०३०

॥ मुनय ऊचुः ॥ ॥
चकार केन विधिना जन्मस्नानं श्रियः पतेः ॥
अन्यानप्युत्सवान्सर्वान्विधिवद्ब्रूहि नो मुने ॥ १ ॥
नारदेन पुरा प्रोक्तं सर्वं ते मुनिसत्तम ॥
स हि वेद तमःपारे ब्रह्म ब्रह्मसुतो मुनिः ॥ २ ॥
तत्सर्वं ब्रूहि तत्त्वेन मुने क्रौतूहलं हि नः ॥
अहो भाग्यं नरपतेरिन्द्रद्युम्नस्य भो मुने ॥ ३ ॥
तस्य तावति कर्मान्ते अत्यद्भुतमिदं महत् ॥
न श्रुता हि न दृष्टा हि प्रतिमा दारुनिर्मिता ॥ ४ ॥
सजीवतनुवत्साक्षाद्वारं दद्यान्मनुष्यवत् ॥
स्मारंस्मारं भगवतश्चरितं पापनाशनम् ॥ ५ ॥
चरितं तस्य नृपतेर्दुर्लभं मर्त्यवासिनाम् ॥
न सन्तोषोऽस्ति भगवञ्शृण्वतां नो महामुने ॥ ६ ॥
तद्वदानुक्रमेणास्मान्यात्राः सर्वाघनाशनाः ॥
यासां सन्दर्शनाद्वासो वैकुण्ठ इति निश्चितम् ॥ ७ ॥
यात्रामाहात्म्यवक्तासौ यत्साक्षान्मधुसूदनः ॥
तन्नो वद महाभाग जगतां हितकाम्यया ॥ ८ ॥ ॥
॥ जैमिनिरुवाच ॥ ॥
ज्येष्ठस्नानं प्रवक्ष्यामि शृणुध्वं मुनयोऽधुना ॥
ज्येष्ठशुक्लदशम्यां तु व्रतं सङ्कल्प्य वाग्यतः ॥ ९ ॥
प्रातरुत्थाय कुर्वीत पञ्चतीर्थविधानतः ॥
मार्कण्डेय वटं गत्वा आचम्य प्रयतः पुमान् ॥ 2.2.30.१० ॥
प्रार्थयेच्छङ्करं नत्वा कृताञ्जलिपुटोऽग्रतः ॥ ११ ॥
अतितीक्ष्ण महाकाय कल्पान्तदहनोपम ॥
भैरवाय नमस्तुभ्यमनुज्ञां दातुमर्हसि ॥ १२ ॥
ततः प्रविश्य तीर्थं तु वैदिकैः पञ्च वारुणैः ॥
अघमर्षणसूक्तेन त्रिरावृत्तेन वा द्विजाः ॥
स्नात्वा यथावत्स्नायीत मन्त्रेणानेन चान्ततः ॥ १३ ॥
नमः शिवाय शान्ताय सर्वपापहराय च ॥
स्नानं करोमि देवेश मम नश्यतु पातकम् ॥ १४ ॥
संसारसागरे मग्नं पापग्रस्तमचेतनम् ॥
त्राहि मां भगनेत्रघ्न त्रिपुरारे नमोऽस्तु ते ॥ १५ ॥
एवं स्नात्वा बहिर्गत्वा धौतवासा सपुण्ड्रकः ॥
देवानृषीन्पितॄंश्चैव तर्पयित्वा यथाविधि ॥ १६ ॥
प्रविश्य शङ्करागारं स्पृष्ट्वा वृषणयोर्वृषम् ॥
मन्त्रेणानेन भो विप्राः सर्वक्रतुफलं लभेत् ॥ १७ ॥
धर्मश्चतुष्पाद्यज्ञस्त्वं स्वर्णशृङ्गस्त्रयीवपुः ॥
गोपते वाहरूपस्त्वं शूलिनं त्वां नमाम्यहम् ॥ १८ ॥
अघोरमन्त्रेण ततः पूजयेद्वृषवाहनम् ॥
पञ्चब्रह्मभिर्ऋग्भिस्तु संस्पृशेल्लिङ्गमुत्तमम् ॥ १९ ॥
अङ्गुष्ठेन स्पृशेल्लिगं मुष्टिना शक्तिमेव च ॥
पूजयित्वा तु विधिवत्स्तुत्वा देवं पुरद्विषम् ॥ 2.2.30.२० ॥
दशानामश्वमेधानां फलं प्राप्नोत्यनुत्तमम् ॥
मार्कण्डेयवटे स्नात्वा दृष्ट्वा देवं तु शङ्करम् ॥ २१ ॥
फलं प्राप्नोत्यविकलं राजसूयाश्वमेधयोः ॥
अन्ते शिवस्य सालोक्यं प्राप्य ज्ञानं ततो नरः ॥ २२ ॥
क्रमाच्च लभते मुक्तिं जगन्नाथप्रसादतः ॥
ततो मौनी व्रजेद्देवं नारायणमनामयम् ॥ २३ ॥
तद्दक्षिणस्थितं विष्णुरूपं न्यग्रोधमुत्तमम् ॥
दर्शनादपि पापानां पापसंहतिनाशनम् ॥ २४ ॥
तं दृष्ट्वा प्रणमेद्दूराद्भावयन्पुरुषोत्तमम् ॥
प्रदक्षिणं ततः कुर्यादिमं मन्त्रमुदीरयन् ॥ २५ ॥
अमरस्त्वं सदा कल्प विष्णोरायतनं महत् ॥
न्यग्रोध हर मे पापं विष्णुरूप नमोऽस्तु ते ॥ २६ ॥
नमोऽस्त्वव्यक्तरूपाय महाप्रलयस्थायिने ॥
एकाश्रयाय जगतां कल्पवृक्षाय ते नमः ॥ २७ ॥
स्तुवञ्जपेत्तु तद्भक्त्या मूले तस्य जनार्दनम् ॥
कोटिजन्मशतोद्भूतपापादेव विमुच्यते ॥ २८ ॥
तच्छायाक्रमणेनापि निष्पापो जायते नरः ॥
ततः सुपर्णं प्रणमेद्यानरूपं हरेः पुरः ॥ २९ ॥
स्थितो भक्तिनतो विष्णोः कृताञ्जलिपुटो मुदा ॥
छन्दोमय जगद्धामन्यानरूप त्रिवृद्वपुः ॥ 2.2.30.३० ॥
यज्ञरूप जगद्व्यापिन्प्रीयमाणाय ते नमः ॥
स्तुत्वेत्थं गरुडं पापान्मुच्यतेऽनेकजन्मजात् ॥ ३१ ॥
वाङ्मनःकर्मनियतो गच्छेदेवं विचिन्तयन् ॥
प्रविश्य देवतागारं कृत्वा तं त्रिः प्रदक्षिणम् ॥ ३२ ॥
पूजयेन्मन्त्रराजेन सूक्तेन पुरुषस्य वा ॥
द्वादशाक्षरमन्त्रेण यत्र वा जायते रुचिः ॥ ३३ ॥
पूजाधिकारिणः सर्वे ब्रह्मक्षत्रविशस्ततः ॥
अन्येषां दर्शन भक्त्या तयोर्नामानुकीर्तनात् ॥ ३४ ॥
पञ्चोपचारविधिना पूजयेत्परमेश्वरम् ॥
कृताञ्जलिपुटो भूत्वा इदं स्तोत्रमुदीरयेत् ॥ ३५ ॥
देवदेव जगन्नाथ संसारार्णवतारक ॥
भक्तानुग्राहक सदा रक्ष मां पादयोर्नतम् ॥ ३६ ॥
जय कृष्ण जगन्नाथ जय सर्वाघनाशन ॥
जयाशेषजगद्वन्द्य पादाम्भोज नमोऽस्तु ते ॥ ३७ ॥
जय ब्रह्माण्डकोटीश वेदनिःश्वासवातक ॥
अशेषजगदाधार परमात्मन्नमोऽस्तु ते ॥३८॥
जय ब्रह्मेन्द्ररुद्रादि देवौघप्रणतार्तिनुत् ॥
जयाखिलजगद्धामन्नन्तर्यामिन्नमोऽस्तु ते ॥ ३९ ॥
जय निर्व्याजकरुणापाथोधे दीनवत्सल ॥
दीनानाथैकशरण विश्वसाक्षिन्नमोऽस्तु ते ॥ 2.2.30.४० ॥
संसारसिन्धुसलिले मोहावर्त्ते सुदुस्तरे ॥
षडूर्मिकुलदुष्पारे कुकर्मग्राहदारुणे ॥ ४१ ॥
निराश्रये निरालम्बे निःसारे दुःखफेनिले ॥
तव मायागुणैर्बद्धमवशं पतितं ततः ॥ ४२ ॥
मां समुद्धर देवेश कृपापाङ्गविलोकनैः ॥
तत्र मग्नं सुरश्रेष्ठ सुप्रसादप्रकाशक ॥ ४३ ॥
एक एव जगन्नाथ बन्धुस्त्वं भवभीरुणाम् ॥
बुभुक्षा च पिपासा च प्राणस्य मनसः स्मृतौ ॥ ४४ ॥
शोकमोहौ शरीरस्य जरा मृत्युर्वपुर्भवः ॥
त्वत्सृष्टौ तादृशो नास्ति यो दीनपरिपालकः ॥ ४५ ॥
अवतीर्णोसि लोकानामनुग्रहधिया विभो ॥
पूर्णकामस्य ते नाथ किमन्यत्कारणं क्षितौ ॥ ४६ ॥
त्वत्पादपद्ममासाद्य न चिन्तास्ति जगत्पते ॥
यतस्ते चरणाम्भोजं चतुर्वर्गेकसाधनम् ॥ ४७ ॥
दर्शनात्सर्वलोकानां सर्ववाञ्छा फलप्रदम् ॥
ततः सीरध्वजं शेषमन्त्रेण परिपूजयेत् ॥ ४८ ॥
द्वादशाक्षरमन्त्रेण नाम्ना वा प्रणवादिना ॥
एकाग्रमानसो भूत्वा प्रणिपत्य प्रसादयेत् ॥ ४९ ॥
जय राम सदाराम सच्चिदानदविग्रह ॥
अविद्यापङ्करहित निर्मलाकृतये नमः ॥ 2.2.30.५० ॥
जयाखिलजगद्भारधारणश्रमवर्जित ॥
तापत्रयविकर्षाय हलं कलयसे सदा ॥ ५१ ॥
प्रपन्नदीनत्राणाय स्फुटनेत्रसरोरुह ॥
त्वमेवेश पराशेषकलुषक्षालनप्रभुः ॥ ५२ ॥
प्रसन्नकरुणासिन्धो दीनबन्धो नमोऽस्तु ते ॥
चराचराफणाग्रेण धृता येन वसुन्धरा ॥ ५३ ॥
मामुद्धरास्माद्दुष्पाराद्भवाम्भोधेरपारतः ॥
परापराणां परमपरमेश नमोऽस्तु ते ॥ ५४ ॥
स्तुत्वैवं नागराजानं बलं मुसलधारिणम् ॥
पूजयेज्जगतामादिकारणां भद्रलोचनाम् ॥ ५५ ॥
स्तुत्वा जयां तां भो विप्राः प्रणिपत्य प्रसादयेत् ॥
जय देवि महादेवि प्रसीद भवतारिणि ॥ ५६ ॥
सुखारणि श्रितवतां जय सन्तुष्टिकारिणि॥
कार्यं कार्यस्वरूपाणां कारणानां च कारणम् ॥ ९७ ॥
धारणां धार्यमाणानां त्वामादिं प्रणमाम्यहम् ॥
वक्षःस्थलस्थितां विष्णोः शम्भोरर्द्धाङ्गधारिणीम्॥ ५८ ॥
पद्मयोनि मुखाब्जस्थां प्रणमामि जगत्प्रियाम् ॥
सृष्टिस्थितिविनाशादिकर्मणां परमात्मनः ॥ ५९ ॥
त्वमेका शक्तिरतुला त्वां विना सोऽपि नेश्वरः ॥
त्वां सर्वलोकजननीं विष्णुमायां तपस्विनीम् ॥ 2.2.30.६० ॥
सुभद्रां भद्ररूपां तां मूलभूतां नमाम्यहम् ॥
ततः सागरस्नानाय प्रार्थयेत्पुरुषोत्तमम् ॥ ६१ ॥
नमस्ते भगवन्विष्णो जगद्व्यापिंश्चराचर ॥
निर्विघ्नं सिद्धिमायातु सिन्धुस्नानं मम प्रभो ॥ ६२ ॥
नमस्ते जगतामीश शङ्खचक्रगदाधर ॥
देहि देव ममानुज्ञां तव तीर्थनिषेवणात् ॥ ६३ ॥
ततो मौनं व्रजेद्विष्णुं चिन्तयन्सरितां पतिम् ॥
उग्रसेनं स्थितं मार्गे अनुज्ञाप्य समाहितः ॥ ६४ ॥
उग्रसेन महाबाहो वलवन्नुग्रविक्रम ॥
लब्ध्वा वरं सुप्रसन्नात्समुद्रतटमास्थितः ॥ ६५ ॥
तीर्थराजकृतस्नानसुसम्पूर्णफलप्रद ॥
सिन्धुस्नानं करिष्यामि अनुज्ञां दातुमर्हसि ॥ ६६ ॥
ततो गच्छेद्द्विजश्रेष्ठाः स्वर्गद्वारं ततः परम् ॥
येन देवाः समायान्ति क्षेत्रेऽस्मिन्पुरुषोत्तमे ॥ ६७ ॥
भूस्वर्गे जगदीशस्य दर्शनाय दिनेदिने ॥
स्वर्गावतारमार्गेण तत्रस्थौ वां नमाम्यहम् ॥ ६८ ॥
मामप्यूर्ध्वं नयेतां वै साक्षिणौ कर्मणां सताम् ॥
सागराम्भः समुत्पन्नौ श्रेष्ठौ सर्वगुणान्वितौ ॥ ६९ ॥
मध्येन युवयोर्यामि स्वर्गद्वारमपावृतम् ॥
प्रार्थयित्वा ततो गच्छेत्तीर्थराजस्य सन्निधिम् ॥ 2.2.30.७० ॥
यं दृष्ट्वा दूरतः पापान्मुच्यते महतो धुवम् ॥
प्रक्षालितकराङ्घ्रिक आचान्तः शुचिविष्टरे ॥ ७१ ॥
आसीनः प्राङ्मुखोभूत्वा लिखेन्मण्डलमग्रतः ॥
चतुरस्रं चतुर्द्वारं चतुःस्वस्तिककोणकम्॥७२॥
तन्मध्ये विलिखेत्पद्ममष्टपत्रं सुशोभनम्॥
ततोऽष्टाक्षरमन्त्रं तु करयोश्च तनौ न्यसेत्॥७३॥
षड्भिर्वर्णैः षडङ्गानां न्यासः प्रोक्तो मनीषिभिः॥
शेषौ कुक्षौ च पृष्ठे च न्यस्तव्यौ च ततः पुनः ॥७४॥
पादयोर्जङ्घयोरूर्वोः स्फिचोश्च पार्श्वयोः पुनः ॥
नाभौ पृष्ठे बाहुयुग्मे हृदि कण्ठे च कक्षयोः ॥ ७५ ॥
ओष्ठयोः कर्णयोरक्ष्णोर्गण्डयोर्नासयोस्तथा ॥
भ्रुवोर्ललाटे शिरसि मन्त्रवर्णान्यथाक्रमम्॥ ७६ ॥
विन्यस्य व्यापकं सर्वैर्न्यासं कुर्यात्समाहितः ॥
प्राणायामत्रयं कुर्यान्मूलेन पञ्चविंशतिम्॥ ७७॥
बध्नीयात्कवचं दिव्यं सर्वपापापनोदनम् ॥
पूर्वे मां पातु गोविन्दो वारिजाक्षस्तु दक्षिणे ॥ ७८ ॥
प्रद्युम्नः पश्चिमे पातु हृषीकेशस्तथोत्तरे ॥
आग्नेय्यां नरसिंहस्तु नैर्ऋत्यां मधुसूदनः ॥ ७९ ॥
वायव्यां श्रीधरः पातु ऐशान्यां च गदाधरः ॥
ऊर्ध्वं त्रिविक्रमः पातु अधो वाराहरूपधृक् ॥ 2.2.30.८० ॥
सर्वत्र पातु मां देवः शङ्खचक्रगदाधरः ॥
नारायणो मनः पातु चैतन्यं गरुडध्वजः ॥ ८१ ॥
पातु मे बुद्ध्यहङ्कारौ त्रिगुणात्मा जनार्दनः ॥
इन्द्रियाणि सदा पातु दैत्यवर्गनिकृन्तनः ॥ ८२ ॥
एवं बद्ध्वा च कवचं निष्पापो जायते पुमान् ॥
षोडशैरुपचारैश्च मनसा कल्पितैर्नरः ॥ ८३ ॥
पुरुषोत्तमं पूजयित्वा यथावद्विधितो द्विजाः ॥
आवाह्य मण्डले तस्मिन्देवदेवमनामयम्॥ ८४ ॥
पूजयित्वा विधानेन यथाशक्त्युपबृंहितैः ॥
आत्मानं तीर्थराजस्य देवदेवस्य चिन्तयन् ॥ ८५ ॥
एवं बद्धाञ्जलिपुटमिमं मन्त्रमुदीरयेत् ॥
सुदर्शन नमस्तेऽस्तु कोटिसूर्यसमप्रभ ॥ ८६ ॥
अज्ञानतिमिरान्धस्य विष्णोर्मार्गं प्रदर्शय ॥
एवं सम्प्रार्थ्य भो विप्रास्तीर्थराजजलान्तिके ॥ ८७ ॥
जानुभ्यामवनिं गत्वा प्रणमेद्भक्तिभावितः ॥
तीर्थराज नमस्तुभ्यं जलरूपाय विष्णवे ॥ ८८ ॥
जीवनाय च जन्तूनां परं निर्वाणहेतवे ॥ ८९ ॥
अग्निश्च ते योनिरिला च देहे रेतोधा विष्णोरमृतस्य नाभिः ॥
उपैमि ते रूपमनन्यहेतुमानन्दसम्पन्नमप्रनुप्रविश्य ॥ 2.2.30.९० ॥
इति मन्त्रं पठन्विप्राः प्रविशेज्जलमध्यतः ॥
आवाहयेत्तीर्थराजं भावयञ्जगताम्पतिम् ॥ ९१ ॥
जलाधीशं कृतस्नानफलदानेऽतः स्थितम् ॥
अघमर्षणसूक्तेन नारायणयुतेन च ॥ ९२ ॥
त्रिरावृत्तेन कुर्वीत पञ्चवारुणकेन च ॥
सकृदावाहनादीनि षडङ्गान्यभिषेचने ॥॥ ९३ ॥
आवाहनं पुर प्रोक्तं सन्निधानमथोच्यते ॥
स्नातुरिष्टफलप्राप्तौ सान्निध्यपरिकल्पनम् ॥ ९४ ॥
अन्तःशुद्ध्यर्थमाचामेत्पीत्वा तदभिमन्त्रितम्॥
बाह्यावयवशुद्ध्यर्थं मार्जयेत्कुशवारिणा ॥ ९५ ॥
अन्तर्बहिर्विशुद्ध्यर्थं मन्त्रपूतेन वारिणा ॥
त्रीनञ्जलीन्मूर्ध्नि सिञ्चेत्सिन्धौ नान्तर्जले जपः ॥ ९६ ॥
त्रिः स्नानायात्स्वकृताघानि कोटिजन्मकृतानि च ॥
प्लावितानि जले तस्मिन्भावयन्नघनाशनम् ॥ ९७ ॥
उत्थायाचम्य विधिवत्प्रार्थयेन्मन्त्रमुच्चरन् ॥
त्वमग्निर्जगतां नाथ रेतोधाः कामदीपनः ॥ ९८ ॥
प्रधानं सर्वभूतानां जीवानां प्रभुरव्यय ॥
अमृतस्यारणिस्त्वं हि देवयोनिरपाम्पते ॥ ९९ ॥
वृजिनं हर मे सर्वं तीर्थराज नमोस्तु ते ॥
जन्मकोटिसहस्रेषु यत्पापं पूर्वमर्जितम् ॥ 2.2.30.१०० ॥
तदशेषं लयं यातु देहि मे ब्रह्म शाश्वतम्॥
स्नात्वापि च ततस्तीरमुत्तीर्याचम्य वाग्यतः ॥ १०१ ॥
धारयेद्वाससी शुक्ले पुण्ड्रकानुज्ज्वलाकृतीन् ॥
शङ्खचक्रगदापद्मतिलकानि च भक्तितः ॥ २ ॥
देवान्पितॄन्यथान्यायं चिन्तयन्भगवद्धिया ॥
तर्प्पयेद्विधिवद्विप्राः सम्यगव्यग्रमानसः ॥ ३ ॥
ततः पूर्ववदालिख्य मण्डलं चोत्तरामुखः ॥
पूजयेन्मूलमन्त्रेण मन्त्रैरेभिश्च भक्तितः ॥ ४ ॥
नारायणं चतुर्बाहुं शङ्खचक्रगदाधरम् ॥
धरारमाभ्यां सहितं केवलं वा द्विजोत्तमाः ॥
ध्यात्वान्तर्यागसन्तुष्टं बहिरावाहयेत्ततः ॥ ५ ॥
आगच्छ परमानन्द जगद्व्यापिञ्जगन्मय ॥
अनुग्रहाय देवेश मण्डले सन्निधिं कुरु ॥ ६ ॥
चराचरमिदं सर्वं जगदत्र प्रतिष्ठितम्॥
तदन्तस्थस्त्वमेवेश आसनं कल्पयामि ते ॥ ७ ॥
यस्य पादाम्बुजे धौते धर्मेण ब्रह्मरूपिणा ॥
पुनाति तद्भवा गङ्गा जगत्पाद्यं ददाम्यहम् ॥ ८ ॥
अनर्घ्यरत्नघटितचूडामणिकरोत्करैः ॥
ब्रह्मादयः पादपद्मं चिन्तयन्ति दिने दिने ॥
अनर्घ्यायजगद्धाम्ने अर्घ्यमेतद्ददाम्यहम् ॥ ९ ॥
आचान्तस्तीर्थराजो वै येनागस्त्यस्वरूपिणा ॥
तस्मै सुवासितं वारि ददाम्याचमनीयकम् ॥ 2.2.30.११० ॥
यः प्राप्य मधुसम्पर्कं चकर्ष जलरूपिणम् ॥
अशेषाघविकर्षाय मधुपर्कं ददाम्यहम् ॥ ११ ॥
यः क्रोडरूपमास्थाय प्रलयार्णवविप्लुताम् ॥
उज्जहार धरामेतां स्नपयामि तमम्भसा ॥ १२ ॥
ब्रह्माण्डकोटयो यस्य विश्वरूपस्य संवृतिः ॥
आच्छादनाय सर्वेषां प्रददे वाससी शुभे ॥ ॥ १३ ॥
विना येनानुष्ठितोऽपि यज्ञः स्यादकृतो ध्रुवः ॥
तस्मै यज्ञेश्वरायेदमुपवीतं प्रकल्पये ॥ १४ ॥
यदङ्गसङ्गमासाय शोभन्ते भूषणानि वै ॥
विश्वालङ्कृतये तस्मै भूषणानि प्रकल्पये ॥ १५ ॥
यदङ्गसंस्पर्शिमरुत्सङ्गान्मलयजा द्रुमाः ॥
सुगन्धरससम्पन्नास्तस्मै गन्धानुलेपनम् ॥ १६ ॥
यस्य सञ्चितनादेव सौमनस्यं हतांहसाम् ॥
तस्मै सुमनसां मालां सुगन्धां परिकल्पये ॥ १७ ॥
यं चित्ते स्थिरमादाय भवाग्निपरिधूपनम् ॥
जहाति तस्मै प्रददे सुगन्धं धूपमुत्तमम्॥ १८ ॥
स्वतेजसाखिलमिदं दीपितं यस्य भासतः ॥
तस्मै दीपप्रदीप्ताय दीपमेतं ददाम्यहम् ॥ १९ ॥
चराचरं जगत्सर्वमत्ति यो यश्च भावयेत् ॥
अनेन च पुनः पुष्टौ तस्मादन्नं निवेदये ॥ 2.2.30.१२० ॥
यदीयमुखरागेण सहजावासितेन च ॥
मोहिताः सुरसुन्दर्यस्तस्मै ताम्बूलमुत्तमम् ॥ २१ ॥
प्रदक्षिणप्रकमणाद्भवाङ्गणविवर्त्तनम् ॥
हन्ति यः करुणाम्भोधिस्तं नमामि जगद्गुरुम् ॥ २२ ॥
मन्त्रास्तु कथिता ह्येत उपचारैः पृथक्पृथक् ॥
आवाह्य चिन्तयेद्देवं बहिःसंस्थितमात्मनः ॥ २३ ॥
रत्नसिहासनं दत्त्वा तत्रासीनं विचिन्तयेत् ॥
पादपद्मद्वये दद्यात्पाद्यं श्यामाकपङ्कजैः ॥ २४ ॥
दूर्वापराजिताभ्यां च संस्कृतं मूलमन्त्रणात् ॥
सौवर्णे राजते वापि ताम्रे वा शङ्ख एव वा ॥ २५ ॥
अर्घ्यं संस्कृत्य विधिवद्वारिचन्दनपुष्पकैः ॥
यवदूर्वाकुशाग्रैश्च फलसिद्धार्थकैस्तिलैः ॥ २६ ॥
दूर्वाकुशाग्रैर्देवस्य मूर्ध्नि सिञ्चेत्तदग्रतः ॥
सावशेषं क्षिपेद्भूमावेषोऽर्घविधिरीरितः ॥ २७ ॥
जातीफलैर्वा कङ्कोलैर्लवङ्गैः संस्कृतं जलम् ॥
दद्यादाचमनार्थं तु मधुपर्कं ततो ददेत् ॥ ॥ २८ ॥
मधुसर्पिर्युतं गव्यं दधि कांस्ये हि निर्मले ॥
पात्रे स्थितं च पिहितं पात्रेणान्येन तादृशा ॥
सुसंस्कृतं फलयुतं स्नपने जलमुच्यते ॥ ॥ २९ ॥
पट्टकौशेयकापासनिर्मिते वाससी शुभे ॥
यथाशक्ति प्रदेये च वित्तशाठ्यं न कारयेत् ॥ 2.2.30.१३० ॥
हारकेयूरमुकुटग्रैवेयादिकभूषणम् ॥
यथाशक्ति यथास्थानं देवस्याङ्गे निवेशयेत् ॥ ३१ ॥
उपवीतं हरेर्दद्यात्पट्टसूत्रविनिर्मितम् ॥
कार्पासमथवा विप्रा गन्धचन्दनसंस्कृतम् ॥ ३२ ॥
चन्द्रचन्दनकस्तूरीकुङ्कुमैरनुलेपनम् ॥ ३३ ॥
तुलसीदलमालां च जातीपङ्कजचम्पकैः ॥
अशोकच्छुरपुन्नागनागकेसरकेसरैः ॥ ३४ ॥
अन्यैः सुगन्धैः कुसुमैर्माला माल्यमथापि वा ॥
मुक्तकानि च पुष्पाणि दद्याद्देवस्य मूर्द्धनि ॥ ३५ ॥
माला सा प्रपदीनातु माल्यं कण्ठोरुसम्मितम् ॥
गर्भकं केशमध्ये तु मूर्ध्नि पुष्पाञ्जलिं क्षिपेत् ॥ ३६ ॥
सगुग्गुल्वगुरूशीरसिताज्यमधुचन्दनैः ॥
धूपं दद्यात्सुगन्धाढ्यं दीपं गोसर्पिषा शुभम् ॥
कर्पूरगर्भया वर्त्या तिलतैलेन वा ददेत्॥ ३७ ॥
अखण्डितसमुद्धौतं शालितण्डुलनिर्मितम् ॥
सुपक्वमन्नं सुरभि सर्पिषा च सुवासितम् ॥ ३८ ॥
सौरभेयदधिक्षीरपक्वरम्भासितायुतम् ॥
नानाव्यञ्जनसङ्कीर्णं सोपदंशं सपूपकम् ॥ ३९ ॥
नानाफलयुतं हृद्यं सुगन्धं सुरसं नवम् ॥
नैवेद्यं देवदेवस्य प्रस्थादूनं न शस्यते ॥ 2.2.30.१४० ॥
धूपे दीपे च नैवेद्ये स्नानेऽर्घे मधुपर्कके ॥
वस्त्रे यज्ञोपवीते च दद्यादाचमनीयकम् ॥ ४१ ॥
अन्यत्र केवलं वारि संस्कृतं त्वौपचारिकम्।
नैवेद्यान्ते त्वाचमनं दद्याच्च करघृष्टिकम्॥४२॥
सगन्धचन्दनं विप्रास्ताम्बूलं च ददेत्ततः॥
सकर्पूरलवङ्गैलाजातीक्रमुकसंयुतम्॥४३॥
अष्टोत्तरशतं जप्त्वा मूलमन्त्रमनन्यधीः ॥
स्तुत्वा प्रदक्षिणं कृत्वा प्रार्थयेत्पुरुषोत्तमम् ॥ ४४ ॥
देवदेव जगन्नाथ सर्वतीर्थप्रवर्त्तक ॥
सर्वतीर्थमयश्चासि सर्वदेवमय प्रभो ॥४५॥
त्वत्प्रसादान्मया तीर्थराजे स्नानं हि यत्कृतम् ॥
तदस्तु सफलं देव यथोक्तफलदो भव ॥४६॥
सिन्धुराजस्त्वं च विभो द्रवरूपोऽस्यसंशयम् ॥
पापालये निमग्नं मां परित्राहि नमोऽस्तु ते ॥ ४७ ॥
इत्थं प्रपूज्य देवेशं नारायणमनामयम् ॥
तीर्थराजकृतस्नानः सर्वतीर्थफलं लभेत् ॥४८॥
गवां कोटिप्रदानेन क्रतुकोटिकृतेन च ॥
कोटिब्राह्मणभोज्येन महादानैश्च कोटिशः ॥
यत्पुण्यं कर्मिणां प्रोक्तं तदनेन हि लभ्यते ॥ ४९ ॥
ध्यानं दानं तपो जाप्यं श्राद्धं च सुरपूजनम् ॥
सिन्धुराजे कृतं सर्वं कोटिकोटिगुणं भवेत् ॥ 2.2.30.१५० ॥
अपि नः स कुले कश्चित्सिन्धुस्नायी भविष्यति ॥
देवेभ्यश्च पितृभ्यश्च दास्यते च तिलोदकम् ॥ ५१ ॥
क्रन्दन्ति सर्वपापानि सम्भ्रान्ताः सर्वपातकाः ॥
अनिष्टानि पलायन्ते सिन्धुस्नानोद्यतस्य वै ॥ ५२ ॥
अन्यतीर्थे कृतं पापं सिन्धुतीरे विनश्यति ॥
सिन्धुतीरे कृतं पापं सिधुस्नाने विनश्यति ॥ ५३ ॥
सिन्धुस्नानरतं नित्यं दृष्ट्वैव यमकिङ्कराः ॥
दिशो दश पलायन्ते सिंहं दृष्ट्वा यथा मृगाः ॥ ५४ ॥
यमोऽपि भीतस्तं दृष्ट्वा प्रणिपत्य प्रपूज्य च ॥
न शक्नोति तदा स्थातुं तस्याग्रे पुण्यकर्मिणः ॥ ५५ ॥
वाञ्छन्ति देवता नित्यं मानुष्यं प्राप्नुयामहे ॥
सम्यक्छु(छ्रु?)द्धतन्वो भूत्वा सिन्धुस्नानं लभेमहि ॥ ५६ ॥
मेरुमन्दरमात्रोऽपि राशिः पापस्य कर्मणः ॥
सिन्धुस्नानेन दग्धः स्यात्तूलराशिरिवानलात् ॥ ५७ ॥
अप्सु नारायणं देवं स्नानकाले स्मरेत्सदा ॥
साक्षाद्विष्णुस्वरूपेऽत्र सिन्धौ चैव विशेषतः ॥ ५८ ॥
ब्रह्मघ्नो वा सुरापो वा गोघ्नो वा पञ्चपातकी ॥
सर्वे ते निष्कृतिं यान्ति सिन्धुस्नानान्न संशयः ॥ ५९ ॥
कपिलाकोटिदानाच्च सिन्धुस्नानं विशिष्यते ॥
सकृत्सिन्ध्ववगाहेन कुलकोटिं समुद्धरेत् ॥2.2.30.१६०॥
सर्वतीर्थेषु यत्पुण्यं सर्वेष्वायतनेषु च॥
तत्फलं लभते सर्वं सिन्धुस्नानान्न संशयः ॥ ६१ ॥
य इच्छेत्सफलं जन्म जीवितं श्रुतमेव वा ॥
स पितॄंस्तर्पयेत्सिन्धुमभिगम्य सुरांस्तथा ॥ ६२ ॥
चत्वारः सुलभा वेदाः सषडङ्ग पदक्रमाः ॥
सुलभानि कुरुक्षेत्रे दानानि विविधानि च ॥ ६३ ॥
चान्द्रायणानि कृच्छ्राणि तपांसि सुलभान्यपि ॥
अग्निष्टोमादयो यज्ञाः सुलभा बहुदक्षिणाः ॥ ६४ ॥
सिन्धुतोयैश्च सलिलैर्दुर्लभं पितृतर्पणम् ॥
मासं तर्पणमात्रेण पिण्डानां पातनेन च ॥ ६५ ॥
सिन्धौ वै पितरः सर्वे विमानान्सूर्यवर्चसः ॥
सिन्धुतर्पणसन्तुष्टाः श्राद्धपिण्डसुतर्पिताः ॥
आरुह्य सहसा यान्ति ब्रह्मलोकं सनातनम् ॥ ६६ ॥
आद्यन्तयोर्जगन्नाथं पूजयित्वा यथाविधि ॥
तीर्थराजेऽभिषिच्य स्वं नरः स्यान्मुक्तिभाजनम् ॥ ६७ ॥
ततस्तीर्थविसर्गं च कृत्वा शुद्धमनाः पुमान् ॥
रामं कृष्णं सुभद्रां च नत्वा रूपं विचिन्तयेत् ॥ १६८ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे पुरुषोत्तमक्षेत्रमाहात्म्ये त्रिंशोऽध्यायः ॥ ३० ॥