॥ जैमिनिरुवाच ॥ ॥
इत्युक्ते नारदः सोऽथ यथाशास्त्रं विचार्य वै ॥
आलेख्य क्रमशः पत्रे राज्ञे तस्मै न्यवेदयत् ॥ १ ॥
राजापि पत्रं तच्छुत्वा सोऽवधार्य पुनःपुनः ॥
प्रददौ पद्मनिधये लिखितान्यत्र यानि वै ॥ २ ॥
सम्पादय पद्मनिधे शालां स्वर्णमयीं कुरु ॥
ब्रह्मणः सदनं दिव्यं ब्रह्मर्षीणां च निर्मलम् ॥ ३॥
इन्द्रादीनां सुराणां च सिद्धानां मर्त्यवासिनाम् ॥
मुनीन्द्राणां निवासाय राज्ञां पातालवासिनाम् ॥ ४ ॥
तथा च नागराजानां निधे त्रैलोक्यवासिनाम् ॥
यथायोग्यासनैर्युक्तं गृहं गृहमतन्द्रितः ॥ ५ ॥
कारयाशु निधे द्रव्यसम्भारं यावदेव तु ॥
विश्वकर्मापि च तव साहाय्यं रचयिष्यति ॥ ६ ॥
इत्यादिशन्तं स मुनिरिन्द्रद्युम्नमुवाच वै ॥
सम्भारान्पृथगेतद्धि कर्त्तव्यं व्यवधानतः ॥ ७ ॥
स्वर्णैः सुघटितं साधुरथत्रयमलङ्कृतम् ॥
दुकूलरत्नमालाद्यैर्बहुमूल्यैर्दृढं महत् ॥ ८ ॥
श्रीवासुदेवस्य रथो गरुडध्वजचिह्नितः ॥
पद्मध्वजः सुभद्राया रथमूर्द्धनि धार्यताम् ॥ ९ ॥
रथः षोडशचक्रस्तु विष्णोः कार्यः प्रयत्नतः ॥
चतुर्दश बलस्यैव सुभद्रायास्तु द्वादश ॥ 2.2.25.१० ॥
हस्तषोडशविस्तारो रथश्चक्रधरस्य तु ॥
चतुर्दश बलस्यैव सुभद्रायास्तु द्वादश ॥ ११ ॥
आसनं जगतां भूयः स्वयं स्वासनविग्रहः ॥
तद्याने जगतां नाशस्ततो यानं न विद्यते ॥ १२ ॥
पश्येच्चराचरं विश्वं ज्ञानादश(थ?) सुनिर्मले ॥
स्थितो हस्ततले नित्यं निर्मलस्तस्य दर्पणः ॥ १३ ॥
तलस्थत्वादसौ तालः सदा तेनाङ्कितः प्रभुः ॥
ततः स एव शेषस्य बलभद्रावतारिणः ॥ १४ ॥
अथवा सीरिणः कार्यं सीरमेव ध्वजोत्तमम् ॥
ध्वजः सुनिर्मलः कार्यस्तस्मात्तालध्वजो मतः ॥ १५ ॥
न वासितव्यो देवोऽसावप्रतिष्ठे रथे नृप ॥
प्रासादे मण्डपे वापि पुरे तन्निष्फलं भवेत् ॥ १६ ॥
तस्मात्प्रतिष्ठा प्रथमं हरेः कार्या रथस्य वै ॥
सम्भारः क्रियतां तस्य ह्यनुष्ठेया मया तु सा ॥ १७ ॥
इत्याज्ञां मत्पितुर्लब्ध्वा शीघ्रमायाम्यहं नृप ॥
तस्य तद्वचनं श्रुत्वा घटितं स्यन्दनत्रयम् ॥ १८ ॥
निधिसम्पादितैर्द्रव्यैरेकाह्नाद्विश्वकर्मणा ॥
स्वक्षं सुचक्रं सुस्तम्भं सुविस्तीर्णं सुतोरणम् ॥ १९ ॥
सुध्वजं सुपताकं च नानाचित्रमनोहरम् ॥
विचित्रबन्धमिथुनपुत्तलीवलयान्वितम् ॥ 2.2.25.२०॥
अर्द्धहाटकनिर्व्यूढं साक्षाद्रविरथोपमम् ॥
मेघगम्भीरनिर्घोषं दृष्ट्वा कर्षगुणैर्युतम् ॥
वातरंहोहयैर्युक्तं शतसङ्ख्यैः सितप्रभैः ॥ २१ ॥
यथाशास्त्रविधानेन नारदेन प्रतिष्ठितम् ॥
सुलग्ने सुमुहूर्ते च सुतिथौ ज्योतिषोदिते ॥ २२ ॥
॥ मुनय ऊचुः ॥ ॥
भगवञ्जैमिने ब्रूहि सर्वज्ञोसि मतो हि नः ॥२३॥
विधिना केन हि रथः प्रतिष्ठाप्यो हरेरयम् ॥
यथावद्वद नो येन जानीमो विधिविस्तरम् ॥ २४ ॥
॥ जैमिनिरुवाच ॥ ॥
यथा प्रतिष्ठितं तेन नारदेन महात्मना ॥
तद्वो वदिष्यामि विधिं यथा दृष्टं पुरा मया ॥ २५ ॥
रथस्येशानदिग्भागे शालां कृत्वा सुशोभनाम् ॥
तन्मध्ये मण्डपं कृत्वा वेदिं तत्र सुनिर्मलाम् ॥२६॥
चतुरस्रा चतुर्हस्तमितां हस्तोच्छ्रितां द्विजाः ॥
प्रतिष्ठापूर्वदिवसे रात्रावुत्तरतः शुभे ॥२७॥
मुहूर्ते स्वस्ति वाच्याथ कारयेदङ्कुरार्पणम् ॥
द्वात्रिंशद्देवताभ्यश्च बलिं दत्त्वा यथाविधि ॥२८॥
प्रातस्ततो वेदिकायां मध्ये मण्डलमालिखेत् ॥
पद्मं वा स्वस्तिकं वापि कुम्भं तत्र निधापयेत् ॥ २९ ॥
पञ्चद्रुमकषायं च तन्मध्ये पूरयेत्सुधीः ॥
गङ्गादिपुण्यतोयानि पल्लवान्स समृत्तिकाः ॥ 2.2.25.३० ॥
सर्वगन्धान्पञ्चरत्नसर्वौषधिगणं तथा ॥
पूरयित्वा विधानेन आचार्यः प्राङ्मुखः शुचिः ॥ ३१ ॥
विष्णुं स्मरन्पञ्चगव्यं पश्चादपि प्रपूरयेत् ॥
दुकूलवेष्टितं कण्ठे माल्यैर्गन्धैः सुशोभनैः ॥ ३२ ॥
फलपल्लवसंयुक्तं कृतकौतुकमङ्गलम् ॥
पूरयेत्तत्र देवेशं नरसिंहमनामयम् ॥ ३३ ॥
मन्त्रराजेनविधिवदुपचारैस्तथान्तरैः ॥
प्रार्थयित्वा प्रसादाय तस्मिन्नावाह्य तं हरिम् ॥ ३४ ॥
बाह्योपचारैर्विविधैः पूजयेद्विधिवद्द्विजाः ॥
वायव्यां तस्य कुम्भस्य समिदाज्यचरुं तथा ॥ ३५ ॥
अष्टोत्तरसहस्रं च जुहुयाद्विधिवद्गुरुः ॥
सम्पातान्प्रापयेत्तत्र कुम्भमध्ये तदन्ततः ॥ ३६ ॥
रथं सुशोभनं कृत्वा पताकागन्धमाल्यकैः ॥
सर्वाङ्गं सेचयेत्तस्य गन्धचन्दनवारिभिः ॥ ३७ ॥
धूपयेत्कालागुरुणा शङ्खकाहालनिस्वनैः ॥
ध्वजे तस्य नृसिंहस्य प्रतिष्ठाप्य समीरणम्॥ ३८ ॥
पूजयित्वा विधानेन रक्तस्रग्गन्धमाल्यकैः ॥
इमं मन्त्रं समुच्चार्य सुपर्णं प्रार्थयेत्ततः ॥ ३९ ॥
यो विश्वप्राणहेतुस्तनुरपि च हरेर्यानकेतुस्वरूपोयं सञ्चित्यैव सद्यः स्वयमुरगवधूवर्गगर्भाः पतन्ति ॥
चञ्चच्चण्डोरुतुण्डत्रुटित फणिवसारक्तपङ्काङ्कितास्यं वन्दे छन्दोमयं तं खगपतिममलं स्वर्णवर्णं सुपर्णम् ॥ 2.2.25.४० ॥
ब्रह्मघोषैः शङ्खनादैर्नानावाद्यसुविस्तरैः ॥
रथमूर्ध्नि स्थापयेत्तं चारुसूक्तं समुच्चरन् ॥ ४१ ॥
तस्योपरिष्टात्तं कुम्भं समन्तात्प्लावयन्रथम्॥
त्रिरुच्चरन्मन्त्रराजं सेचयेद्ब्रह्मणा सह ॥ ४२ ॥
ततः पूर्णाहुतिं दत्त्वा ब्रह्मणे दक्षिणां ददेत् ॥
आचार्यं दक्षिणां दद्याद्येन तुष्यति तद्गुरुः ॥ ४३ ॥
ब्राह्मणान्भोजयेदन्ते पायसैर्मधुसर्पिषा ॥
द्वादशाक्षरमन्त्रेण बलभद्रस्य कारयेत् ॥ ४४ ॥
लाङ्गलं च पविरवन्मन्त्रः स्याल्लाङ्गलध्वजे ॥
अथवा द्विषड्वर्णोपि मूलमन्त्रः प्रकीर्तितः ॥ ४५ ॥
लक्ष्मीसूक्तेन भद्रायाः प्रतिष्ठाप्यो रथस्तथा ॥
नाभिह्रदान्मुरारेस्त्वं ब्रह्माण्डावलिरूपधृक् ॥ ४६ ॥
आसनं चतुरास्यस्य श्रियो वास स्थिरो भव ॥
इम मन्त्रं समुच्चार्य ध्वजपद्मं समुच्छ्रयेत् ॥ ४७ ॥
इयान्विशेषो हविषा त्रयाणां च पृथक्पृथक् ॥
पञ्चपञ्चभिर्होतव्यमेकैकं तु विभागशः ॥ ४८ ॥
इत्थं रथान्प्रतिष्ठाप्य सुवर्णं गां च वस्त्रकम् ॥
धान्यं च दक्षिणां दद्यात्सम्यग्देवस्य भक्तितः ॥ ४९ ॥
एवं प्रतिष्ठिते तत्र स्यन्दनेऽथ सुभूषिते ॥
आरोप्य देवं विधिवद्ब्रह्मघोषपुरःसरम् ॥ 2.2.25.५० ॥
जयमङ्गलशब्दैश्च नानावाद्यपुरःसरैः ॥
चामरान्दोलनैर्धूपैः पुष्पवृष्टिभिरेव च ॥ ५१ ॥
ब्राह्मणैः क्षत्रियैर्वैश्यैर्नीयते स्म रथं प्रति ॥
हयैः सुलक्षणैर्दान्तैर्बलीवर्दैरथापि वा ॥ ५२ ॥
पुरुषैर्विष्णुभक्तैर्वा नेतव्या ह्यप्रमादतः ॥
प्रीणयित्वा जनं सर्वं भक्ष्यभोज्यादिलेपनैः ॥ ५३ ॥
रथस्योपरि देवेभ्यो बलिमन्त्रेण भो द्विजाः ॥
बलिं गृह्णन्तु भो देवा आदित्या वसवस्तथा ॥ ५४ ॥
मरुतश्चाश्विनौ रुद्राः सुपर्णाः पन्नगा ग्रहाः ॥
असुरा यातुधानाश्च रथस्थाश्चैव देवताः ॥ ५५ ॥
दिक्पाला लोकपालाश्च ये च विघ्नविनायकाः ॥
जगतः स्वस्ति कुर्वन्तु दिव्या महर्षयस्तथा ॥ ५६ ॥
अविघ्नमाचरन्त्वेते मा सन्तु परिपन्थिनः ॥
सौम्या भवन्तु तृप्ताश्च दैत्या भूतगणास्तथा ॥ ५७ ॥
ततस्तु नीयते देवः समभूमौ समुच्चरन् ॥
मन्त्रं वैष्णवगायत्रीं विष्णोः सूक्तं पवित्रकम् ॥ ५८ ॥
वामदेव्यैः पवित्रैश्च मानस्तोक्यै रथन्तरैः ॥
ततः पुण्याहघोषेण कृतवादित्रनिःस्वनम् ॥ ५९ ॥
शनैः शनैरथो नेयो रथः स्नेहात्तु चक्रिणः ॥
तत्रोत्पातान्प्रवक्ष्यामि रथेत्र द्विजसत्तमाः ॥ 2.2.25.६० ॥
ईषाभङ्गे द्विजभयं भग्नेऽक्षे क्षत्रियक्षयः ॥
तुलाभङ्गे वैश्यनाशः शम्या शूद्रभयं भवेत् ॥६१॥
धुराभङ्गे त्वनावृष्टिः पीठभङ्गे प्रजाभयम् ॥
परचक्रागमं विद्याच्चक्रभङ्गे रथस्य तु ॥ ६२ ॥
ध्वजस्य पतने विप्रा नृपोऽन्यो जायते धुवम् ॥
प्रतिमाभङ्गतायां तु राज्ञो मरणमादिशेत् ॥ ६३ ॥
पर्यस्ते तु रथे विप्राः सर्वजानपदक्षयः ॥
उत्पन्नेष्वेवमाद्येषु उत्पातेष्वशुभेषु च ॥६४॥
बलिकर्म पुनः कुर्याच्छान्तिहोमं तथैव च ॥
ब्राह्मणान्भोजयेद्भूयो दद्याद्वान्नानि चैव हि ॥ ६५ ॥
पूर्वोत्तरे च दिग्भागे रथस्याग्निं प्रकल्पयेत ॥
समिद्भिर्घृतमध्वाज्यमूलाग्राभिश्च होमयेत् ॥ ६६ ॥
पालाशाभिर्द्विजश्रेष्ठा मन्त्रराजेन दीक्षितः ॥
सोमायाग्नये प्रजाभ्यः प्रजानां पतये तथा ॥ ६७ ॥
ग्रहेभ्यश्च ब्रह्मणे च दिक्पालेभ्यस्तदन्ततः ॥
यत्र यत्र रथे दोषास्तत्र तत्र च दीक्षितः ॥ ६८ ॥
जुहुयात्प्रतिष्ठामन्त्रेण विशेषः सर्वतो भवेत् ॥
ब्राह्मणैः सहितः कुर्याद्धोमान्ते शान्तिवाचनम् ॥६९॥
स्वस्ति भवतु विप्रेभ्यः स्वस्तिराज्ञेऽस्तु नित्यशः ॥
गोभ्यः स्वस्ति प्रजाभ्यस्तु जगतः शान्तिरस्तु वै ॥ 2.2.25.७० ॥
स्वस्त्यस्तु द्विपदे नित्यं शान्तिरस्तु चतुष्पदे ॥
शं प्रजाभ्यस्तथैवास्तु शं तथात्मनि चास्तु नः ॥७१॥
शान्तिरस्तु च देवस्य भूर्भुवः स्वः शिवं तथा ॥
शान्तिरस्तु शिवं चास्तु सर्वतः स्वस्तिरस्तु नः ॥ ७२ ॥
त्वं देव जगतः स्रष्टा पोष्टा चैव त्वमेव हि ॥
प्रजाः पालय देवेश शान्तिं कुरु जगत्पते ॥७३॥
यात्राकारणभूतस्य पुरुषस्य च भूपते ॥
दुष्टान्ग्रहांस्तु विज्ञाय ग्रहशान्तिं समाचरेत् ॥ ७४ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे पुरुषोत्तमक्षेत्रमाहात्म्ये पञ्चविंशोऽध्यायः ॥ २५ ॥