०२६

॥ जैमिनिरुवाच ॥ ॥
निरुत्पातं समे देशे विधिवर्त्तनयापि च ॥
प्रासादनिकटं देवाः प्रापिताः सुमुहुर्त्तके ॥ १ ॥
ततः शालासुमहती रत्नवर्णविनिर्मिता ॥
निदेशादिन्द्रद्युम्नस्य निर्मिता विश्वकर्मणा ॥ २ ॥
सभार्चनायां वस्तूनि हवींषि च समित्कुशाः ॥
भोज्यं नानाविधं गीतनृत्यांश्च विविधांस्तथा ॥ ३ ॥
साम्राज्ये यादृशी पूर्वं सम्पत्तिरभवत्क्षितौ ॥
ततः श्रेष्ठतरा विप्राः प्रतिष्ठायां बभूव ह ॥ ४ ॥
गालोनाम महीपालस्तदा क्षितितलेऽभवत् ॥
सोप्यत्र प्रतिमां कृत्वा माधवाख्यां दृषन्मयीम् ॥ ५ ॥
स्थापयित्वात्र प्रासादे पूजयामास ऋद्धिमत् ॥
कनीयांसं च प्रासादं निर्माय नृपसत्तमः ॥ ६ ॥
तत्र तां स्थापयामास ततो निष्कृष्य सादरम् ॥
ततोऽस्य नृपतिर्दूतमुखाच्छुत्वास्य कर्म तत् ॥ ७ ॥
गालोऽभ्यागात्ससैन्यः सन्क्रुद्धस्तं नीलपर्वतम् ॥
दृष्ट्वा प्रतिष्ठासम्भारं मर्त्यैः स्वप्नेऽपि दुर्लभम् ॥ ८ ॥
विस्मयाविष्टचेताः स तस्थौ गालो नराधिपः ॥
किमेतदिति वृत्तान्तं को वा कारयतीदृशम् ॥ ॥ ९ ॥
यत्नाद्दिव्यं स विज्ञाय इन्द्रद्युम्नं नराधिपम् ॥
ब्रह्मलोकादागतं तं कर्त्तारं देववेश्मनः ॥ 2.2.26.१० ॥
प्रतिष्ठापयितुं देवैः सार्द्धं सम्भारकारकम् ॥
सहितं पद्मनिधिना गुरुणा नारदेन च ॥ ११ ॥
ब्रह्माणं चागमिष्यन्तं प्रतिष्ठायै सुरोत्तमम् ॥
श्रुत्वा सर्वं च वृत्तान्तं तद्राजा दिव्यचेष्टितम् ॥ ॥ १२ ॥
मेने कृतार्थमात्मानं तद्राज्ये परमाद्भुतम् ॥
इतः श्रेयस्करं कर्म न भूतं न भविष्यति ॥ १३ ॥
तदस्य निकटे स्थित्वा ज्ञात्वा कर्मक्रमं विधिम् ॥
उत्सवांश्चापि विज्ञाय करिष्ये प्रतिवत्सरम् ॥ १४ ॥
अमुं दारुमयं साक्षाद्ब्रह्मरूपं जनार्दनम् ॥
अभाग्योपचयादेतावन्तं कालं न जानता ॥ १५ ॥
असेव्यमानेन कृतं जन्मैव विफलं मया ॥
तदेनमिन्द्रद्युम्नं वै प्रणिपत्य जगद्गुरुम् ॥ १६ ॥
महाभागवतश्रेष्ठं ब्रह्मलोकादिहागतम् ॥
उपेत्य शरणं साक्षाद्दृष्ट्वा नारायणं विभुम् ॥ १७ ॥
प्रतिष्ठितं वै प्रासादे मुक्तिमेष्यामि निश्चयम् ॥
वैकुण्ठं स प्रतिष्ठाप्य मय्येवारोपयिष्यति ॥ १८ ॥
ब्रह्मलोकं गतो यो वै किं क्षितौ सोऽवतिष्ठते ॥
उपचारान्समादिश्य कोषं सम्भृत्य च प्रभोः॥ ॥ १९ ॥
ब्रह्मणा सहितोऽवश्यं पुनर्यास्यति तत्क्षयम् ॥
विचार्य मन्त्रिभिः सार्द्धं ततो गालोऽपि वैष्णवः ॥ 2.2.26.२० ॥
इन्द्रद्युम्नस्य निकटं विनीतः प्रययौ मुदा ॥
गत्वा तं दूरतो दृष्ट्वा प्रणिपातपुरःसरम् ॥ २१ ॥
बद्धाञ्जलिपुटो राजा मूर्ध्नि वीक्षन्ससाध्वसम् ॥
शनैः शनैर्ययौ तस्य निकटं गालपार्थिवः ॥ २२ ॥
देव त्वं राजराजोऽसि मर्त्योऽसि ब्रह्मलोकगः ॥
किं स्तौमि नृपकीटोऽहं त्वां जीवन्मुक्तमीश्वरम् ॥ २३ ॥
अज्ञात्वा महिमानं ते सचिवैर्मन्त्रयन्मुहुः ॥
योद्धुमभ्यागतो देव दृष्ट्वा ते पौरुषं महत् ॥ २४ ॥
अतिमानुषमाश्चर्यं पदं चापि शचीपतेः ॥
दृष्ट्वैतन्निश्चितं देव ब्रह्मलोकागतस्य हि ॥ २५ ॥
ईदृशं हि महत्कर्म यदाज्ञाकृन्महानिधिः ॥
चेतः प्रसादप्रवणं मयि धेहि सुरोत्तम ॥ २६ ॥
त्रैलोक्यवासिनो देवा यदाज्ञावशवर्तिनः ॥ २७ ॥
॥ जैमिनिरुवाच ॥ ॥
इत्थं विज्ञापयन्तं तं गालं नृपतिकुञ्जरम् ॥
स्मयमान उवाचेदं राजन्किं बहु भाषसे ॥ २८॥
भवानपि हरेर्भक्तः सार्वभौमो महीपतिः ॥
सामान्यमेतद्राज्ञा वै भूस्वाम्यं भुवि वर्त्तताम् ॥ २९ ॥
साम्प्रतं हि भवानत्र पृथिव्यामेकपार्थिवः ॥
नृपायत्ताः क्रियाः सर्वा मर्त्यानां मरुतामपि॥2.2.26.३०॥
अष्टदिक्पालकांशैस्तु ब्रह्मणा निर्मितो नृपः॥
न ह्यल्पपुण्यकृद्राजा प्रजापालनतत्पर ॥ ३१ ॥
इह कीर्तिं च धर्मश्च यत्र गच्छन्सुवर्त्मनि ॥
प्राप्नोति राजशार्दूल विशेषात्त्वं तु वैष्णवः ॥३२॥
प्रासादे स्थापयेद्यस्तु हरेरर्चां विधानतः॥
न देहबन्धमाप्नोति याति विष्णोः परं पदम् ॥३३॥
माधवप्रतिमामेतां दारवीं शुभलक्षणाम् ॥
साक्षान्मुक्तिप्रदां भूप स्वयं स्थापितवानसि ॥३४॥
निर्विघ्नं कर्म ते जातं मम मन्वन्तरं गतम् ॥
भवेद्वा संशयो मेऽत्र न स्वतन्त्रश्चतुर्मुखः ॥ ३५ ॥
प्रतिष्ठायै प्रार्थितोऽयं तदन्यः स्थापयेत्कथम् ॥
साक्षाद्दार्ववतारस्य प्रासादस्य नृपोत्तम ॥ ३६ ॥
सन्निधानेन चेदत्र विधातानुग्रहिष्यति ॥
तदेनं स्थापयित्वा तु चतूरूपं जनार्दनम् ॥ ३७ ॥
समर्प्य त्वां गमिष्यामि त्वमेवोपचरिष्यसि ॥
नित्योपहारं यात्राश्च उत्सवांश्च जगत्पतेः ॥ ३८ ॥
यानेवोपदिशेद्देवः स्वयं वा प्रपितामहः ॥
तांस्तान्प्रयत्नात्कुर्वीत राजा वै धर्मपालकः ॥ ३९ ॥
ततः स गालो नृपतिः श्रुत्वा तच्चिन्तितं स्वयम् ॥
इन्द्रद्युम्नादिष्टमेतदिति प्राप परां मुदम् ॥ 2.2.26.४० ॥
तस्थौ तस्यान्तिके गाल आज्ञाकार इव स्वयम् ॥
तत्तदाशु करोत्येष इन्द्रद्युम्नो यदादिशत् ॥ ४१ ॥
एवं सम्भृतसम्भारः सिंहासनगतः प्रभुः ॥
देवैः परिवृतश्चेन्द्रद्युम्नः शक्र इवाबभौ ॥ ४२ ॥
ततोऽश्रूयन्त निनदा दिव्यदुन्दुभिजाः शुभाः ॥
मृदङ्गवेणुवीणादि तालकाहालनिःस्वनाः ॥ ४३ ॥
ऐरावतादिकरिणां बृंहितानि बहूनि खे ॥
समन्ताज्जयशब्दाश्च पुष्पवृष्टिविमिश्रिताः ॥ ४४ ॥
आकाशगङ्गासलिलकणा मन्दारमिश्रिताः ॥
दिव्य स्रग्लेपधूपानां गन्धा दिग्व्यापिनस्तथा ॥
वैमानिकानां देवानां किङ्किणीजालनिःस्वनाः ॥ ४५ ॥
ततश्च तेजसां राशी रोदसीमध्यपूरकः ॥
आविरासीत्क्षितिगत नयनाच्छादको द्विजाः ॥ ४६ ॥
उत्तोलिताक्षिमालाभिः प्रजाभिर्वीक्षितः पुरः ॥
ततः क्रमात्स ददृशे विमानाग्र्यं प्रजापतेः ॥ ॥ ४७ ॥
स्वर्णहंसशतैः स्कन्धेनोह्यमानः समन्ततः ॥
दिक्पालैश्चामरव्यग्रहस्तैरासेवितः पुरः ॥ ४८ ॥
जाह्नवीयमुनानीरप्रकीर्णककरेऽभितः ॥
पार्श्वयोश्चन्द्रसूर्याभ्यामुभाभ्यामातपत्रके ॥ ४९ ॥
धार्यमाणे शनैर्वायोर्गतिचञ्चलचोलके ॥
ब्रह्मर्षिभिर्गौतमाद्यैः स्तूयमानो रहस्यकैः ॥ 2.2.26.५० ॥
तन्मध्यस्थः प्रजानाथ इन्द्रद्युम्नादिभिः स्तुतः ॥
आलुलोके देवगणैर्जयशब्दैरभिष्टुतः ॥ ५१ ॥
रम्भादिकाभिर्वेश्याभिर्नृत्यते स्म ससाध्वसम् ॥
हाहाहूहूप्रभृतिभिर्गीयमानश्च गायकैः ॥ ५२ ॥
सिद्धविद्याधरगणैः सादरं चोपवीणितः ॥
कृताञ्जलिपुटैर्दूरात्तपस्विभिरुपासितः ॥ ५३ ॥
सावित्रीशारदे तस्य वाक्प्रबन्धैर्विचित्रकैः ॥
तोषमासादयन्त्यौ च कोऽन्यस्तत्तोषणे क्षमः ॥ ५४ ॥
जाह्नवीयमुनानीर प्रकीर्णित कलेवरः ॥
ये च गन्धर्वसिद्धाद्या नारदप्रमुखा द्विजाः ॥ ५५ ॥
वेत्रहस्ताः सविनया दिव्यसोपानदर्शनाः ॥
सम्मर्दः स महानासीद्देवानां दिवि गच्छताम् ॥ ५६ ॥
न कोऽपि गण्यते देवः को वा केन पथा व्रजेत् ॥
अहम्पूर्विकया तेषां व्रजतां त्रिदिवौकसाम् ॥ ५७ ॥
सम्मर्दातिशयात्तेषां विभ्रंशोऽभूत्स्ववाहनैः ॥
स्रष्टा पाता च संहर्त्ता जगतां यो जगन्मयः ॥ ५८ ॥
साक्षाद्व्रजति तत्रैषां सुराणां महिमा कुतः ॥
तं दृष्ट्वा साध्वसान्नम्रो भक्त्या बद्धाञ्जलिर्नृपः ॥ ५९ ॥
तैर्देवैर्गालराजेन नारदप्रमुखेन च ॥
सहितो धरणीं प्रायात्साष्टाङ्गं प्रणिपत्य च ॥ 2.2.26.६० ॥
उत्थाय परया भक्त्या प्रहृष्टेनान्तरात्मना ॥
पुलकाङ्कितसर्वाङ्गं स्वं मन्वानः कृतार्थकम् ॥ ६१ ॥
पुरतो जगदीशस्य पश्यञ्छुद्धं पितामहम् ॥
कृताञ्जलिपुटो राजा ममज्जानन्दसागरे ॥ ६२ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे पुरुषोत्तमक्षेत्रमाहात्म्ये जैमिनिऋषिसंवादे षड्विंशोऽध्यायः ॥ २६ ॥