॥ जैमिनिरुवाच ॥ ॥
इति ब्रुवाणं राजर्षिं कश्चिदृग्वेदपारगः ॥
वेदान्तविज्ज्ञानशीलो द्विजो वाक्यं मुदा जगौ ॥ १ ॥
अहो तवायं खलु भाग्यराशिर्येनाविरासीद्भुवि दारुमूर्तिः ॥
यस्यात्युपास्तिं श्रुतिराह मुक्तिप्रदामनात्मज्ञविमोहितानाम्॥ २ ॥
य एष प्लवते दारुः सिन्धोः पारे ह्यपौरुषम् ॥
तमुपास्य दुराराध्यं मुक्तिं यान्ति सुदुर्लभाम् ॥ ३ ॥
ब्रह्मज्ञाननिधिः साक्षान्नारदः प्रत्युवाच यत् ॥
न हि वेदान्तवचसोऽपरस्माज्ज्ञानमस्य वै ॥ ४ ॥
न हि प्रवृत्तिर्विष्णोस्तु विना वेदं प्रवर्तते ॥
परेषां स्वस्य वा सृष्टौ श्रुतिप्रामाण्यवान्प्रभुः ॥ ५ ॥
विना श्रुतिं प्रवर्तेच्चेत्कस्तत्प्रामाण्यमृच्छति ॥
तस्माच्छ्रुतिप्रसिद्धोऽयमवतारोऽत्र भूपते ॥६॥
वेदान्तवेद्यं पुरुषं गीतं तं सामगीतिषु ॥
प्रतिमां न तु जानीहि निःश्रेयसकरं नृणाम् ॥ ७ ॥
दर्शनादेव नः शान्तं सुदृढं तम उत्तमम् ॥
सन्त्येव श्रुतयः पूर्वमेतदर्चाप्रकाशिकाः ॥ ८ ॥
एतदर्चा प्रशस्ता वै सदर्थे विनियोजिता ॥
अहो भारतवर्षस्था मनुष्याः क्षीणकल्मषाः ॥ ९ ॥
अपवर्गप्रदो येषामाविरासीज्जनार्दनः ॥
तत्राप्ययं चोढ्रदेशः सर्वेषामुत्तमोत्तमः ॥ 2.2.21.१० ॥
यत्रस्थाश्चर्मनेत्रेण पश्यन्ति ब्रह्मरूपिणम् ॥
श्रुतिस्मृतीनां गहनः पन्था कर्मभिराकुलः ॥ ११ ॥
येन याता भ्रमन्तीह घटीयन्त्रवदाकुलाः ॥
निर्व्यलीकपदप्राप्तिहेतुरेष स चिन्मयः ॥ १२ ॥
श्रुत्यादिभिर्विनोपायैः परमानन्दमुक्तिदः ॥
निरन्तरगतायातदुःस्थितानां दुरात्मनाम्॥ १३ ॥
एष दारुवपुर्विष्णुः सुखदाता सुबान्धवः ॥
श्रुतिस्मृत्युक्तनियमा वर्तन्ते नेह पार्थिव ॥ १४ ॥
यथा तथा दृष्टिपथमाचाण्डालाद्विमुक्तिदः ॥
अभक्तश्चेदमुं पश्येद्गतानुगतिको नरः ॥ १५ ॥
अश्वमेधसहस्राणां फलं ह्यविकलं लभेत् ॥
भजेच्चेन्नियमस्थो हि भक्तिमान्दृढमानसः ॥ १६ ॥
असंशयं स सायुज्यं ब्रह्मणा लभते नरः ॥
क्व दुःखायासबहुलमनायासविनश्वरम् ॥ १७ ॥
अचिरस्थं क्षुद्रफलं पुनरावृत्तिलक्षणम् ॥
क्वेदं दारुमयं ब्रह्म पापराशिदवानलम् ॥ १८ ॥
सच्चिदानन्दकैवल्यमुक्तिदं दर्शनादपि ॥
वेदानुवचनादीनि दुष्कराणि दुरात्मनाम् ॥ १९ ॥
महात्मभिस्तैर्यत्प्राप्यं तदव्यग्रमयं ददेत् ॥
अन्यक्षेत्रेषु भगवान्सुदूरो मर्त्यवासिनाम् ॥2.2.21.२०॥
स्वक्षेत्रेऽस्मिन्निवसति नित्यं मुक्तिप्रदो विभुः ॥
अस्मादत्र महाभाग तिष्ठ स्वबलपौरुषः ॥ २१ ॥
विद्वत्तमोऽसि भक्तश्च साङ्गोपाङ्गममुं भज ॥ २२ ॥
॥ जैमिनिरुवाच ॥ ॥
द्विजस्य तद्वचः श्रुत्वा नारदो हृष्टमानसः ॥
साधूक्तं द्विजवर्येण श्रौतमार्गानुसारिणा ॥ २३ ॥
सृष्ट्यादौ ब्रह्मनिश्वासैरभवद्वेदसंहतिः ॥
तत्रोपनिषदर्थोऽयं साम्प्रतं व्यक्तिमागतः ॥ २४ ॥
वेत्त्येतदर्थं भगवान्पद्मयोनिः प्रजापतिः ॥
अज्ञासिषं च भूपाल साम्प्रतं तन्मुखादहम् ॥ २५ ॥
तस्याज्ञया कृतं सर्वं यथाभिलषितं तव ॥
एनमाराध्य तिष्ठात्र याम्यहं ब्रह्मणोंऽतिकम् ॥ २६ ॥
कृतं निवेदयिष्यामि प्रकाशं च मुरद्विषः ॥
प्रासादं कुरु भूपाल धनेन महता तथा ॥ २७ ॥
प्रासादे नरसिंहं तु प्रतिष्ठाप्य विमुच्यसे ॥ २८ ॥
॥ जैमिनिरुवाच ॥ ॥
तच्छ्रुत्वा स तु भूमीन्द्रः प्रत्युवाच मुनिं तदा ॥
महर्षेऽहं त्वया सार्द्धं यियासुर्ब्रह्मणोंऽतिकम् ॥ २९ ॥
यत्प्रसादाज्जगन्नाथश्चकेऽयं लोचनातिथिः ॥
निवेद्य तं च प्रासादं प्रतिष्ठार्थं मुरद्विषः ॥ 2.2.21.३० ॥
विज्ञापयिष्ये सान्निध्ये प्रासादस्थापनोत्सवम् ॥
यथा स्वयं समागम्य ब्रह्मलोकात्पितामहः ॥ ३१ ॥
महोत्सवं भगवतः प्रासादेऽत्र करिष्यति ॥
तन्मुने मामपि विधेः सन्निधिं प्रापयस्व च ॥ ३२ ॥
गर्भप्रतिष्ठां प्रासादे समाप्येह स्थितो मुने ॥
पश्चादावां गमिष्यावः कञ्चित्कालं प्रतीक्ष मे ॥ ॥ ३३ ॥
ततः स नृपतिः सर्वाञ्छिल्पशास्त्रविशारदान् ॥
पाषाणखण्डघटनाकर्मण्येकैकयोगतः ॥ ३४ ॥
सत्कारैर्दानमानैश्च योजयामास सादरम् ॥
दिने दिने सुघटितः प्रासादो ववृधे द्विजाः ॥ ३५ ॥
परितः पूर्यमाणस्तु शुक्लपक्षे यथा शशी ॥
एवं संवर्ध्यमानोऽपि प्रासादः परिवर्द्धितः ॥ ३६ ॥
महोच्छ्रयत्वादल्पेन न कालेनाभिलक्ष्यते ॥
पाषाणसङ्ख्या शक्या वा कथञ्चिद्घटनाक्रमात् ॥ ३७ ॥
वित्तव्ययस्तु कोटीनां न सङ्ख्यातुं च शक्यते ॥
यावन्तो भारते वर्षे लोकाः समयवर्तिनः ॥ ३८ ॥
इन्द्रद्युम्नस्य नृपतेर्नियुक्तास्ते महीभृतः ॥
एकैकशो नियुक्ता ये परस्परसमन्विताः ॥३९॥
तेऽपि चान्यैर्नियुक्तास्ते सर्वे तत्र प्रवर्तिताः ॥
अजस्रं तन्नियुक्तानां यो हर्षोत्थो महारवः ॥ 2.2.21.४० ॥
आकाशमश्नुवानोऽसौ दिशां भागानपूरयत् ॥
नृपतेः श्रद्धया भक्त्या सात्त्विकेन प्रसादिता ॥ ४१ ॥
श्रीः समृद्धाभवद्विप्राः कीर्त्या सह महीपतेः ॥
क्वचित्काञ्चनविन्यस्तनानारत्नमहोज्ज्वलः ॥ ४२ ॥
क्वचित्स्फटिकभागान्तशारदाभ्रनिभच्छविः ॥
क्वचिन्नीलाश्मघटिता भित्तिः कालाभ्रमेदुरा ॥ ४३ ॥
एवं सुघटिते विष्णोः प्रासादे सुमनोहरे ॥
गर्भप्रतिष्ठां विधिवत्कृत्वा स नृपसत्तमः ॥ ४४ ॥
वज्रपातादिभङ्गादिवारणार्थं यथोचितम् ॥
शिल्पशास्त्रेषु मण्यादि विन्यस्य पौरुषाहृतम् ॥ ४५ ॥
पुनः प्रासादघटनासम्भारोचितमेव वै ॥
बहुमूल्यं वस्तुजातं यत्नात्तत्र न्यवेशयत् ॥ ४६ ॥
ततो विरच्यमानेऽस्मिन्प्रासादे कीर्तिवर्द्धने ॥
मनसापि न सम्भाव्ये त्रिषु लोकेषु भूभुजाम् ॥ ४७ ॥
देवानामपि नो लक्ष्ये द्विजाः कल्पान्तवासिनाम् ॥
प्रासाद ईदृशो भूमौ क्वचिच्च घटितो न हि ॥ ४८ ॥
स्वर्गे वा इत्थमादित्या आलपन्ति परस्परम्॥
अहो सुबुद्धिरस्योच्चैर्येयमीदृक्परीणता ॥ ४९ ॥
श्रद्धया भगवत्पादपद्मयोः साभिलाषिणी ॥
अलौकिकानि कर्माणि पश्यन्ति हि रचन्त्यपि ॥ 2.2.21.५० ॥
के वात्र भूमौ राजानो बभूवुर्नीतिशालिनः ॥।
सार्वभौमास्तु साम्राज्यजेतारः सर्वविद्विषाम् ॥ ५१ ॥
वित्तानि यैः सञ्चितानि सुबहूनि च कोटिशः ॥
अश्वमेधसहस्रं तु यत्कृतं त्रिदिवेशितुः ॥ ॥५२॥
शक्यं वा स्याद्भूभुजां तु नातः पूर्वमनुष्ठितम्॥
न दृष्टं न श्रुतं वापि वाजिमेधसहस्रकम्॥५३॥
महीक्षितानुष्ठितं वै यत्र त्रैलोक्य वासिनः॥
पृथिव्यामस्य नृपतेः सहस्था भोगभोगिनः॥५४॥
ब्रह्मलोक इवाभाति सभ यस्य च यज्विनः॥
मूर्तिमन्तस्त्रयो वेदाश्चतुष्पादो वृषस्तथा ॥ ५५ ॥
सुराः सङ्कल्पकामास्तु यत्राद्भुतधियोऽभवन् ॥
अयं प्रासादवर्यो वै बुद्धेर्विषयतां गतः ॥ ५६ ॥
मनोऽपि यत्र भवति न वा त्रैलोक्यवासिनाम् ॥
भूपतेर्दुर्लभं किं स्यात्सहायो यस्य नारदः ॥ ५७ ॥
पितामहश्च जगतां स्रष्टा सर्वामरेश्वरः ॥
अथवा विष्णुभक्तस्य नातिदूरं चिकीर्षितम् ॥ ५८ ॥
विष्णोस्तद्भक्तलोकस्य नान्तरं विद्यते द्विजः ॥
ततः स नारदं प्राह प्रासादान्ते मुनीश्वरम् ॥ ५९ ॥
सर्वं सपन्नमासीन्मे यदशक्यं सुरासुरैः ॥
साक्षाद्भगवतो विष्णोरद्वैतोपासनारतः ॥ 2.2.21.६० ॥
भगवद्वपुराभाषि प्रासादस्तु चिरं मयि ॥
इत्युक्त्वा पादयोर्मूर्ध्ना प्रणनाम स नारदम्॥ ६१॥
नारदोऽपि तमुत्थाप्य परिपूज्य नृपोत्तमम्॥
त्वत्तो न भेदो नृपते ममास्ति खलु तत्त्वतः॥६३॥
यस्तु साक्षाज्जगन्नाथ आविर्भूतः कृतेन वा॥
अवश्यमर्चयस्वैनं जीवन्मुक्तोऽसि साम्प्रतम्॥६३॥
तत्पादपद्मे यादृक्ते चेतः प्र प्रवणतान्वितम्॥
भक्त्या ह्यनन्यया पुंसः किमतः परमस्ति वै॥६४॥
तीर्थैर्मन्त्रैर्जपैर्दानैः क्रतुभिर्भूरिदक्षिणैः॥
व्रतैरध्ययनैर्भूप तपोभिश्च यदर्जितुम्॥ ६५॥
न शक्यं तव राजेन्द्र भक्त्या तत्करमागतम् ॥
अतः परं न शोचस्व भक्तियोगे नमोऽस्तु ते ॥ ६६ ॥
प्रकर्षं बहुराजेन्द्र स्थित्वा चास्मिंश्चिरं भुवि ॥
आराधय जगन्नाथमुपचारैर्महोत्सवैः ॥ ६७ ॥
पितामहं द्रष्टुकामो गन्ता चेदन्तिकं विभोः ॥
उपदेक्ष्यति सोऽप्यस्य यात्रास्तास्ता महोत्सवाः ॥ ६८ ॥
स्वयं च भगवानेव वरं तुभ्यं प्रदास्यति ॥
प्रतिष्ठापिते प्रासादे तस्मिन्काले स्वयम्भुवा ॥ ६९ ॥
अहमप्यागमिष्यामि तदा सप्तर्षिभिः सह ॥
तदावां तत्र गच्छावो ब्रह्मलोकमकल्मषम् ॥ 2.2.21.७० ॥
त्वां विना भुवि कः शक्तो ब्रह्मलोकगतिं प्रति ॥
इत्युक्त्वा नारदो भूपं समुत्तस्थौ नभस्तलम् ॥ ७० ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे पुरुषोत्तमक्षेत्रमाहात्म्ये जैमिनिऋषिसंवाद एकविंशोऽध्यायः ॥ २१ ॥