०२३

॥ नारद उवाच ॥ ॥
दौवारिकाय राजर्षिरिन्द्रद्युम्नो महायशाः ॥
सार्वभौमो वैष्णवाग्र्यो धातारं द्रष्टुमागतः ॥ १ ॥
यात्वयं पुरतस्तस्य यदि त्वमनुमन्यसे ॥
इत्युक्तस्तं पुनः प्राह नारदं मणिकोदरः ॥ २ ॥
स्वामिंस्त्वयागतो योऽसौ न सामान्यो हि बुध्यते ॥
यत्र पश्यसि दिक्पालान्पितॄन्मन्वन्तराधिपान् ॥ ३ ॥
तत्रायं मर्त्त्यनिलयस्तिष्ठेदपि हि पौरुषम् ॥
भवान्गत्वा पद्मयोनिं विज्ञाप्यैनं प्रवेशय ॥ ४ ॥
सभाद्वारगतो योऽसौ दिक्पालैः सह यास्यति ॥
एकाग्रचित्तो भगवान्गायने चतुराननः ॥ ५ ॥
अस्माकं द्वारि युक्तानां प्रतीक्ष्योऽवसरो ध्रुवम् ॥
न क्रोधो मयि कर्त्तव्यो दासे तव पितुश्च ते ॥६॥
इत्युक्तो नारदो गत्वा ब्रह्माणं जगतां पतिम् ॥
नत्वा साष्टाङ्गपतनं विज्ञप्तो वसुधाधिपः ॥ ७ ॥
कटाक्षेणादिशत्सोऽथ इन्द्रद्युम्नप्रवेशनम् ॥
नोवाच किञ्चिद्भगवान्गाने दत्तावधानतः ॥ ८ ॥
दिव्यगायनसङ्गीते कौतुकाविष्टमानसः ॥
ज्ञात्वेङ्गितं नारदोऽथ इन्द्रद्युम्नं नृपोत्तमम् ॥
प्रवेशयामास ततः शक्राद्यैः सुनिरीक्षितः ॥ ९ ॥
दृष्ट्वा पितामहं दूरात्स्रष्टारं जगतां नृपः ॥
अमन्यत द्विजश्रेष्ठाः साक्षाद्दारुमयं हरिम् ॥ 2.2.23.१० ॥
शनैः शनैर्ययौ भूपः प्रणमंश्च कृताञ्जलिः ॥
स्तुवन्नमन्प्रणिपतन्साध्वसस्खलितं व्रजन् ॥
किञ्चिद्दूरे स्थितो भूपो नारदस्य निदेशतः ॥ ११ ॥
ततः पुण्यं गीयमानं चरितं सिन्धुजापतेः ॥
शृण्वंश्चतुर्मुखस्तस्थौ मुहू्र्त्तं द्विजपुङ्गवाः ॥ १२ ॥
सावित्रीशारदाभ्यां च वीज्यमानस्तु पार्श्वयोः ॥
शुद्धदेहधरैर्वेदैः स्तूयमानः स्वयम्भुवः ॥ १३ ॥
कलाकाष्ठानिमेषादि कल्पयन्युगपर्ययम् ॥
न जराजन्ममरणं रूपादिपरिणामनम् ॥ १४ ॥
यस्य लोकगतानां वै नाधयो व्याधयस्तथा ॥
मन्वतरादयो यत्र युगावर्त्तादयस्तथा ॥ १५ ॥
कल्पान्ताद्या न विद्यन्ते स साक्षात्परमेश्वरः ॥
गीतावसाने तं भूपमुवाच प्रहसन्निव ॥ १६ ॥
इन्द्रद्युम्न महासत्त्व साक्षात्त्वं भगवत्प्रियः ॥
अन्यस्य दुर्लभो लोकः सत्याख्यो विदितस्तव ॥ १७ ॥
अत्रागतिं हि वाञ्छन्तो मुनयः क्षीणकल्मषाः ॥
तपोनिष्ठाश्च तिष्ठन्ति यावदाभूतसम्प्लवम् ॥ १८ ॥
चतुर्दशसु लोकेषु सृष्टानां प्राणिनां हि यत् ॥
चैतन्यादिविचित्राणि सर्वेषामाश्रयो ह्यसौ ॥ १९ ॥
जानन्नपि हि तत्कार्यं मानयन्नृपसत्तमम् ॥
उवाच परमप्रीत इन्द्रद्युम्नं पितामहः ॥ 2.2.23.२० ॥
किमर्थमागतोस्यत्र तद्ब्रूहि हृदयस्थितम् ॥
मयि दृष्टे न दुष्प्रापममृतं किन्नु वाञ्छितम् ॥ २१ ॥
॥ इन्द्रद्युम्न उवाच ॥ ॥
अन्तर्यामिन्हि भगवंस्त्वदज्ञातं कुतो भवेत्॥
तथापि प्रश्नो यो नाथ मय्यनुक्रोश एव सः ॥ २२ ॥
मूर्ध्न्याधाय तवानुज्ञां कथितं तव सूनुना ॥
इष्टाः सहस्रं क्रतवस्तदन्ते दारुदेहभृत्॥ २३ ॥
आविर्बभूव भगवान्भूतभव्यभवत्प्रभुः ॥
त्वदनुग्रहसम्पत्तिवशादेवावलोकयन् ॥ २४ ॥
तादृशं पुण्डरीकाक्षं येन त्वल्लोकमागतः ॥
यस्यारब्धो मया देव प्रासादस्तत्र चेत्स्वयम् ॥ २५ ॥
गत्वा देवं जगन्नाथं स्थापयिष्यसि चेत्प्रभो ॥
त्वदनुग्रहस्तु सफलो भवेन्मे लोकभावन ॥। ॥ २६ ॥
एतदर्थं जगत्स्वामिन्नारदेन सहाधुना ॥
त्वत्पादपद्मयुगलं द्रष्टुं त्वल्लोकमागतः ॥ २७ ॥
प्रसीद मां कुरुष्वेदं जगन्नाथस्त्वमेव हि ॥
त्वमेव स जगन्नाथो न भेदो युवयोर्विभो ॥२८ ॥
स्थाप्यः स्थापयिता चासि वेद्यो वेदयिता भवान् ॥ २९ ॥
॥ जैमिनिरुवाच ॥ ॥
एवं विज्ञापनान्ते तु दुर्वासा स महामुनिः ॥
प्रणम्य साष्टाङ्गपातं कृताञ्जलिरुपस्थितः ॥
प्रोवाच विनयान्नीचो धातारं जगतां गुरुम् ॥ 2.2.23.३० ॥
विभो द्वारप्रवेशेऽत्र दौवारिकनिवारिताः ॥
लोकपालाः सपितरस्तथा मन्वन्तराधिपाः ॥ ३१ ॥
तिष्ठन्ति दीनजनवत्सुचिराल्लोकभावन ॥
तदाज्ञापय पश्यन्तु तव पादसरोरुहम् ॥ ३२ ॥
तच्छ्रुत्वा देवदेवस्तु तदा दुर्वाससो वचः ॥
प्रहस्य वचनं प्राह नैषां प्रस्ताव एव हि ॥ ३३ ॥
इन्द्रद्युम्नेन स्पर्द्धन्ते किं तु मोहवशानुगाः ॥
जीवन्मुक्तोऽयं नृपतिः क्षीणकर्माघसंहतिः । ३४ ॥
मत्सन्ततेः पञ्चमोऽयं वैष्णवो विष्णुतत्परः ॥
एते हि सुखभोगाय कर्मणा प्राप्तपौरुषाः ॥ ३५ ॥
अत्रागतिं प्रार्थयन्तस्तपस्तप्त्वा हि देवताः ॥
ममानुग्रहत एते आयाता मदुपासने ॥ ३६ ॥
तथापि त्वदनुज्ञाता आयान्तु मम दर्शने ॥
ततः प्रविष्टास्ते देवा दुर्वासोवचनेन वै ॥ ३७ ॥
दूरात्प्रणेमुर्ब्रह्माणं गायनानां समीपतः ॥
इन्द्रद्युम्नं नरपतिं संलपन्तं कृताञ्जलिम्॥ ३८ ॥
ताल्ँलोकपालान्प्रणतान्कटाक्षेण जगत्प्रभुः ॥
अनुजग्राह कथयन्निन्द्रद्युम्नं ससादरम् ॥ ३९ ॥
राजन्कृतस्त्वया सत्यं प्रासादो भगवत्स्थितौ ॥
नायं कालस्तथा राज्यं न वा त्वत्सन्ततिर्नृप ॥ 2.2.23.४० ॥
गीतगानावसरतो भूयान्कालो गतस्तव ॥
मन्वन्तरो हि दिव्यानां युगानामेकसप्ततिः ॥ ४१ ॥
तव वंशोऽपि विच्छिन्नः कोटिशः क्षितिपा गताः ॥
देवोंऽतिमश्च प्रासादो द्वयमत्रावशिष्यते ॥ ४२ ॥
द्वितीयस्य मनोरादियुगं स्वारोचिषस्य तु ॥
ममान्तिकेऽत्र वसतोमृत्युर्वा न जरा तथा ॥ ४३ ॥
विपर्ययमृतूनां वा न कालपरिणामता ॥
तद्गच्छ भूमौ राजेन्द्र देवं प्रासादमेव च ॥ ४४ ॥
आत्मसम्बन्धिनं कृत्वा पुनरायाहि वेगवान् ॥
अथवाहं प्रयास्यामि तवानुपदमेव हि ॥ ४५ ॥
त्वमग्रतो धरां गत्वा यावत्सम्भारमृद्धिमत् ॥
करिष्यसि महाभाग तावदेव व्रजाम्यहम् ॥ ४६ ॥
इत्याज्ञाप्येन्द्रद्युम्नं तं भगवान्स पितामहः ॥
देवान्पुरःस्थितानाह विनयानतकन्धरान् ॥ ४७ ॥
बद्धाञ्जलीन्साध्वसांस्तांस्तत्पादन्यस्तवीक्षणान् ॥
उवाच भगवान्स्निग्धगम्भीरवचसा द्विजाः ॥ ४८ ॥
किमर्थमागताः सर्वे युगपत्तु दिवौकसः ॥
यत्कार्यं वो मया कार्यं विज्ञापयत मा चिरम् ॥ ४९ ॥
॥ जैमिनिरुवाच ॥ ॥
इति श्रुत्वा वचो धातुस्त्रिदशा विगतज्वराः ॥
प्रत्यूचुर्हर्षिताः सर्वे भगवन्तं पितामहम् ॥ 2.2.23.५० ॥
॥ देवा ऊचुः ॥ ॥
उपासितः पुरास्माभिर्यो नीलाद्रौ मणीमयः ॥
अन्तर्हितः कथं देव इदानीं दारुदेहधृक् ॥ ५१ ॥
आविर्भूतः क्रतोरन्त इन्द्रद्युम्नस्य भूपतेः ॥
एतस्य कारणं ज्ञातुं भवतः पादपङ्कजम् ॥ ५२ ॥
आराधितुमिहायाताः प्रसीद कथयस्व तत् ॥
इत्युक्ते त्रिदशैर्देवो भगवान्पङ्कजासनः ॥ ५३ ॥
रहस्यमेतद्भो देवाः कस्यचिन्नोदितं पुरा ॥
सर्वे समुदिता यस्मादपृच्छत चिरागताः ॥ ५४ ॥
ततो वः कथयिष्यामि सुराणां गुह्यमुत्तमम् ॥
पूर्वे परार्द्धे भो देवाः क्षेत्रं श्रीपुरुषोत्तमम् ॥ ५५ ॥
नीलाश्मवपुरास्थाय न तत्याज जनार्दनः ॥
साम्प्रतं मे द्वितीयं तु परार्द्धं समुपस्थितम् ॥ ५६ ॥
मनुः स्वायम्भुवो नाम श्वेतवाराहकल्पके ॥
प्रवर्त्ततेऽयं कालो वै प्रातराद्यदिनस्य च ॥ ५७ ॥
दारुमूर्तिरयं देवो भुवनानां हि मध्यमे ॥
ममायुषः प्रमाणं तु स्थास्यते मानयन्प्रभुः ॥ ५८ ॥
ममात्मा एष भगवानहमेतन्मयः सुराः ॥
नावयोर्विद्यते किञ्चिदस्मिन्स्थावरजङ्गमे ॥ ५९ ॥
क्षीरोदार्णवमध्ये हि श्वेतद्वीपे हि तल्पके ॥
यः शेते योगनिद्रां तां मानयन्पुरुषोत्तमः ॥ 2.2.23.६० ॥
स मूलं जगतामादिस्तस्य रोमाणि यानि वै ॥ तानि कल्पद्रुमाख्यानि शङ्खचक्राङ्कितानि वै ॥ ६१ ॥
तन्मध्यस्थो ह्ययं वृक्षश्चैतन्याधिष्ठितः सुराः ॥
स्वयमुत्पतितः सिन्धोः सलिले सत्यपूरुषः ॥ ६२ ॥
भोगान्भोक्तुं त्रिलोकस्थान्दारुवर्ष्मा जनार्दनः ॥
अनेकजन्मसाहस्रैर्भक्तियोगेन भावितः ॥ ६३ ॥
घोरसंसारनाशाय मया पूर्वं प्रयाचितः ॥
पुनः पुनः सृष्टिलीनपालनोद्विग्नचेतसा ॥ ६४ ॥
अशेषकर्मनाशाय जगतां सर्वमुक्तये ॥
धारणाध्यानयोगानां दुष्कराणां विनापि सः ॥ ६५ ॥
मोक्षाय भगवानाविर्बभूव पुरुषोत्तमः ॥
प्रच्छन्नं वपुरेतस्य क्षेत्रं नास्य विचारयेत् ॥ ६६ ॥
धर्मिग्राहप्रमाणेन यादृग्दृष्टः स एव सः ॥
चतुर्वर्गप्रदो देवो यो यथा तं विभावयेत् ॥ ६७ ॥
तद्दर्शनपरिक्षीणपापसङ्घाः क्रमाद्भुवि ॥
भवन्ति निर्मलात्मानः पुरुषा मुक्तिभाजनम् ॥ ६८ ॥
॥ जैमिनिरुवाच ॥ ॥
एतच्छ्रुत्वा तु ते देवाः पद्मयोनेर्वचोमृतम् ॥
हृष्टाः सञ्चिन्तयामासुः प्रहृष्टेनान्तरात्मना ॥ ६९ ॥
अचिरस्थायि देवत्वं विहायैतद्भुवं गताः ॥
अस्मिन्क्षेत्रवरे देवमाराध्यामः सुसंयताः ॥ 2.2.23.७० ॥
हर्षप्रफुल्लवदनान्सुरान्दृष्ट्वा पितामह ॥
इन्द्रद्युम्नानुग्रहाय यः प्रकाशं गतः प्रभुः ॥ ७१ ॥
याताऽत्र प्रतिमा त्वस्य स्वयमेव वदिष्यति ॥
वरान्प्रदास्यति बहून्भगवान्भक्तवत्सलः ॥ ७२ ॥
प्रासादमिन्द्रद्युम्नस्य प्रतिष्ठापयितुं विभुम् ॥
अहं चापि गमिष्यामि यूयं तत्र प्रयात वै ॥ ७३ ॥
इन्द्रद्युम्नोऽग्रतो यातु प्रतिष्ठावस्तुसम्भृतौ ॥
सहायास्तत्र भवत यूयं क्षीणाधिकारिणः ॥ ७४ ॥
मन्वन्तरं व्यतीतं वै प्रथमं साम्प्रतं सुराः ॥
इन्द्रद्युम्नेन सहितास्तत्र गत्वा सुरोत्तमाः ॥ ७५ ॥
प्रासादप्रतिमानां च विधर्ता स्वाम्यमस्य वै ॥
तस्मात्सम्भृतसम्भारः ससहायोऽधुना ह्यसौ ॥ ७६ ॥
अस्य सन्ततिसम्बन्धस्मरणादपि भूतले ॥
मदाज्ञया पद्मनिधिः सह यास्यति भूतलम् ॥ ७७ ॥
प्रतिष्ठायै भगवतः संयतौ सर्ववस्तुनः ॥
इन्द्रद्युम्नोऽपि हृष्टात्मा दृष्ट्वा ब्राह्मीं श्रियं द्विजाः ॥ ७८ ॥
महदाश्चर्यसम्पन्नः प्रणिपत्य जगद्गुरुम् ॥
तदाज्ञां शिरसा धृत्वा देवैः क्षीणाधिकारिभिः ॥ ७९ ॥
आजगाम भुवं विप्रा विधिना चानुमोदिताः ॥ 2.2.23.८० ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे पुरुषोत्तमक्षेत्रमाहात्म्ये जैमिनिऋषिसंवादे त्रयोविंशोऽध्यायः ॥ २३ ॥