०३२ ज्येष्ठपञ्चकव्रतवर्णनम्

॥ जैमिनिरुवाच ॥ ॥
अतः परं प्रवक्ष्यामि दक्षिणामूर्तिदर्शनम् ॥
पदेपदेश्वमेधस्य फलं यत्रोपलभ्यते ॥ १ ॥
ततो नानाविधैर्दिव्यैर्भक्ष्यभोज्यादिकैस्तथा ॥
यथाशक्त्युपचारैस्तु गन्धैर्माल्यैश्च पूजयेत् ॥ २ ॥
रामं कृष्णं सुभद्रां च गीतनृत्यादिकैस्तथा ॥
प्रेक्षणीयैश्च विविधैः श्रद्धया चोपपादितैः ॥ ३ ॥
वस्त्रचन्दनमाल्याद्यैः पूजयित्वा द्विजोत्तमान् ॥
भगवद्ब्राह्मणांश्चैतान्महाभागवतांस्तथा ॥ ४ ॥
ततो नयेद्दक्षिणाभिमुखांस्तांस्त्रिदशेश्वरान् ॥
उत्सवं च महत्कृत्वा पूर्वानयनवद्धरेः ॥ ५ ॥
तस्मिन्काले हरिं पश्येद्व्रजन्तं दक्षिणामुखम् ॥
समं सुभद्रां यो मर्त्यो न स प्राकृतमानुषः ॥ ६ ॥
स्नानार्थमागता देवाः स्नापयित्वा जगद्गुरुम् ॥
आकाशेऽपि ससम्बाधास्तावत्कालं स्थिता हरिम् ॥
द्रष्टुं व्रजन्तं याम्याशावदनं भवनाशनम् ॥ ७ ॥
धर्मशास्त्रेषु यावन्ति धर्मकर्माणि सन्ति वै ॥
तानि सर्वाणि सन्द्रष्टुं व्रजन्तं दक्षिणामुखम् ॥ ८ ॥
स्नानदर्शनजं पुण्यं समग्रं लभते तु सः ॥
स्नातं मुरारिं यः पश्येद्व्रजन्तं दक्षिणामुखम्॥ ९ ॥
नीराजयित्वा देवेशं रामेण सह भद्रया ॥
प्रासादान्तः प्रवेश्याथ न पश्येद्वै कथञ्चन ॥ 2.2.32.१० ॥
एतत्तु विस्तरेणोक्तं पूर्वमेव मया द्विजाः ॥ ११ ॥ ॥
॥ मुनय ऊचुः ॥ ॥
भगवन्यत्त्वया प्रोक्तं ज्येष्ठास्नानप्रदर्शनात् ॥
फलं प्राप्नोति नियतं तन्नो बूहि विदांवर॥१२॥
॥ जैमिनिरुवाच ॥ ॥
हन्त वः कथयिष्यामि तद्व्रतं ज्येष्ठपञ्चकम् ॥
नातः परतरं प्रोक्तमृषिभिः शास्त्रपारगैः ॥१३॥
श्रौतस्मार्तपुराणोक्त व्रतानामिदमुत्तमम्॥
इदं प्रथमतः प्रोक्तं ब्रह्मणा परमेष्ठिना ॥ १४ ॥
ज्येष्ठत्वाद्व्रतमुख्यानां ख्यातं तज्जयेष्ठपञ्चकम् ॥
समुद्रो ज्येष्ठफलदः प्रभुर्ज्येष्ठफलप्रदः ॥ १५ ॥
वर्षसन्दर्शनात्पुण्यं मञ्चकेनैव लभ्यते ॥
मञ्चकेन तु यल्लभ्यं महाज्यैष्ठ्यां तु तल्लभेत् ॥ १६ ॥
यन्मयोक्तं पुरा विप्राः स्नानदर्शनजं फलम् ॥
समग्रं तदवाप्नोति महाज्यैष्ठ्यां न संशयः ॥ १७ ॥
॥ मुनय ऊचुः ॥ ॥
महाज्यैष्ठीं समाचक्ष्व यत्र स्नानं महाफलम् ॥
तत्र नः कौतुकं ब्रह्मन्महद्वै सम्प्रवर्त्तते ॥ १८ ॥ ॥
॥ जैमिनिरुवाच ॥ ॥
ज्येष्ठस्य विमले पक्षे या वै पञ्चदशी भवेत् ॥
शक्रर्क्षैकांशगौ चन्द्रगुरू च गुरुवासरे ॥ १९ ॥
शुभे योगे महाज्यैष्ठी सर्वपापप्रणाशिनी ॥
सर्वक्षेत्रं सर्वतीर्थं सप्त वै सागरास्तथा ॥ 2.2.32.२० ॥
क्रतवश्च महादानसमूहश्च तपांसि च ॥
विद्याश्चाष्टादशविधा व्रतानि विविधानि च ॥ २१ ॥
शान्तिपौष्टिककर्माणि साङ्ख्ययोगस्तथैव च ॥
सर्वे सम्भूय गच्छन्ति क्षेत्रं श्रीपुरुषोत्तमम्॥ २२ ॥
वृन्दशः प्रविभक्तास्त एकैकं क्षेत्रगं प्रति ॥
कस्मै वयं भाग्यवते ज्येष्ठस्नानावलोकने ॥ २३ ॥
महाज्यैष्ठ्यां प्रवेक्ष्यामः परस्परमहम्मया ॥
तत्र यान्ति महायोगे भगवत्क्षेत्रमुत्तमम् ॥ २४ ॥
महाज्यैष्ठी महापुण्या भगवत्प्रीतिवर्द्धनी ॥
तस्यां सम्पूज्य देवेशं जगन्नाथं कृपार्णवम् ॥
दृष्ट्वा च स्नाप्यमानं तं पापकोशाद्विमुच्यते ॥ २५ ॥
अत ऊर्ध्वं प्रवक्ष्यामि व्रतं तज्ज्येष्ठपञ्चकम् ॥
व्रतेनानेन लभ्यं यत्तत्तदेव ब्रवीमि वः ॥ २६ ॥
दशम्यां नियमं कुर्यात्प्रातः स्नात्वा यथाविधि ॥
आचार्यं वृणुयात्तत्र वैष्णवं द्विजपुङ्गवम् ॥ २७ ॥
इत्थं सङ्कल्पममलं गृह्णीयाद्व्रतमुत्तमम् ॥ २८ ॥
देवदेवजगन्नाथ संसारार्णवतारक ॥
अद्यारभ्य व्रतं देव यावज्ज्यैष्ठी च सा तिथिः ॥
तावद्व्रतं करिष्यामि प्रीतये तव केशव ॥२९॥
सर्वतीर्थाभिषेकं च प्रत्यहं व्रतभोजनम् ॥
मूर्तीनां तव पञ्चानामेकस्यापि प्रपूजनम् ॥ 2.2.32.३० ॥
एकस्मिन्दिवसे देव त्रिसन्ध्यं त्वत्प्रसादतः ॥
समाप्यतां व्रतमिदं सफलं चास्तु ते प्रभो ॥॥ ३१ ॥
ततः पञ्चसु तीर्थेषु स्नात्वा च गृहमेत्य च ॥
स्थण्डिले विलिखेत्पद्ममष्टपत्रं सकर्णिकम् ॥ ३२ ॥
तन्मध्ये स्थापयेत्कुम्भं तीर्थाम्भोभिः प्रपूरितम् ॥
सचन्दनफलैर्युक्तं तन्मुखे ताम्रभाजनम् ॥ ३३ ॥
वाससा वेष्टितं कण्ठे पात्रं चाक्षतपूरितम् ॥
तन्मध्ये स्थापयेद्देवं सौवर्णं मधुसूदनम् ॥ ॥ ३४ ॥
शुभाङ्गावयवं शान्तं वामे श्रीयुतमीश्वरम् ॥ ३५ ॥
दक्षिणे च गरुत्मन्तं स्पृशन्तं पृष्ठदेशतः ॥
शङ्खचक्रधरं चोर्ध्वे पद्मासनगतं विभुम् ॥ ॥ ३६ ॥
पूजयेदुपचारैस्तमाचार्यो वापि भो द्विजाः ॥
नीलोत्पलानां मालां तु भक्त्या देवाय दापयेत् ॥ ३७ ॥
दशम्यां पूजयित्वैवं दशकोट्यघनाशनम् ॥
प्रार्थयेत्प्राञ्जलिर्भूत्वा मन्त्रमेतं समुच्चरन् ॥ ३८ ॥ ॥
मधुसूदन देवेश नमस्ते माधवीप्रिय ॥
कृपावारान्निधे पाहि पतितं मां भवार्णवे ॥ ३९ ॥
एकादश्यां चतुर्बाहुं शङ्खचक्रगदाधरम् ॥
नारायणं पद्मसंस्थं पञ्चनिष्कविनिर्मितम् ॥
तदर्द्धं निर्मितं वापि पूजयेत्पद्ममालया ॥ 2.2.32.४० ॥
नैवेद्यं पायसं दद्यात्सितां रम्भाफलानि च ॥
नानाविधं च नैवेद्यं दत्त्वा सम्प्रार्थयेन्मुदा ॥ ४१ ॥
नारायण नमस्तेऽस्तु भवसागरतारण ॥
त्राहि मां पुण्डरीकाक्ष शरणागतवत्सल ॥ ४२ ॥
एकादशेन्द्रियकृतं पापराशिमनुत्तमम् ॥
अनादिभवनिर्व्यूढं नाशयेत्पूजितः प्रभुः ॥ ४३ ॥
द्वादश्यां यज्ञवाराहं पूजयेत्स्वर्णनिर्मितम् ॥
चन्दनागुरुकर्पूरलेपनैश्चम्पकस्रजा ॥ ४४ ॥
नानाविधापूपसारा भक्ष्यभोज्यफलान्विताः ॥
निवेद्य प्रार्थयेद्देवं स्तुतिमेतां समुच्चरन् ॥ ४५ ॥
प्रलयार्णवसम्मग्नां धरणीं धृतवानसि ॥
किन्न शक्तो ममोद्धारे पतितस्याङ्घ्रिपङ्कजे ॥
तन्मामुद्धर गोविन्द निमग्नं शोकसागरे ॥ ४६ ॥
अब्दो द्वादशमासो वै यावदब्दकृतानि तु ॥
पापानि महदल्पानि इतः पूर्वेषु जन्मसु ॥
तद्विनाशयते देवो द्वादश्यामर्चितो नृणाम् ॥ ४७ ॥
त्रयोदश्यां तु प्रद्युम्नं शङ्खचक्रवराभयान् ॥
धारयन्तं पद्मगतं चतुर्निष्कविनिर्मितम् ॥ ४८ ॥
उपचारैर्यथाप्रोक्तैः पूजयेद्भक्तितो नरः ॥
अशोकपाटलीमालां चन्द्रपूर्णां समुज्ज्वलाम् ॥ ४९ ॥
नैवेद्यं चैव पक्वान्नं फलं पक्वं मनोहरम् ॥
दत्त्वा नमस्कृतिं कुर्वन्प्रार्थयेत्प्राञ्जलिः शुचिः ॥ 2.2.32.५० ॥
देव प्रद्युम्न कामानां पूरक कामरूपधृक् ॥
कामाश्च सफलाः सन्तु कामपाल नमोऽस्तु ते ॥ ५१ ॥
चतुर्दश्यां नरहरिं पूजयेत्कनकाकृतिम् ॥
वक्षःस्थलस्थया लक्ष्म्या प्रीयमाणं सटोज्ज्वलम् ॥ ५२ ॥
व्यात्ताननं साट्टहासं योगपट्टाब्जसंस्थितम् ॥
सुतीक्ष्णनखरं देवं सर्वापद्विनिवारणम् ॥ ५३ ॥
चतुर्भिर्हेमनिष्कैश्च घटितं शुभलक्षणम् ॥
पूजयेत्पूर्ववद्देवं सोपहारं सुभक्तितः ॥ ५४ ॥
जपाकुसुममालां च जातीपुष्पस्रजं तथा ॥
दत्त्वा पुष्पाञ्जलीन्पादे प्रणम्य सप्रदक्षिणम् ॥ ५५ ॥
यथा हिरण्यकशिपुं लोकानां हितकाम्यया ॥
व्यदारयस्तथा पापसङ्घं नाशय पूजितः ॥ ५६ ॥
एवं सम्प्रार्थ्य नृहरिं प्रणम्य दण्डवत्क्षितौ ॥
निर्वर्त्य व्रतमेवं तद्व्रती पञ्चदिनात्मकम् ॥
पञ्च पञ्च प्रदीपांस्तु दिवारात्रौ प्रदापयेत् ॥ ५७ ॥
वस्त्रयुग्मान्पञ्च पञ्च च्छत्रोपानद्युगं तथा ॥
सयज्ञसूत्रान्कलशान्पञ्च पञ्च फलान्वितान् ॥ ५८ ॥
भोजनान्ते द्विजेभ्यश्च प्रदद्याच्छ्रद्धयान्वितः ॥ ५९ ॥
रात्रौ जागरगीताद्यैस्तथा नानोपहारकैः ॥
तोषयेद्वासुदेवं तु पुराणपठनेन तु ॥ 2.2.32.६० ॥
पौर्णमास्युषसि स्नात्वा श्रीकृष्णस्यान्तिकं व्रजेत् ॥ ६१ ॥
रामं कृष्णं सुभद्रां च पूजयित्वा यथाविधि ॥
स्नपनं कारयित्वाथ दृष्ट्वा वा शास्त्रचोदितम् ॥ ६२ ॥
स्नानं कृत्वा पुनः सिन्धौ गृहमागत्य तत्र वै ॥
यत्र विष्णोर्मूर्त्तयस्ताः कुम्भस्था मन्त्रपूजिताः ॥ ६३ ॥
तासां पश्चिमतो वह्निं समाधाय यथाविधि ॥
अग्निकार्यं प्रकुर्वीत स्वैः स्वैर्मन्त्रैः पुरोहितः ॥६४॥
प्रणवादिचतुर्थ्यन्तं नमोन्तं नाम ईरयेत् ॥
देवानां मूलमन्त्रस्तु स्वाहान्तो होमकर्मणि ॥ ॥ ६५ ॥
चरोराज्यस्य समिधां पलाशानां पृथक्पृथक् ॥
एकैकं देवमुद्दिश्य जुहुयाच्च शतं शतम् ॥ ६६ ॥
तस्य पुष्पशतं चैव जुहुयात्तदनन्तरम् ॥
पूर्णाहुतिं ततो हुत्वा ब्रह्मणे दक्षिणां ददेत् ॥ ६७ ॥
आचार्ये दक्षिणां दद्यात्सुवर्णं धेनुमेव च ॥
स्वर्णशृङ्गीं रौप्यखुरां नानोपकरणैर्युताम् ॥ ॥ ६८ ॥
महार्घ्यवस्त्रदानानि येन तुष्यति वा गुरुः ॥
सर्वोपकरणैर्युक्ताः प्रतिमाश्च निवेदयेत् ॥ ६९ ॥
ब्राह्मणान्भोजयेत्सर्पिः खण्डयुक्तैश्च पायसैः ॥
एतद्व्रतं समाख्यातं ज्येष्ठपञ्चकमुत्तमम् ॥ 2.2.32.७० ॥
अनुष्ठाय नरो भक्त्या स्नानदर्शनजं फलम् ॥
समग्रं लभते विप्रास्तदा नैवात्र संशयः ॥ ७१ ॥
एकादशी या तु मध्ये निर्जला सा प्रकीर्तिता ॥
एकां तां भक्तियुक्ता ये यथाविधि उपासते ॥ ७२ ॥
यावज्जीवकृताः सर्वा एकादश्यो न संशयः ॥
व्रतराजमिमं कृत्वा सर्वव्रतफलं लभेत् ॥ ७३ ॥
यान्यान्समीहते कामांस्तांस्तानाप्नोत्यसंशयः ॥ ७४ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे पुरुषोत्तमक्षेत्रमाहात्म्ये ज्येष्ठपञ्चकव्रतवर्णनन्नाम द्वात्रिंशोऽध्यायः ॥ ३२ ॥