशोभितः॥
अनुव्रजद्भिस्त्रिदशैर्महेन्द्रासनसंस्थितः ॥ ७४ ॥
भुनक्ति भोगानतुलान्यावदाभूतसम्प्लवम् ॥
तदन्ते च ब्रह्मलोकं प्राप्य मुक्तिमवाप्नुयात् ॥७५ ॥
कृष्णस्य पुरतो ये वै पुष्पवृष्टिं प्रकुर्वते ॥
ते वै मनोगतान्सर्वान्प्राप्नुवन्ति मनोरथान् ॥ ७६ ॥
सहस्रनामभिः पुण्यैः पर्यटन्ति रथं तु ये ॥
तेषां प्रदक्षिणं कुर्युस्त्रिदशानतकन्धराः ॥ ७७ ॥
वसन्ति वैकुण्ठगृहे विष्णुतुल्यपराक्रमाः ॥ ७८ ॥
तस्मिन्काले महापुण्ये देवर्षिपितृसेविते ॥
एकं ब्रह्म त्रिधाभूतं माययानुगतं स्वया ॥ ७९ ॥
साक्षाद्दारुस्वरूपेण महावेदीमहोत्सवम्॥2.2.33.८०॥
रथारूढः कौतुकवान्यत्रयाति जगत्प्रभुः॥
तस्मिन्काले पृथिव्यां तु चरेत्तत्र महोत्सवम् ॥ ८१ ॥
देवा अप्युत्सवे तस्मिन्पुरुहूतपुरोगमाः ॥
अभिमानं परित्यज्य श्रेणीभूता हि पार्श्वयोः ॥ ८२ ॥
प्रकुर्वते महायात्रां तैस्तैर्दिव्यैः परिच्छदैः ॥ ८३ ॥
तेषामग्रेसरस्तत्र देवोपि प्रपितामहः ॥
चतुर्दशानां जगतां कर्त्ता यः परमेश्वरः ॥ ८४ ॥
सोऽपि तत्र जगन्नाथं रथे यान्तं महोत्सवे ॥
ब्रह्मलोकात्परावृत्य स्तुवन्वेदमयैः स्तवैः ॥
पदे पदे प्रणमति भगवन्तं सनातनम् ॥ ८५ ॥
यद्यप्यब्जनिधेः कृष्णान्न भेदोऽस्ति तथाप्ययम् ॥
महोत्सवस्य महिमा यत्र सर्वेऽनुयायिनः ॥ ८६ ॥
नातः परतरो लोके महावेदीमहोत्सवात् ॥
सर्वपापहरो योगः सर्वतीर्थफलप्रदः ॥ ८७ ॥
कृष्णमुद्दिश्य यस्तत्र दानं ददाति वै नरः ॥
यत्किञ्चिदक्षयफलं मेरुदानेन तत्समम् ॥८८॥
तस्याग्रे देवदेवस्य व्रजतो गुण्डिचालयम् ॥
यत्किञ्चित्कुरुते कर्म तत्तदक्षयमश्नुते ॥ ८९ ॥
उपायनानि नाना वै भक्ष्यभोज्यानि चैव हि ॥
समर्पयन्ति देवाय तत्प्रीत्यै वा द्विजन्मने ॥
तेषामक्षयपुण्यानि सर्वकामप्रदानि च ॥ 2.2.33.९० ॥
हरेरग्रेसरा ये वै पश्यन्तस्तन्मुखाम्बुजम् ॥
पदे पदे नमन्तश्च पङ्कधूलिपरिप्लुताः ॥ ९१ ॥
विहाय पाप कवचमभेद्यं कोटिजन्मभिः ॥
क्षणान्मुक्तिफलं प्राप्य यान्ति विष्णोः शुभालयम् ॥ ९२ ॥
सर्वक्रतूनां तीर्थानां दानानां यान्ति ते फलम् ॥
भगवद्भक्तिभावानां नातः पुण्यतमो महः ॥ ९३ ॥
एवं स भगवान्कृष्णः सुभद्रारामसङ्गतः ॥
व्रजन्स्यन्दनश्रेष्ठस्थो द्योतयंश्च चतुर्दिशः ॥ ९४ ॥
श्रीमदङ्गोपसृष्टेन मरुता सर्वदेहिनाम् ॥
पापानि नाशयञ्छ्रीमान्दयालुर्भक्तभावनः ॥ ९५ ॥
अज्ञानामप्यविश्वासभाजां विश्वासहेतवे ॥
निसर्गमुक्तिदोऽप्येष यात्रारम्भान्करोति वै ॥ ९६ ॥
व्रजन्समृद्ध्या देवानां मर्त्यानां च जनार्दनः ॥
सूर्ये ललाटं तपति मध्याह्ने मार्गमध्यतः ॥ ९७ ॥
श्रान्ता कर्षजनस्तस्थौ म्लायन्वै तद्रजोवृतः ॥
तत्रातपस्य शान्त्यर्थं दर्पणेष्वभिषेचयेत् ॥ ९८ ॥
पञ्चामृतैः शीततोयैः पुष्पकर्पूरवासितैः ॥
चामरैश्च जलार्द्रान्तैः शीतलैर्व्यजनैस्तथा ॥ ९९ ॥
वीजयेत्पुण्डरीकाक्षं सुभद्रां राममेव च ॥
शीतैश्च पानकैर्हद्यैस्तथा खण्डविकारकैः ॥ 2.2.33.१०० ॥
खर्जूरैर्नारिकेलैश्च नानारम्भाफलैस्तथा ॥
तथा क्षीरविकारैश्च पनसैस्तृणराजकैः ॥ १ ॥
इक्षुभिः स्वादुहृद्यैश्च फलैर्नानाविधैस्तथा ॥
वासितैः शीततोयैश्च पक्वताम्बूलपत्रकैः ॥ २ ॥
सकर्पूरलवङ्गाद्यैः पूजयेत्पुरुषोत्तमम् ॥ ३ ॥
तस्मिन्काले द्विजश्रेष्ठा ये पश्यन्ति जनार्दनम् ॥
पूजयन्ति यथाशक्ति न ते संसारजं श्रमम् ॥ ४ ॥
प्राप्नुवन्ति द्विजश्रेष्ठा ब्रह्मलोकनिवासिनः ॥ ५ ॥
रथत्रयस्थितं देवत्रयं ये पुरुषर्षभाः ॥
प्रदक्षिणं प्रकुर्वन्ति त्रिश्चतुः सप्त एव वा ॥ ६ ॥
दशप्रणामान्कृत्वान्ते स्थिताः प्राञ्जलयोऽग्रतः ॥
पुरारथस्थितान्ब्रह्मा स्तुतिभिर्याभिरब्जभूः ॥७॥
तुष्टाव ताभिर्देवेशं स्तुवन्ति परमेश्वरम् ॥
ये नरा ब्रह्मलोकं ते प्रयान्ति नियतं द्विजाः ॥ ८ ॥
ततोऽपराह्णे देवेशं दक्षिणानिलवीजितम् ॥
शनैः शनैर्नयेद्गीतैवेण्णुवीणादिनादितैः ॥ ९ ॥
बन्दिनः स्तुतिपाठैश्च कलैर्मधुरिकास्वनैः ॥
निरन्तरैः पुष्पवर्षैश्चामरान्दोलनैस्तथा ॥ 2.2.33.११० ॥
एवं व्रजति देवेशे सूर्यश्चास्तङ्गतो भवेत् ॥
दीपिकानां सहस्राणि ज्वालितानि सहस्रशः ॥ १११ ॥
तदालोकप्रकाशेन मार्गशेषश्च नीयते ॥
रथावरोहणेनैषां मण्डपारोहणेन च ॥ ११२ ॥
सम्मर्दः सुमहांस्तत्र दिदृक्षूणां कुतूहलात् ॥
मण्डपे वासयेद्देवं गुण्डिचाख्ये मनोहरे ॥ ११३ ॥
चारुचन्द्रातपे चारुमाल्यचामरभूषिते ॥
रत्नस्तम्भमये स्वर्णवेदिकोपस्कृतान्तरे ॥ ११४ ॥
प्राचीरवलयावीते सुधालेपसमुज्ज्वले ॥
साधुसोपानघटिते चतुर्द्वारोपशोभिते ॥ ११५ ॥
त्रैलोक्याण्डबरयुते महावेद्यां महाक्रतोः ॥
प्रादुर्भावो महेशस्य यत्राभूद्दारुवर्ष्मणः ॥ ११६ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णव खण्डे पुरुषोत्तमक्षेत्रमाहात्म्ये गुण्डिचायात्राकथनन्नाम त्रयस्त्रिंशोऽध्यायः ॥ ३३ ॥