०१७

॥ मुनय ऊचुः ॥ ॥
प्रतिष्ठिते नारसिंहे क्षेत्रे तस्मिन्नराधिपः ॥
किं चकार मुने ब्रूहि परं कौतूहलं तु तत् ॥ १ ॥
॥ जैमिनिरुवाच ॥ ॥
इन्द्रादींस्त्रिदशान्सर्वान्न्यमन्त्रयत पूर्वतः ॥
ततः स मन्त्रयामास ऋषीन्विप्रान्सहस्रशः ॥ २ ॥
अध्येतॄंश्चतुरो वेदान्सषडङ्गपदक्रमैः ॥
यज्ञविद्यासु कुशलान्मीमांसापरिनिष्ठितान् ॥ ३ ॥
सभाष्यकल्पसूत्रैस्तु परिनिष्ठितकर्मिणः ॥
अष्टादशसु विद्यासु कुशलान्धर्मकोविदान् ॥ ४ ॥
सदाचारावदातांश्च कुलीनान्सत्यवादिनः ॥
वैष्णवांश्च विशेषेण मन्त्रयामास सादरम् ॥ ५ ॥
त्रैलोक्ये ये च राजानः सिद्धाः सप्तर्षयो द्विजाः ॥
सच्छूद्रा वणिजो द्वीपपतयश्च निमन्त्रिताः ॥ ६ ॥
क्रोशद्वयमिता विप्राः सभासीत्तस्य भूपतेः ॥
पाषाणघटिता सोच्चा सुधया सानुलेपिता ॥ ७ ॥
क्वचिद्रत्नमयी भूमिः क्वचित्काञ्चननिर्मिता ॥
स्फाटिकी राजती चैव यथायोग्यं कृतस्थली॥ ८ ॥
स्तम्भै रत्नमयैः प्रोच्चैर्दुकूलपरिवेष्टितैः ॥
चारुचन्द्रातपाढ्या तु गन्धमाल्यैः सचामरैः ॥ ९ ॥
मुक्तादामान्तरस्थैश्च चारुवातायना शुभा ॥
कृष्णागुरुस्नेहसिक्ता श्रीखण्डसलिलोक्षिता ॥ 2.2.17.१० ॥
सर्वर्त्तुकुसुमाकीर्णा प्रान्तोपवनसंवृता ॥
वाप्यः स्फटिकसोपानाः पद्मकद्वारमण्डिताः ॥ ११ ॥
चक्रवाकैः प्लवैर्हंसैः सारसैर्मधुरस्वनैः ॥
व्याप्तान्तराः स्वच्छशीतसुगन्धमधुराम्भसः ॥ १२ ॥
परितः शतशस्तस्याः सुखावतरणा द्विजाः ॥
उपच्छायाविरचनाः शोभमानाः समन्ततः ॥ १३ ॥
यज्ञशाला मरुत्तस्य यथासीद्भो द्विजोत्तमाः ॥
तथेन्द्रद्युम्नभूपस्य रचिता विश्वकर्मणा ॥ १४ ॥
शुभेऽह्नि शुभनक्षत्रे वासयित्वा सभासदः ॥
राज्ञः सिंहासनासीनान्दृष्ट्वासीनानृषीनपि ॥ १५ ॥
ससिद्धान्ब्रह्मर्षिगणान्बहुमूल्यकुथस्थितान् ॥
देवान्काञ्चनपीठस्थान्यथायोग्यमथ द्विजान् ॥ १६ ॥
वरासनस्थानन्यांश्च यथादेशं सुखस्थितान् ॥
मध्ये नृपाणां देवानामृषीणां च शचीपतिम् ॥ १७ ॥
साम्राज्यलक्षणे स्वस्य रत्नसिंहासने स्थितम् ॥
दिव्यैर्माल्यैस्तथा गन्धैर्वासोभिर्विष्टरादिभिः ॥ १८ ॥
पुरोधसा समं पूर्वमर्चयामास ऋद्धिमत् ॥
विनीतो दीनवत्तस्य चक्रे पूजां तथा नृपः ॥ १९ ॥
आश्चर्यं मन्यतेऽस्यासौ त्रैलोक्येशोऽपि तद्यथा ॥
ततः सिद्धान्देवमुनीनचर्यन्निन्द्रवत्तदा ॥ 2.2.17.२० ॥
विस्मयं जनयामास कुवेरस्याप्यधिश्रियः ॥
ततो देवान्समानर्च प्रभूतस्वस्वसम्पदः ॥ २१ ॥
उपचारैर्महीनाथः सम्यगव्यग्रमानसः ॥
राज्ञः सम्पूजयामास राजयोग्यैः परिच्छदैः ॥ २२ ॥
यथा ते मेनिरे भूपा भवामः साम्प्रतं वयम् ॥
सत्यं राज्यं क्रमात्प्राप्तं नेदृशश्च परिच्छदः ॥ २३ ॥
आनर्च वैष्णवान्भूय उपचारैः समानयन्॥
शान्ता अपि यथा चित्रं मेनिरे विषयागमम् ॥ २४ ॥
ततो विप्रान्बाहुजातान्वैश्यान्मुनिपुरःसरम् ॥
सम्यक्प्रपूजयामास सत्त्वोद्रिक्तो महीपतिः ॥ २५ ॥
अन्यांश्च सचिवद्वारा पूजयित्वा ससम्भ्रमः ॥
दृष्टः स विनयान्नम्रः कृताञ्जलिपुटस्तथा ॥ २६ ॥
महेन्द्रमुच्चैराहेदं नारदेन पुरोधसा ॥ २७ ॥
॥ इन्द्रद्युम्न उवाच ॥ ॥
तव प्रसादाद्देवेश इच्छामीदं प्रसीद मे ॥
क्रतुना हयमेधेन प्रयक्ष्ये यज्ञपूरुषम्॥ २८ ॥
अनुजानीहि मां देव क्रतूनामीश्वरो भवान् ॥
त्वदाज्ञापालकाः सर्वे त्रैलोक्ये निवसन्ति ये ॥ २९ ॥
यावत्क्रतुसहस्रस्य संस्था च भवति प्रभो ॥
तावत्त्वं त्रिदशैः सार्द्धं सदोमध्यगतो वस ॥ 2.2.17.३० ॥
यष्टुमिच्छामि देवेश नाहं त्वत्पदलिप्सया ॥
सर्वेषां वेत्सि देवेश मनोवृत्तिं सदा प्रभो ॥ ३१ ॥
युष्माकं पूर्वदृष्टोऽत्र वपुष्मान्माधवः प्रभुः ॥
उपासनायां सोऽयं यो वालुकाभिस्तिरोदधे ॥ ३२ ॥
तस्य भूयः प्रकाशार्थं वाजिमेधसहस्रकम्॥
करिष्ये वचनादिन्द्र चतुरास्यस्य शासनात् ॥
पुनः प्रकाशिते तस्मिञ्छ्रेयो वोऽपि भविष्यति ॥ ३३ ॥
इति विज्ञापिते राज्ञा महेन्द्रप्रमुखाः सुराः ॥
अन्तर्द्धानोतरं या च श्रुता पूर्वं सरस्वती ॥ ३४ ॥
अशरीरां स्मरन्तस्तामिदं प्रोचुः प्रहर्षिताः ॥
इन्द्रद्युम्न महात्मासि सत्यं सत्यवतो भुवि ॥ ३५ ॥
तच्चेष्टितं पुरास्माभिरन्वभावि भविष्यकम् ॥
सहायास्ते भविष्यामः कार्ये त्रैलोक्यपावने ॥३६॥
स्रष्टा स जगतां यत्र उद्युक्तः स्वयमेव हि ॥
अत्रैवोवाच भगवानस्माकमपि भूतले ॥ ३७ ॥
प्रविशंस्तदनुक्रोशवशाद्भूयः प्रकाशनम् ॥
करिष्ये दारवं देहमित्येतत्परिनिष्ठितम् ॥ ३८ ॥
नात्रास्माकं व्यलीकं तु नेन्द्रस्य च महीपते ॥
अस्मद्दिष्टसमुद्योगस्तव नः प्रीतिकारकः ॥ ३९ ॥
सुखं यजस्व राजेन्द्र वैकुण्ठं भक्तवत्सलम् ॥
क्रतुना हयमेधेन सहस्रपरिवर्तिना ॥ 2.2.17.४० ॥
दुराराध्यो हि भगवानस्माकं भक्तवत्सलः ॥
वयमप्यत्र देवत्वं त्यक्त्वा भक्ति परायणाः ॥ ४१ ॥
आराधयामः क्षेत्रेस्मिन्विनीता नररूपिणः ॥
प्रियं हि मानुषे लोके कर्म सिद्ध्यति वै कृतम् ॥ ४२ ॥
॥ जैमिनिरुवाच ॥ ॥
इत्युक्ते त्रिदशैः सेन्द्रैः परितुष्टान्तरात्मना ॥
आरम्भार्थं क्रतो राजा भगवन्तमपूजयत् ॥ ४३ ॥
उपचारसहस्रैस्तु यथावत्प्रतिपादितैः ॥
ततः पितृगणान्राजा निरूप्य श्रद्धयान्वितः ॥ ४४ ॥
सदोगृहगतान्विप्रान्याज्ञिकान्समलङ्कृतान् ॥
कृत्वेष्टदेवं पुरतो वैकुण्ठं साग्निहोत्रकम् ॥ ४५ ॥
आकाङ्क्षन्कल्पितं लग्नं संवृत्ते स्वस्तिवाचने ॥
उपस्थितः सपत्नीकः शुद्धमाङ्गल्यवेषधृक् ॥ ४६ ॥
स्वस्ति वाच्य द्विजाञ्छुद्धान्पुण्याहं वृद्धिकर्म च ॥
ततः सम्भृतसम्भारो वरयामास ऋत्विजः ॥ ४७ ॥
वृतास्ते तु सपत्नीकं दीक्षयन्तो नृपोत्तमम् ॥
विहृत्य दीक्षणायेष्टान्न्ययजन्सभ्यचोदिताः ॥ ४८ ॥
प्रणीय तं प्रज्वलन्तं वेद्यामाहवनीयकम् ॥
त्रैलोक्यमङ्गलकरं किं साक्षाद्वैष्णवं महः ॥ ४९ ॥
सुप्रोक्षितं चाभिमन्त्र्य अनुज्ञाप्य दिगीश्वरान् ॥
मुमुचुस्ते हयं मुख्यमङ्गेषु शुभलक्षणम् ॥ 2.2.17.५० ॥
ततः स दीक्षितो राजा वाग्यतो रौरवीं त्वचम् ॥
अधिष्ठाय सदोमध्ये मृत्युञ्जय इव स्थितः ॥ ५१ ॥
निमन्त्रितानां मुक्त्यर्थं चक्षुषा सन्दिदेश वै ॥
सुराणां रत्नपात्राणि महार्घाणि नृपाज्ञया ॥ ५२ ॥
सचिवः कारयामास भोजनाय समृद्धिमत् ॥
शुद्धसौवर्णपात्राणि मुनीनां च महीक्षिताम् ॥ ५३ ॥
द्विजानां भोजनार्थाय नवानि प्रत्यहं द्विजाः ॥
क्षत्रियाणां विशां विप्रा राजतानि शुभानि च ॥ ५४ ॥
कांस्यनिर्मलपात्राणि शूद्राणां भोजनाय वै ॥
अहन्यहनि पात्राणि भोजनान्ते द्विजोत्तमाः ॥ ५५ ॥
आकरेषु प्रपात्यन्ते प्रोच्छिष्टदलवज्जनैः ॥
तत्र यज्ञोत्सवे ये वै भोजनाय निमन्त्रिताः ॥ ५६ ॥
तेषां पुत्राश्च पौत्राश्च प्रपौत्राश्चैव सन्ततिः ॥
नित्यं पञ्चरसान्नानि बहुमानपुरःसरम् ॥ ॥ ५७ ॥
आदृतैर्भोजिता राज्ञ इन्द्रद्युम्नस्य शासनात् ॥
कुटुम्बवत्स्थितास्तत्र संस्था यावन्महाक्रतोः ॥ ५८ ॥
यद्देशीया जनास्तेषामधिष्ठाता च तान्नृपः ॥
नृपाणामनुसन्धाता इन्द्रद्युम्नप्रयाचितः ॥ ५९ ॥
नारदः समदर्शी तु परोपकृतिलोलुपः ॥
इन्द्रादीनां सुरेन्द्राणां देवर्षीणां नृपोत्तमः ॥2.2.17.६०॥
स्वयं नरपतिश्चर्यां चकार क्रतुपूर्त्तये ॥
षड्विधान्यन्नपानानि संस्कृतानि द्विधा नरैः ॥ ६१ ॥
देवानां भोजने तत्र मन्त्रतन्त्रविशारदैः ॥
मर्त्यानां नल विद्यायां कुशलैः संस्कृतानि वै ॥ ६२ ॥
क्षुत्पिपासानभिज्ञा हि सुधाहारा दिवौकसः ॥
तेषामपि अपूर्वत्वादाश्चर्यं तद्धि भोजनम् ॥ ६३ ॥
नराणां दुर्लभं मर्त्य इन्द्रद्युम्नगृहेऽशनम्॥
इन्द्रद्युम्नस्य चेन्द्रस्य विशेषो मर्त्यवासिता ॥ ६४ ॥
अत्यद्भुतकरं ह्येतत्प्रत्यहं च नवं नवम् ॥
सम्माननादरावृद्धिर्भोज्यस्य द्विजसत्तमाः ॥ ६५ ॥
अन्योन्यस्पर्द्धयैवात्र प्रवर्द्धते परस्परम् ॥
सुगन्धसुमनोमाल्यकस्तूर्यादिप्रलेपनम् ॥ ६६ ॥
चित्रसूक्ष्मदुकूलानि सोपधानासनानि च ॥
रत्नपल्यङ्किका शय्या रत्नदण्डप्रकीर्णकम् ॥ ६७ ॥
जातीलवङ्गकर्पूरैर्नागवल्लीदलानि च ॥
मनोहराणि गीतानि नृत्यानि विविधानि च ॥ ६८॥
भरतस्य मुनेः शिक्षापण्डितै रचितानि च ॥
स्वस्ववंशयशोऽभिज्ञाः शतशः सूतमागधाः ॥ ६९ ॥
एतान्यन्यानि वस्तूनि दुर्लभान्यपि यानि वै ॥
त्रिदशाश्चापि मर्त्याश्चान्वभुज्यन्त सुसादरम् ॥ 2.2.17.७० ॥
एकतोऽन्यत्र चित्राणि न च हीनानि कुत्रचित् ॥
पातालवासिनां चापि भोजनं वै सुधाधिकम् ॥ ७१ ॥
यद्भुक्त्वा नानुवाञ्छन्ति पातालगमनं हि ते ॥
पुराणि यानि पाताले रत्नौघालोकितानि च ॥ ७२ ॥
विना सूर्यप्रकाशेन तादृशान्येव भूपतिः ॥
ददौ तेषां निवासाय येषु पातालबुद्धयः ॥ ७३ ॥
सुखासीनाश्च क्रीडन्तो भुञ्जाना शेरते मुदा ॥
देवानामपि नान्यत्र भूमिस्पर्शनमस्ति वै ॥ ७४ ॥
इन्द्रद्युम्नपुरे तत्र स्वर्गादपि मनोहरे ॥
यदृच्छया सुखक्रीडासक्ता नो तत्यजुर्भुवम् ॥ ॥ ७५ ॥
अभिलाषोपजातं तु सुखं स्वर्गे वदन्ति हि ॥
अनिच्छयापि भो विप्राः सुखं सर्वत्र तत्र वै ॥ ७६ ॥
आदृत्य यत्नान्मन्यन्ते भोज्यं ते सादरं नराः ॥
न याचितः कोपि जनः कुतो वा स्यात्पराङ्मुखः ॥ ७७ ॥
राजाधिराजवेश्मानि जनानां स्वगृहैः समम् ॥
तदासीत्स्वगृहे तेषां न सदा सर्वसम्भवः ॥ ७८ ॥
तत्र यत्कामनातीतं तद्वस्तु सुलभं बहु ॥
इत्थं प्रवर्तिते यज्ञे यज्ञेशप्रीतये मुदा ॥ ७९ ॥
पृथिवी हृतसर्वस्वा वाजिमेधेस्य भूपतेः ॥
या पूर्वं साभवद्भूयः स्वर्णवृष्टिसुभूषिता ॥ 2.2.17.८० ॥
इत्थं प्रवृत्ते लोकानां तत्र त्रैलोक्यवासिनाम् ॥
दानसम्मानभोज्यानां विधौ विधिवतोऽन्वहम् ॥ ८१ ॥
अश्वमेधं प्रति जना जगुर्गाथाः परस्परम् ॥
नेदृग्यागस्य सम्भारो विधेः शास्त्रप्रचोदितः ॥ ८२ ॥
इन्द्रद्युम्नस्य राजर्षेर्न भूतो न भविष्यति ॥
न याचितारोऽदातारो मिथो यत्र निमन्त्रिताः ॥ ८३ ॥
न कामभङ्गो यत्रासीद्देवानामपि भो द्विजाः ॥
ईदृक्समृद्धिः क्रतुराट् प्रवृत्तो भूपतेस्तदा ॥ ८४ ॥
अधिश्रद्धः सुसम्पन्नः पूर्वस्मादपरोऽभवत् ॥
स्मृतिकाराः कल्पकारास्तथा शास्त्रप्रणेतृकाः ॥ ८५ ॥
यज्ञानुष्ठानकुशलाः सदाचारावतंसकाः ॥
अग्न्याधानाद्यवभृथप्रचारमनुपूर्वशः ॥ ८६ ॥
क्रतुः सदस्यानुमते नृपतेः प्रीतये द्विजाः ॥
न मन्त्राः स्वरतो हीना वर्णतो वापि कर्हिचित् ॥ ८७ ॥
ये वै विधिविधातारस्ते वै कर्मप्रचारकाः ॥
प्रायश्चित्तनिमित्तेन प्रायश्चित्तनिबन्धनात् ॥ ८८ ॥
कर्मोपघातो नो तत्र योगिनः कर्मयोगिनः ॥
यत्र सप्तर्षयो दिव्याः सदस्याः क्रतुसाक्षिणः ॥६९॥
प्रचारयन्ति कर्माणि गुणदोषविभागिनः ॥
याज्ञवल्क्यादयस्तेऽत्र मुनयस्त्वृत्विजो वृताः ॥ 2.2.17.९० ॥
सदोगतास्ते मुनयः परस्परकथान्तरे ॥
वाकोवाक्यानि सूक्तानि गुह्योपनिषदानि च ॥ ९१ ॥
गाथाः पौराणिकीर्विप्रा विष्णुभक्तिपुरःसराः ॥
चरितानि हरेः सर्वकल्मषौघहराणि च ॥ ९२ ॥
तत्र संवर्तयामासुस्ते सभायां महीक्षितः ॥
तस्य यज्ञे हविः प्राशुः प्रत्यक्षं वह्निमध्यगाः ॥ ९३ ॥
मुदितास्त्रिदशा विप्रा महेन्द्रप्रमुखामखे ॥
चिरप्रवासिनो देवा नास्मरन्तामरावतीम् ॥ ९४ ॥
अमृतं हि हविस्तेषां कल्पितं ब्रह्मणा पुरा ॥
तत्प्राश्य मुदिता देवा वीर्यवन्तश्चिरायुषः ॥ ९५ ॥
यागानुष्ठानविषयादन्यत्र विषयान्बहून् ॥
इन्द्रद्युम्नेन रचितान्समस्तानुपभुञ्जते ॥ ९६ ॥
तत्र ये नागराजानः पातालतलवासिनः ॥
ततोऽधिकान्मर्त्यलोके विषयानुपभुञ्जते ॥ ९७ ॥
पातालगमनं ते वै नेहन्ते मनसा धुवम् ॥
इत्थं प्रवर्तितो यज्ञस्त्रैलोक्यप्रीतिकारकः ॥ ९८ ॥
इन्द्रद्युम्नस्य नृपतेः क्षेत्रेऽस्मिन्पुरुषोत्तमे ॥
जगदीशप्रसादाय पितामहनिदेशतः ॥ ९९ ॥
एकोनं क्रमतः संस्थामवाप पृथिवीपतिः ॥
सहस्रं हयमेधस्य यथावद्विधिचोदितम् ॥ 2.2.17.१०० ॥
ततः साहस्रिके यज्ञे वाजिमेधे महीपतिः ॥
दिनेदिने दिव्यगतिर्बभूव नृपतिस्तदा ॥ १ ॥
सुत्यायाः सप्त दिवसाद्या रात्रिरभवत्पुरा ॥
तस्यास्तुरीयप्रहरे दध्यौ स विष्णुमव्ययम् ॥ २ ॥
ध्याने तस्मिन्ददर्शासौ महाभाग्यवशान्नृपः ॥
प्रत्यक्षमिव स श्वेतद्वीपं स्फटिकनिर्मितम् ॥ ३ ॥
समन्तात्परिवार्यैनं तिष्ठन्तं क्षीरसागरम् ॥
महाकल्पद्रुमैः पुष्पगन्धामोदिदिगन्तरैः ॥ ४ ॥
फलपल्लववल्केषु बहिरन्तश्च सर्वशः ॥
शङ्खचक्राङ्कितैः शुभ्रैः सर्वालङ्कारभूषितः ॥ ५ ॥
महामञ्जिष्ठवर्णैश्च मूर्तिभिस्तैर्मुरद्विषः ॥
तन्मध्ये घटितं दिव्यमणिभिर्मण्डपोत्तमम् ॥ ६ ॥
मध्यस्थसूर्यवद्भासिरत्नसिंहासनोज्ज्वलम् ॥
क्षीराब्धिशीतकल्लोलमन्दवातमनोहरम् ॥ ॥ ७ ॥
तन्मध्ये ददृशे देवं शङ्खचक्रगदाधरम् ॥
नीलजीमूतसङ्काशं वनमालाविभूषितम् ॥ ८ ॥
सर्वलावण्यभवनं सौन्दर्यश्रीनिकेतनम् ॥
निर्भर्त्सयन्तं वपुषा पिनद्धं दिव्यभूषणम् ॥ ९ ॥
दक्षपार्श्वे स्थितं तत्र अनन्तं धरणीधरम् ॥
कोटिचन्द्रप्रतीकाशं हिमाद्रिसदृशप्रभम् ॥ 2.2.17.११० ॥
फणामुकुटविस्तारच्छत्रीभूतं मनोहरम् ॥
मणिकुण्डलयुग्माङ्कं चारुनीलनिचोलकम् ॥ ११ ॥
हललाङ्गलशङ्खारिस्फुरद्बाहुचतुष्टयम्॥
हारकेयूरवलय मुद्रिकाभिरलङ्कृतम् ॥ १२ ॥
मेखलाकटिसूत्राढ्यं दिव्यरत्नप्रसाधनम् ॥
दिव्यहालाक्षीबमूर्तिं चारुहासं सुनेत्रकम् ॥ १३ ॥
दक्षपार्श्वस्थितां चास्य लक्ष्मीं तां शुभलक्षणाम् ॥
वराभयाब्जहस्तां वै कुङ्कुमाभां सुलोचनाम् ॥ १४ ॥
त्रैलोक्ययुवतीवृन्ददृष्टान्ताद्भुतविग्रहाम् ॥
ददर्श पद्मासनगां लावण्याम्बुधिपुत्रिकाम् ॥ १५ ॥
पितामहं च ददृशे पुरतोऽस्य कृताञ्जलिम् ॥
वामपार्श्वस्थितं चक्रं नानामणिमयं विभोः ॥ १६ ॥
सनकाद्यैर्मुनीन्द्रैस्तं स्तूयमानं जगद्गुरुम् ॥
दृष्ट्वा स्वप्ने स राजा वै प्रहृष्टो द्विजसत्तमाः ॥ १७ ॥
अदृष्टपूर्वरूपं तं ज्योतिर्मयमनन्तकम् ॥
तुष्टाव तत्र ध्यानस्थो हर्षगद्गदया गिरा ॥ १८ ॥
॥ इन्द्रद्युम्न उवाच ॥ ॥
नमस्ते जगदाधार जगदात्मन्नमोऽस्तु ते ॥
कैवल्यत्रिगुणातीत गुणाञ्जन नमोऽस्तु ते ॥ १९ ॥
सुशुद्धनिर्मलज्ञानस्वरूपाय नमोऽस्तु ते ॥
शब्दब्रह्माभिधानाय जगद्रूपाय ते नमः ॥ 2.2.17.१२० ॥
संसारपतितश्रान्त दुःखध्वम्स नमोऽस्तु ते ॥
दुर्भेद्यहृदयग्रन्थिभेदकाय नमोऽस्तु ते ॥ २१ ॥
द्विसप्तभुवनागारमूलस्तम्भाय ते नमः ॥
ब्रह्माण्डकोटिघटनाशिल्पिने चक्रिणे नमः ॥२२॥
करुणामृतपाथोधिसुधाधाम्ने नमो नमः ॥
दीनोद्धारैकगुह्याय कृपापाथोधये नमः ॥ २३ ॥
प्रकाशकानां सूर्यादिज्योतिषां ज्योतिषे नमः ॥
प्रतिस्वस्वनदीप्ताय अन्तःपापाग्नये नमः ॥ २४ ॥
पावकाय पवित्राय पवित्राणां नमो नमः ॥
गरिष्ठाय वरिष्ठाय द्राघिष्ठाय नमो नमः ॥ २५ ॥
नेदिष्ठाय दविष्ठाय क्षोदिष्ठाय नमो नमः ॥
वरेण्याय सुपुण्याय नारायण नमोऽस्तु ते ॥ २६ ॥
परित्राहि जगन्नाथ दीनबन्धो नमोऽस्तु ते ॥
निस्तीर्णोऽहं भवाम्भोधिं प्राप्य त्वां तरणिं सुखाम् ॥ २७ ॥
त्वयि दृष्टे रमानाथ क्लेशा व्यपगता मम ॥
चिदानन्दस्वरूपं त्वां प्राप्तानां दुःखसङ्क्षयः ॥ २८ ॥
ध्रुवं नाथ समुत्पन्नपरमानन्दहेतुकम् ॥
त्राहि त्राहि भवाम्भोधिमग्नं मां दीनचेतसम् ॥ २९ ॥
मध्याह्नार्कोदिते व्योम्नि कुतः सन्तमसोदयः ॥
ध्यानस्थितः स्तुवन्नेवं प्रणम्य जगदीश्वरम् ॥ 2.2.17.१३० ॥
ध्यानावसाने स पुनः स्वयं जाग्रदबुध्यत ॥
स्वप्नान्त इन्द्रद्युम्नोऽपि सस्मारात्मानमात्मना ॥ ३१ ॥
अत्यद्भुतमिदं स्वप्नं दृष्ट्वा च नृपकुञ्जरः ॥
मेने कृतार्थमात्मानं हयमेधक्रतोस्तथा ॥ ३२ ॥
सहस्रं सफलं चैव स्वभाग्यं समुपस्थितम् ॥
न हि देवर्षिवचनं वृथा भवति कर्हिचित् ॥ ३३ ॥
प्रत्यक्षं मे कथं नाथः स्वयमत्र भविष्यति ॥
इति चिन्ताकुलो रात्रिशेषं नीत्वा विशाम्पतिः ॥ ३४ ॥
शशम्स नारदस्याग्रे यथा स्वप्नोऽन्वभूयत ॥
स चापि नारदः प्राह शोकस्ते विगतो नृप ॥ ३५ ॥
अरुणोदयकाले हि भगवन्तं ददर्श यत् ॥
दशाहात्फलदः स्वप्नस्तस्मिन्काले नृपोत्तम ॥ ३६ ॥
क्रत्वन्ते भगवानत्र प्रत्यक्षस्ते भविष्यति ॥
यदाह मद्गिरा त्वां हि चराचरगुरुर्विधिः ॥ ३७ ॥
सोऽपि त्वया जगत्स्रष्टा स्वप्नेऽस्मिन्नवलोकितः ॥
तदनुष्ठीयतां यज्ञः पराग्रे न प्रकाशय ॥ ३८ ॥
स्वप्नोऽयं नृपशार्दूल दुर्बोधाचरितो हरेः ॥
किन्तु भाग्यवतस्त्वेव स्वप्नस्तादृक्प्रजायते ॥ १३९ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे पुरुषोत्तमक्षेत्रमाहात्म्ये जैमिनिऋषिसंवादे सप्तदशोऽध्यायः ॥ १७ ॥