०३१

॥ जैमिनिरुवाच ॥ ॥
कृतकृत्यं तदात्मानं मन्यमानस्ततो व्रजेत् ॥
अश्वमेधाङ्गसम्भूतमिन्द्रद्युम्नसरः प्रति ॥ १ ॥
यस्य तीरे निवसति नरसिंहाकृतिर्हरिः ॥
नरसिंहमनुप्रार्थ्य तत्र स्नायाद्यथाविधि ॥ २ ॥
नरसिम्ह नमस्तुभ्यं यस्य ते क्षेत्र उत्तमे ॥
सहस्रं वाजिमेधस्य क्रतोश्चक्रे नृपोत्तमः ॥ ३ ॥
इन्द्रद्युम्नः प्रसादात्ते तस्य क्रत्वङ्गसम्भवे ॥
सरसि स्नातुमायातो मामनुज्ञापय प्रभो ॥ ४ ॥
ततस्तीर्थतटं गत्वा कृतशौचाचमक्रियः ॥
प्रार्थयेदञ्जलिं कृत्वा इमं मन्त्रमुदीरयेत् ॥ ५ ॥
अश्वमेधाङ्गगोकोटिखुरक्षुण्णमहीतलः ॥
तन्मूत्रफेनादानाम्भः पूरिताखिलपावनः ॥६॥
स्नातुं तवागतः पुण्ये सर्वतीर्थमये जले ॥
पूर्वजन्मसहस्रोत्थं पापं स्नानाद्विमोचय ॥ ७ ॥
अन्तः प्रविश्य च ततो वारुणैः पञ्चभिर्द्विजाः ॥
स्नायादन्तर्जले जप्यात्त्रिरावृत्त्याघमर्षणम् ॥ ८ ॥
अश्वमेधाङ्गसम्भूत तीर्थ सर्वाघनाशन ॥
जन्मकोटिभवं पापं त्वयि स्नानाद्विनश्यतु ॥ ९ ॥
इमं मन्त्रं त्रिरुच्चार्य त्रिः स्नायात्तज्जले द्विजाः ॥
संस्मरेद्विष्णुगायत्र्या नरसिंहाकृतिं हरिम् ॥ 2.2.31.१० ॥
आपो नारा इति प्रोक्ता यस्मात्ता नरसूनवः ॥
अयनं प्रथमं चास्य तस्मादप्सु हरिं स्मरेत् ॥११॥
देवानृषीन्पितॄंश्चैव तर्पयेद्विधिवन्नरः ॥
नरसिंहं ततो गच्छेत्पश्चिमाभिमुखं स्थितम् ॥ १२ ॥
सिद्धं शम्भुं कृत्रिमं वा पश्चिमाभिमुखं हरिम् ॥
दृष्ट्वा विमुच्यते पापैर्जन्मकोटिसमुद्भवैः ॥ १३ ॥
तमाथर्वणमन्त्रेण यजेच्च नरकेसरिम् ॥
नारदेन पुरा ह्येष मन्त्रराजः प्रतिष्ठितः ॥ १४ ॥
इन्द्रद्युम्नेन तेनैव चिरादेष उपासितः ॥
नरसिंहाकृतौ नान्यो मन्त्रस्तत्सदृशो द्विजाः ॥ १५ ॥
यस्योच्चारणमात्रेण तुष्टो भवति केसरी ॥
अनेन दारुवर्ष्मापि ब्रह्मणा सम्प्रतिष्ठितः ॥ १६ ॥
पूर्वोक्तैरुपचारैस्तु पूजयेन्नरकेसरिम् ॥
जपाप्रसूनैररुणैरन्यैश्चैव सुगन्धिभिः ॥ १७ ॥
चन्दनागरुकर्पूरैर्लेपयेन्नरकेसरिम् ॥
पायसं सितया युक्तं सौरभेयेण सर्पिषा ॥ १८ ॥
कर्पूरखण्डसंयुक्तान्मोदकान्घृतपाचितान् ॥
संयावान्घृतपूपांश्च फलं नानाविधं तथा ॥ १९ ॥
शर्करादधिसंयुक्तं शाल्यन्नं विनिवेदयेत् ॥
दृष्ट्वा स्पृष्ट्वा नमस्कृत्वा सम्पूज्य नरकेसरिम् ॥ 2.2.31.२० ॥
स्वान्स्वानभीष्टानाप्नोति नरो वै नात्र संशयः ॥
देवत्वममरेशत्वं गन्धर्वत्वं च भो द्विजाः ॥२१॥
ईशित्वं च वशित्वं च सार्वभौमत्वमेव वा ॥
यद्यत्कामयते चित्ते तत्तदाप्नोत्यसंशयम् ॥ २२ ॥
पञ्चतीर्थीविधानं च कथितं पृच्छतां द्विजाः ॥
दिनानि पञ्च कृत्वैतां पञ्चभूतमये पुनः ॥२३॥
न देहे प्रविशेन्मर्त्यो व्रती विष्णुपरायणः ॥
पौर्णमास्यां प्रत्युषसि तीर्थराजजले पुनः ॥ २४ ॥
पूर्वोक्तविधिना स्नात्वा शुद्धाहारो जितेन्द्रियः ॥
एकभक्तव्रतेनैव वर्त्तते प्रीतये नरः ॥
यावत्पञ्च दिनानि स्युस्तावत्कालं द्विजोत्तमाः ॥ २५ ॥
ततः प्रविश्यप्रासादं मञ्चस्थं पुरुषोत्तमम् ॥
रामं सुभद्रां दृष्ट्वा च मुच्यते पापकञ्चुकैः ॥ २६ ॥
सर्वतीर्थमयात्कूपादुद्धृतेन सुगन्धिना ॥
वारिणा स्नाप्यमानं तु यो ज्यैष्ठ्यां पश्यते हरिम् ॥ २७ ॥
न तस्य पापसम्बन्ध आत्मनि प्रभविष्यति ॥
यात्राकर्तृविधिं वक्ष्ये शृणुध्वं मुनयः परम् ॥ २८ ॥
चतुर्दश्यां दृढं मञ्चं कारयित्वा सुशोभनम् ॥
तृणकाष्ठमयं लिप्तं सुधया बहुलं शुभम् ॥ २९ ॥
अथवा दार्षदं कुर्याच्चिरस्थायि द्विजोत्तमाः ॥
स्नानार्थं देवदेवस्य वित्तशाठ्यं न कारयेत् ॥ 2.2.31.३० ॥
नानाद्रुमगणाकीर्णं दक्षिणानिलशीतलम् ॥
उल्लसत्सिन्धुकल्लोलशाड्वलोपरि संस्कृतम् ॥ ३१ ॥
समुच्छ्रितमहामूल्यवितानवरशोभितम् ॥
विरलाच्छादनं कुर्याद्देवानां दर्शनाय वै ॥ ३२ ॥
आयान्ति ब्रह्मणा सार्द्धं स्नपनाय जगत्पतेः ॥
स्वर्गङ्गाम्भः समादाय पारिजातविभूषितम् ॥ ३३ ॥
ब्रह्मर्षयश्च त्रिदशा ब्रह्मणा सहिता विभुम् ॥
मञ्चस्थं स्नापयन्तीह वचनात्परमेष्ठिनः ॥ ३४ ॥
जयशब्दैश्च स्तुतिभिर्वन्द्योऽयं त्रिदिवौकसाम् ॥
तस्मान्मञ्चस्तु कर्तव्यो मण्डितो माल्यचामरैः ॥ ३५ ॥
नानामणिस्रजा हारिदुकूलकृततोरणम् ॥
सुगन्धधूपसुरभिचन्दनाभः समुक्षितम् ॥ ३६ ॥
एवं मञ्चं प्रतिष्ठाप्य तस्य दक्षिणतो द्विजाः ॥
कूपाद्वारि समुद्धृत्य कलशान्स्वर्णनिर्मितान् ॥ ३७ ॥
शालायां शास्त्रदृष्टेन विधिना त्वधिवासयेत्॥ ३८ ॥
सुवासितं जलं तेषु पावमान्या प्रपूरयेत् ॥
चतुर्दशीनिशामध्ये कर्मैतत्समुदाहृतम् ॥ ३९ ॥
शनैः शनैश्च नीयासुर्हरिं हलि पुरःसरम् ॥
ब्राह्मणाः क्षत्रिया वैश्या राज्ञा सम्मानितादृताः ॥ 2.2.31.४० ॥
चामरैस्तालवृन्तैश्च वीज्यमानं निरन्तरम् ॥
पुराकृतामलेपं तं विष्णोरङ्गान्न हापयेत् ॥ ४१ ॥
यथा सुगन्धलेपेन सुपुष्टाङ्गो दिने दिने ॥
तथा प्रयत्नतः कार्यः कृशाङ्गो न हि पुष्टिकृत् ॥ ४२ ॥
नयेयुरप्रमाद्यन्तो भगवन्तमानदिताः ॥
प्रमादतो यदि भवेत्पतनं मुरवैरिणः ॥ ४३ ॥
बलस्य वा सुभद्राया राज्ञो राज्यस्य भीतिकृत् ॥
अपि पातयतां हानिः सन्ततेर्बहुदुःखिता ॥ ४४ ॥
नरके नियतं वासो भवेत्तेषां दुरात्मनाम् ॥
विमुह्यन्तश्चिराद्दारुमयीयं प्रतिमा कथम् ॥ ४५ ॥
तिष्ठेदविश्वसन्तो ये भगवद्द्रोहिणस्तु ते ॥
नरकं प्रतिपद्यन्ते सर्वकर्मबहिष्कृताः ॥४६॥
मूढानां नास्तिकानां च कृतघ्नानां हतात्मनाम् ॥
धर्मकृत्येषु जायन्ते अविश्वासस्य युक्तयः॥४७॥
अदृष्टं यस्य यावद्धि स तु तेन विनिर्मितः ॥
तदन्ते तस्य क्षीयन्ते प्रासादप्रतिमादयः ॥४८॥
न चायं निर्मितः केन द्रुमः सोऽपि प्रवर्द्धितः ॥
वरं ददाति या नूनं न चासौ प्रतिमा मता ॥ ४९ ॥
निर्मितायां प्रतिकृतौ पुरा मन्वन्तरादिषु ॥
व्यतीतेष्वपि वर्द्धन्ते जनानां च सुपर्वणाम् ॥ 2.2.31.५० ॥
भक्तयस्तादृशो विप्राः सर्वेषां पृथिवीक्षिताम् ॥
स्वारोचिषेंऽतरे चैव आविर्भूतः कृपानिधिः ॥ ५१ ॥
वैवस्वतेंऽतरे सप्तविंशे चैव चतुर्युगे ॥
द्वापरान्ते समायातौ तदा कृष्णार्जुनावुभौ ॥ ५२ ॥
त्रिदिनानि स्थितावत्र व्रतस्थौ मधुसूदनम् ॥
भक्त्या सम्पूज्य तं स्तुत्वा जग्मतुर्द्वारकां पुनः ॥ ५३ ॥
न केऽपि तत्त्वं जानन्ति मानुषीं तनुमास्थिताः ॥
अवताराः प्रवर्तन्ते विष्णोरस्य युगेयुगे ॥ ५४ ॥
धर्मस्थापनया विप्रा लीयन्ते स्वपदे पुनः ॥
पूर्वं च ब्रह्मणा प्रोक्तः स चानेन परस्परम् ॥ ५५ ॥
स्थाता परार्द्धपर्यन्तं भगवान्दारुरूपधृक् ॥
सदायं वरदो विष्णुः शुद्धसत्त्वेन भावितः ॥ ५६ ॥
यस्य यावांस्तु विश्वासस्तस्य सिद्धिस्तु तावती ॥
प्रमादीकृतविश्वासो भक्तो दृढमतिः पुमान् ॥ ५७ ॥
यत्नानुरूपं लभते फलमस्मात्सुदुर्लभम् ॥
पुरा वः कथितं सर्वमम्बरीषविमोचनम् ॥ ५८ ॥
ततस्तस्मिञ्जगन्नाथे परमात्मस्वरूपिणि ॥
विधाय सुदृढां भक्तिं वसध्वं पुरुषोत्तमे ॥५९ ॥
अतोऽयं भक्तितो नेयः श्रीकृष्णमञ्च उत्तमः ॥
सुभद्राबलभद्रौ च राजवत्परिचर्य वै ॥ 2.2.31.६० ॥
उत्तोलितेषु च्छत्रेषु चामरैर्वीजितेषु च ॥
कालागुरुसुधूपासु दिक्षु गम्भीरनादिषु ॥ ६१ ॥
नानाविधेषु वाद्येषु त्वगारे परिपूरिते ॥
तौर्यत्रिके साधुवृत्ते दीपिका श्रेणिराजिते ॥ ६२ ॥
अन्धकारेऽथ सर्वेषां वर्द्धमाने महोत्सवे ॥
आच्छन्ने श्रीपतेरङ्गे प्रमादपरिशङ्कया ॥ ६३ ॥
पटुपट्टदुकूलेषु नीयमानेषु दूरतः ॥
गतेर्वेगात्तदोत्तानीकृतास्ये जगतां गुरौ ॥ ६४ ॥
आवर्त्तदृष्टयो देवा दिवारोहणशङ्किनः ॥
जयस्व राम कृष्णेति जय भद्रेति चोचिरे ॥ ६५ ॥
एवं सलीलं भगवाञ्जन्मज्यैष्ठ्याभिषेचने ॥
नीयते मञ्चदेशं तु निशीथे ब्राह्मणादिभिः ॥ ६६ ॥
अहम्पूर्विकशब्दस्तु देवानां श्रूयते दिवि ॥
देवदुन्दुभयश्चैव जयशब्दविमिश्रिताः ॥ ६७ ॥
ततो मञ्चस्थितं ब्रह्मरूपं प्रत्यर्चया सह ॥
आच्छाद्य सर्वाण्यङ्गानि मुखवर्जं सुचेलकैः ॥ ६८ ॥
विना निवेद्यं सम्पूज्य उपचारैः पुरोदितैः ॥
अधिवासितकुम्भैश्च शान्तिघोषपुरःसरम् ॥ ६९ ॥
समुदज्येष्ठामन्त्रेण स्नापयेत्सुरपुङ्गवान् ॥
पश्यतामभिषेक्तॄणां कृतकृत्यत्वहेतवे ॥ 2.2.31.७० ॥
स्नाप्यमानं तु पश्यन्ति ये नरास्तत्र संस्थिताः ॥
गर्भोदकेन स्नपनं न ते पुनरवाप्नुयुः ॥ ७१ ॥
ज्येष्ठस्नानं भगवतो ये पश्यन्ति मुदान्विताः ॥
न ते भवाब्धौ मज्जन्ति यात्रामुत्कण्ठमानसाः ॥ ७२ ॥
बुद्ध्यबुद्धिकृतः पुंसामनादिः पापसञ्चयः ॥
तत्क्षणान्नाशमायाति पश्यतां स्नपनं हरेः ॥ ७३ ॥
सत्यं सत्यं पुनः सत्यं ब्रवीमि द्विजपुङ्गवाः ॥
सर्वसन्तापशमनमशेषमलनाशनम् ॥ ७४ ॥
स्नपनं श्रीपतेर्ज्यैष्ठ्यां यदि भक्त्या विलोकनम् ॥
प्रायश्चित्तनिमित्तानि यानि पापानि सन्ति वै ॥ ७५ ॥
तानि सर्वाणि क्षीयन्ते पश्यतां स्नपनं हरेः ॥
नातः परतरं कर्म ह्यनायासेन मोचनम् ॥ ७६ ॥
ज्येष्ठजन्मदिने स्नानं हरेर्यदवलोकितम् ॥
स्नानदानतपःश्राद्धजपयज्ञादयस्तु ये ॥ ७७ ॥
विधयः कोटिगुणिताः कोटिजन्मोपपादिताः ॥
स्नानदर्शनपुण्यस्य हरेस्ते न तुलां गताः ॥ ७८ ॥
भक्त्या यः स्नपनं विष्णोरेकस्मिन्वत्सरेऽपि वा ॥
पश्येन्न शोचते विप्रा इह संसारमोचने ॥ ७९ ॥
तेनेष्टं क्रतुभिः पुण्यैः श्रद्धाविपुलदक्षिणैः ॥
महादानानि दत्तानि भोजिताः कोटिशो द्विजाः ॥ 2.2.31.८० ॥
श्राद्धानि गयशीर्षादौ कोटिशश्च कृतानि वै ॥
पुण्यकाले च तीथार्दौ तपांसि चरितानि च ॥ ८१ ॥
अर्धोदयादियोगेषु कोटितीर्थेषु कोटिशः ॥
स्नातानि तेन भो विप्रा यः पश्येत्स्नपनं हरेः ॥ ८२ ॥
सत्यं सत्यं पुनः सत्यं ब्रवीमि द्विजपुङ्गवाः ॥
नातः श्रेयस्करं कर्म शास्त्रदृष्टपथिस्थितम् ॥ ८३ ॥
मञ्चस्थं स्नाप्यमानं हि यः पश्येत्पुरुषोत्तमम् ॥
स्नानाच्छतगुणं पुण्यं लभते वै न संशयः ॥ ८४ ॥
मञ्चस्थितं जगन्नाथं स्नानार्द्रं यस्तु पश्यति ॥
सान्द्रानन्दार्द्रचित्तोऽसौ न किञ्चित्पापमश्नुते ॥ ८५ ॥
यदेव पुण्यमुदितं स्नानदर्शनकर्मणि ॥
तत्तत्फलमवाप्नोति दृष्ट्वा मञ्चस्थमच्युतम् ॥ ८६ ॥
एक एव जगन्नाथस्त्रिधा तत्र स्थितो द्विजाः ॥
एकैकस्यापि स्नपनदर्शनं भुक्तिमुक्तिदम् ॥ ८७ ॥
जयस्व रामभद्रेति जय भद्रेति यो वदेत् ॥
जय कृष्ण जगन्नाथ जयेत्युच्चारयेन्मुदा ॥ ८८ ॥
स्नानकाले स वै मुक्तिं प्रयाति द्विजसत्तमाः ॥
अधिवासादिकं तत्र यैः कृतं स्नानकर्मणि ॥ ८९ ॥
तेषां श्रद्धामुदायुक्तः प्रदद्याद्दक्षिणाः पृथक् ॥
ब्राह्मणेभ्यश्च मिष्टान्नं वस्त्रालङ्करणानि च ॥ 2.2.31.९० ॥
प्रदद्याच्छ्रद्धया युक्तो दीनानाथांश्च तर्पयेत् ॥
ये द्रष्टुमागताः स्नानं जीवन्मुक्तास्तु ते ध्रुवम् ॥ ९१ ॥
तान्यथाशक्ति वै राजा मानयेत्प्रीतये हरेः ॥
स्नानावशेषतोयेन स्नायाद्भद्रासनस्थितः ॥ ९२ ॥
नारी वा पुरुषो वापि तस्य पुण्यं वदामि वः ॥
कल्पः स्याच्चिररोगार्तो ह्यपमृत्युं जयेदसौ ॥ ९३ ॥
अपुत्रा मृतवत्सा वा वन्ध्या वापि लभेत्सुतम् ॥
सुभगः सर्वलोकानां निर्धनो धनवान्भवेत् ॥ ९४ ॥
गुर्विणी लभते पुत्रं दीर्घायुर्गुणवत्तरम्॥
गङ्गादिसर्वतीर्थानां स्नानजं फलमुच्यते ॥ ९५ ॥
स्नानदर्शनजं पुण्यं धर्मात्मा लभते ध्रुवम् ॥९६॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे पुरुषोत्तमक्षेत्रमाहात्म्य एकत्रिंशोऽध्यायः ॥ ३१ ॥