॥ जैमिनिरुवाच ॥ ॥
ततः प्रववृते सुत्या नृपतेर्वाजिमेधिका ॥
तस्यां त्रैलोक्यमभवदेकसद्मनिभं द्विजाः ॥ १ ॥
शास्त्रैः स्तोत्रैर्दिवस्पृग्भिर्वर्णक्रमसमुज्ज्वलैः ॥
यथापदस्वरन्यासैरन्ये शब्दास्तिरोहिताः ॥ २ ॥
दीनेभ्योऽवारितं तत्र दीयन्ते वाञ्छितानि वै ॥
नटनर्त्तकसूतानां साभूत्कल्पद्रुमोपमा ॥ ३ ॥
तन्मध्येऽवभृथे स्नातुं कृता यत्रोपकारिका ॥
दक्षिणे तटभूदेशे बिल्वेश्वरसमीपतः ॥ ४ ॥
नियुक्ताः सेवका राज्ञा ससम्भ्रममुपस्थिताः ॥
न्यवेदयन्त नृपतिं कृताञ्जलिपुटा द्विजाः ॥ ५ ॥
देव दृष्टो महान्वृक्षस्तटभूमौ महोदधेः ॥
प्रविष्टाग्रसमुद्रान्तः कल्लोलप्लवमूलकः ॥ ६ ॥
मञ्जिष्ठवर्णः सर्वत्र शङ्खचक्राङ्कितः प्लवन् ॥
स्नानवेश्मसमीपेऽसौ दृष्टोऽस्माभिः परोऽद्भुतः ॥ ७ ॥
न दृष्टपूर्वो वृक्षोऽयमुद्यत्सूर्यनिभोंऽशुना ॥
गन्धेन वासयन्सर्वा तटभूमिं सुगन्धिना ॥ ८ ॥
द्रुमः साधारणो नायं लक्ष्यते देवभूरुहः ॥
कश्चिद्देवस्तरुव्याजादागतो लक्ष्यते धुवम् ॥ ९ ॥
नियुक्तानां वचः श्रुत्वा राजा नारदमब्रवीत् ॥
तत्किं निमित्तं यद्दृष्टं तरुश्रेष्ठं वदन्ति ते ॥ 2.2.18.१० ॥
नारदः प्रहसन्वाक्यमुवाच नृपसत्तमम् ॥
पूर्णाहुतिः समाप्नोतु यथा स्यात्सफलः क्रतुः ॥ ११ ॥
उपस्थितं ते तद्भाग्यं स्वप्ने यद्दृष्टवान्पुरा ॥
श्वेतद्वीपे विश्वमूर्तिर्दृष्टो यो विष्णुरव्ययः ॥ १२ ॥
तदङ्गस्खलितं रोम तरुत्वमुपपद्यते ॥
अंशावतारः स्थास्नुर्यः पृथिव्यां परमेष्ठिनः ॥ १३ ॥
तद्रूपावतरं याति भगवान्भक्तवत्सलः ॥
द्रुमो ह्यपौरुषो योसौ भाजनं नास्य दर्शने ॥ १४ ॥
त्वामृते पुरुषव्याघ्र पृथिव्यां नृपसत्तम ॥
त्वद्भाग्यवशतः सर्वलोकानां नयनातिथिः ॥ १५ ॥
भविष्यति महाराज सर्वकल्मषनाशनः ॥
समाप्यावभृथस्नानं तटान्ते सरितां पतेः ॥ १६ ॥
उत्सवं सुमहत्कृत्वा कृतकौतुकमङ्गलम् ॥
महावेद्यां स्थापयात्र यज्ञेशं तरुरूपिणम् ॥ १७ ॥
विचार्येत्थं मुदा युक्तौ तावुभौ नृपनारदौ ॥
सुसमृद्धौ तत्र यातौ यत्रासौ भगवद्द्रुमः ॥ ॥ १८ ॥
तं दृष्ट्वा हर्षिताः सर्वे ब्रह्म साक्षादुपस्थितम् ॥
मेनिरे जन्मसाफल्यं जीवन्मुक्ता महोदयाः ॥ १९ ॥
इन्द्रद्युम्नोऽपि नृपतिर्ममज्जामृतसागरे ॥
स्वप्ने दृष्ट्वा जगन्नाथं यथासौ भगवत्प्रियः ॥ 2.2.18.२० ॥
तथा ददर्श तं वृक्षं चक्षुःशाखं चतुर्भुजम् ॥
स्वकं श्रमं मन्यमानः सफलं नृपसत्तमः ॥ ॥ २१ ॥
जहौ शोकं नीलमणिमाधवान्तर्धिजं द्विजाः ॥
पुनः पुनः प्रणम्यैनं हर्षाश्रुनयनो नृपः ॥ २२ ॥
द्विजैराहारयामास तरुं कल्लोललोलितम् ॥
शङ्खकाहालमुरजढक्कापटहनिःस्वनैः ॥ २३ ॥
गीतवादित्रनिनदैर्जयशब्दैः सहस्रशः ॥
सुगन्धिपुष्पाञ्जलिभिराकाशात्पतितैर्मुहुः ॥ २४॥
परितो धूपपात्रैश्च कृष्णागुरुसुधूपितैः ॥
वेश्याभिर्यौवनोन्मत्तसुरूपाभिः प्रचालितैः ॥ २५ ॥
रत्नदण्डप्रकीर्णैश्च वीज्यमानं समन्ततः ॥
पताकाभिर्दिव्यपट्टदुकूलाभिः सुशोभितम् ॥ २६ ॥
राजर्षिराजवृन्दैश्च तुरगैः पत्तिभिर्वृतम् ॥
मागधैर्वन्द्यमानं तु स्तूयमानं महर्षिभिः ॥२७॥
ऋत्विग्भिर्ब्राह्मणैश्चैव विद्वद्भिः श्रोत्रियैस्तथा ॥
राजन्यैर्वैश्यकुलजैः सच्छूद्रैः परिचारितम् ॥ २८ ॥
स्तोत्रैर्बहुविधैः श्रौतैः स्मार्तैः पौराणिकैस्तथा ॥
स्तूयमानं तरुं विष्णोर्भूर्लोके परिवेष्टितम् ॥२९॥
स्रग्गन्धालङ्कृतं दिव्यं महावेदीं विनिन्यतुः॥
वितानवरचित्रायां वेष्टितायां निरन्तरम् ॥2.2.18.३०॥
वेद्यां तं स्थापयामासुरिन्द्रद्युम्नस्य शासनात् ॥
वचसा नारदस्यैनं पूजयामास पार्थिवः ॥ ३१ ॥
सहस्रैरुपचाराणां दिव्यरूपैर्नृपोत्तमः ॥
पूजावसाने पप्रच्छ नारदं मुनिसत्तमम् ॥३२॥
कीदृश्यः प्रतिमा विष्णोर्घटयिष्यति कः पुनः ॥
तच्छ्रुत्वा तं मुनिः प्राह अचिन्त्यमहिमा गुरुः ॥ ३३॥
को वेद तस्य चेष्टां वै सर्वलोकोत्तरां नृप ॥
स्रष्टा यो जगतां तस्याप्येषा संशयगोचरा ॥ ३४ ॥
विचारयन्तौ तावित्थं यावन्नारदपार्थिवौ ॥
अशरीरा ततो वाणी शुश्रुवे चान्तरिक्षतः ॥ ३५ ॥
तत्र विस्मयमानानां सर्वेषामेव शृण्वताम् ॥
अपौरुषेयो भगवानविचारपथे स्थितः ॥ ३६ ॥
सुगुप्तायां महावेद्यां स्वयं सोऽवतरिष्यति ॥
प्रच्छाद्यतां दिनान्येषा यावत्पञ्चदशानि वै ॥ ३७ ॥
उपस्थितोऽयं यो वृद्धः शस्त्रपाणिस्तु वर्द्धकिः ॥
एनमन्तः प्रवेश्यैव द्वारं बध्नन्तु यत्नतः ॥ ३८ ॥
बहिर्वाद्यानि कुर्वन्तु यावत्तु घटना भवेत् ॥
श्रुतो हि घटनाशब्दो बाधिर्यान्धत्वदायकः ॥ ३९ ॥
नरके वसतिं चैव कुर्यात्सन्ताननाशनम् ॥
नान्तःप्रवेशनं कुर्यान्न पश्येच्च कदाचन ॥2.2.18.४०॥
नियुक्तादन्यः पश्येच्चेद्राज्ञो राष्ट्रस्य चैव ह ॥
द्रष्टुश्चापि महाभीतिरन्धता चक्षुषोर्युगे ॥ ४१ ॥
तस्मान्नावेक्षणं कार्यं यावत्प्रतिमनिर्मितिः ॥
निर्व्यूढस्तु स्वयं दैवः कृत्यान्ते तु वदिष्यति ॥ ४२ ॥
यत्कार्यं प्रयत्नेन सर्वलोकसुखावहम् ॥
तच्छ्रुत्वा नारदाद्यास्ते यथोक्तं विष्णुना स्वयम् ॥ ४३ ॥
चिकीर्षन्ति तथा कर्त्तुं तत्रायातश्च वर्द्धकिः ॥
प्रोवाच नृपतिं सोऽथ स्वप्ने दृष्टास्तु यास्त्वया ॥ ॥ ४४ ॥
ता एवाहं घटिष्यामि दारुणा दिव्यरूपिणा ॥
इत्युक्त्वान्तर्दधे वेद्यां वृद्धवर्द्धकिरूपधृक् ॥ ४५ ॥
वञ्चनार्थं मनुष्याणां साक्षान्नारायणो विभुः ॥ ४६ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे पुरुषोत्तमक्षेत्रमाहात्म्ये जैमिनिऋषिसंवादेऽष्टादशोऽध्यायः ॥ १८ ॥