॥ जैमिनिरुवाच ॥ ॥
ततः स पृथिवीपालस्तथा कृत्वांऽतरिक्षगा ॥
यदुवाच गिरां देवी तद्वत्परिचचार ह ॥ १ ॥
एवं दिनेदिने याते दिव्यगन्धोऽनुभूयते ॥
पारिजातप्रसूनानां वृष्टिर्मर्त्येषु दुर्लभा ॥ २ ॥
दिव्यसङ्गीतनादश्च गीतानि रुचिराणि च ॥
स्वर्गङ्गाजलवृष्टिश्च सूक्ष्मबिन्दुसुशोभना ॥ ३ ॥
ऐरावतादिनागानां मदगन्धो वनद्विपैः ॥
दुःसहः सर्वभूतानां सुखकार्यनुभूयते ॥ ४ ॥
यज्ञार्थमागता देवास्ते सर्वे विगतज्वराः ॥
आविर्भूतं हरिं दृष्ट्वा उपासाञ्चक्रिरे द्विजाः ॥ ५ ॥
यथा हि माधवं पूर्वं तथा तं विष्णुशाखिनम् ॥
उपासनासु देवानां दिव्यचिह्नानि जज्ञिरे ॥ ६ ॥
निर्ववाह स्वयं देवः क्रमात्पञ्चदशे दिने ॥
चतुर्मूर्तिः स भगवान्यथा पूर्वं मयोदितः ॥ ७ ॥
तादृगाविर्बभूवासौ युष्माकं वर्णितः पुरा ॥
दिव्यसिंहासनगतो बलभद्रासुदर्शनैः ॥ ८ ॥
शङ्खचक्रगदापद्मलसद्बाहुर्जनार्दनः ॥
गदामुसलचक्राब्जं धारयन्पन्नगाकृतिः ॥ ९ ॥
छत्राकृतिफणासप्तमुकुटोज्ज्वलकुण्डलः ॥
सुभद्रा चारुवदना वराब्जाभयधारिणी ॥ 2.2.19.१० ॥
लक्ष्मीः प्रादुर्बभूवेयं सर्वचैतन्यरूपिणी ॥
इयं कृष्णावतारे हि रोहिणीगर्भसम्भवा ॥ ११ ॥
बलभद्राकृतिर्जाता बलरूपस्य चिन्तनात् ॥
क्षणं न सहते सा हि मोक्तुं लीलावतारिणम्॥ १२ ॥
न भेदोऽस्तीह को विप्राः कृष्णस्य च बलस्य च ॥
एकगर्भप्रसूतत्वाद्व्यवहारोऽथ लौकिकः ॥ १३ ॥
भगिनी बलदेवस्येत्येषा पौराणिकी कथा ॥
पुंरूपे स्त्रीस्वरूपेण लक्ष्मीः सर्वत्र तिष्ठति ॥ १४ ॥
पुन्नाम्ना भगवान्विष्णुः स्त्रीनाम्ना कमलालया ॥
देवतिर्यङ्मनुष्यादौ विद्यते न तयोः परम्॥ १५॥
को ह्यन्यः पुण्डरीकाक्षाद्भुवनानि चतुर्दश ॥
धारयेत्तु फणाग्रेण सोऽनन्तो बलसञ्ज्ञितः ॥ १६ ॥
तस्य शक्तिस्वरूपेयं भगिनी श्रीः प्रकीर्तिता ॥
सुदर्शनं तु यच्चक्रं सदा विष्णोः करे स्थितम् ॥ १७ ॥
शाखाग्रस्तम्भमध्यस्थं तद्रूपं तत्तुरीयकम् ॥
एवं तु मूर्त्तयस्तेन चतस्रो वै प्रकाशिताः ॥१८॥
निर्वृत्ते भगवद्रूपे चतुर्द्धा दिव्यरूपिणि ॥
लोकानामुपकाराय पुनराहान्तरिक्षगा ॥ १९ ॥
पटैराच्छाद्य सुदृढं नृपते प्रतिमास्त्विमाः ॥
स्वं स्वं वर्णं प्रापयाशु वर्णकैश्चित्रकर्मणा ॥ 2.2.19.२० ॥
नीलाभ्रश्यामलं विष्णुं शङ्खेन्दुधवलं बलम् ॥
रक्तं सुदर्शनं चक्रं सुभद्रां कुङ्कुमारुणाम् ॥ २१ ॥
नानालङ्काररुचिरां नानाभङ्गिविभागशः ॥
अमी दारुस्वरूपेण दृष्टाः पापाय हेतवे ॥ २२ ॥
गोपनीया प्रयत्नेन पटनिर्यासवल्कलैः ॥
तस्मात्प्रथममेवैतांस्तरोरेवास्य वल्कलैः ॥ २३ ॥
शिल्पिभिः कर्मकुशलैर्दृढमाच्छादयाग्रतः ॥
वर्षे वर्षे च संस्कार्याः पूर्वसंस्कार मोचनात् ॥ २४ ॥
ऋते वल्कललेपं तु स तु दिव्यश्चिरन्तनः ॥
प्रमादाद्य इमं लेपमपनीयेत कश्चन ॥ २५ ॥
दुर्भिक्षं मरकं राष्ट्रे सन्ततिश्चास्य हीयते ॥
नेक्षितव्यास्त्वया राजन्कदाचिदपवारणाः ॥ २६ ॥
मनुष्यैश्चापि राजेन्द्र दृष्टाः स्युर्भयहेतवः ॥
तस्मात्सचित्रा द्रष्टव्या बहुलेपविलेपिताः ॥ २७ ॥
सुचित्रं पुण्डरीकाक्षं सविलासं सविभ्रमम् ॥
दृष्ट्वा विमुच्यते पापैः कल्पकोटिसमुद्भवैः ॥ २८ ॥
सुचित्रान्कुरु राजेन्द्र चित्रान्कामानवाप्स्यति ॥
आविर्बभूव भगवांस्तवानुग्रहकाम्यया ॥ २९ ॥
तव प्रसादाज्जन्तूनां चतुर्वर्गं प्रदास्यति ॥
नीलाद्रौ कल्पवृक्षस्य वायव्यां शतहस्ततः ॥ 2.2.19.३० ॥
प्रदेशे सुमहत्स्थाने प्रासादं सुदृढायतम् ॥
उत्तरे नरसिंहस्य सहस्रकरमुच्छ्रितम् ॥ ३१ ॥
कारयित्वा प्रतिष्ठाप्य तत्रैनं विनिवेशय ॥
पुरा स्थितं पर्वतेऽस्मिन्योऽभ्यर्चयति माधवम् ॥ ३२ ॥
नाम्ना विश्वावसुर्नाम शबरो वैष्णवोत्तमः ॥
पुरोधसः सख्यमासीत्तेन सार्द्धं पुरा च ते ॥ ३३ ॥
तयोः सन्ततिरेवास्य लेपसंस्कारकर्मणि ॥
नियुज्यतां महाराज भविष्यत्सूत्सवेषु च ॥ ३४ ॥
विररामैतदाभाष्य सा तु दिव्या सरस्वती ॥
तयोपदिष्टमाकर्ण्य प्रहृष्टेनान्तरात्मना ॥ ३९ ॥
वेष्टनं मोचयामास महावेद्या नृपोत्तमः ॥
ददृशुस्ते तदा सर्वे रत्नसिंहासने स्थितम् ॥ ३६ ॥
रामं कृष्णं सुभद्रां च वासुदेवं सुदर्शनम् ॥
यथोपदिष्टलेप्यादिसंस्कारे रुचिराकृतिम् ॥ ३७ ॥
कृपया स्मेरवदनमुन्नतायतवक्षसम् ॥
दीनानामुद्धृतौ नाथं प्रलम्बभुजपञ्जरम् ॥ ३८ ॥
प्रबुद्धपुण्डरीकाक्षं हासशोणायताधरम् ॥
पश्यतां दृष्टिमात्रेण हर्तारं पापसञ्चयम् ॥ ३९ ॥
पद्मासनस्थितं कृष्णं दिव्यालङ्कारभूषितम्॥
स्वतेजसा परिवृतं दारुदेहेऽपि निर्मलम् ॥ 2.2.19.४० ॥
नीलजीमूतसङ्काशं सर्वसन्तापनाशनम् ॥
ददर्श बलदेवं च साट्टहासमुखाम्बुजम् ॥ ४१ ॥
फणामण्डलविस्तीर्णं वारुणीघूर्णितेक्षणम् ॥
प्रोत्थितं नागराजानं पीनोन्नतसुवक्षसम् ॥ ४२ ॥
किञ्चिन्नतं पृष्ठदेशे कुण्डलीकृतविग्रहम् ॥
अग्रसम्फुल्लककुभं कैलासशिखरं यथा ॥ ४३ ॥
हलचक्राब्जमुसलधारिणं वनमालिनम् ॥
हारकुण्डलकेयूरकिरीटमुकुटोज्ज्वलम् ॥ ४४ ॥
तयोर्मध्ये स्थितां लक्ष्मीं सुभद्रां भद्ररूपिणीम् ॥ ४५ ॥
सर्वदेवारणीं पापसागरोत्तारकारिणीम् ॥
विकचाम्भोजवदनां वराब्जाभयधारिणीम् ॥ ४६ ॥
रूपलावण्यवसतिं शोभमानां प्रसाधनैः ॥
कुङ्कुमारुणदेहां तां साक्षाल्लक्ष्मीमिवापराम् ॥ ४७ ॥
ददर्श विष्णोर्वामस्थां चक्रशाखाग्रनिर्मिताम् ॥
बालार्कसदृशीं तीक्ष्णधारां तेजोमयीं द्विजाः ॥ ४८ ॥
तां दृष्ट्वानन्दपाथोधि निमग्नः पृथिवीपतिः ॥
कर्तव्यमूढः स्वतनौ स्वयं न प्रबभूव ह ॥ ४९ ॥
दरमीलितनेत्रः सन्सृजन्बाष्पाम्बु केवलम् ॥
कृताञ्जलिपुटस्तस्थौ स्थूणाकारो नृपोत्तमः ॥ 2.2.19.५० ॥
उवाच तं मुनिवरः स्मितवक्त्रः क्षितीश्वरम् ॥
यदर्थं श्रममापन्नस्तत्साम्प्रतमभूत्तव ॥ ५१ ॥
प्रत्यक्षं नृपशार्दूल एकस्त्वं भाग्यवान्भुवि ॥
अमुं पश्य जगन्नाथं पुण्डरीकायतेक्षणम् ॥ ५२ ॥
भक्तानुग्रहपाथोधिं सर्वज्ञाननिधिं हरिम् ॥
यं द्रष्टुं योगिनो नित्यं यतन्ति यतमानसाः ॥ ५३ ॥
अवधानेन महता क्षणं पश्यन्ति मानवाः ॥
सोऽयं दारुमयं देहं समास्थाय जनार्दनः ॥ ५४ ॥
अनुग्रहीतुं त्वां भूप प्रत्यक्षत्वमुपागतः ॥
भजैनं धरणीनाथं स्तुहि कारुण्यसागरम् ॥ ५५ ॥
ददाति संस्तुतः कामान्सर्वान्नृप मनोगतान् ॥ ५६ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे पुरुषोत्तमक्षेत्रमाहात्म्ये जैमिनिऋषिसंवाद एकोनविशोऽध्यायः ॥ १९ ॥