०१५

॥ जैमिनिरुवाच ॥ ॥
ततस्ते प्रस्थिता विप्रा नीलकण्ठान्तिकं मुदा ॥
प्रपूज्य तं महादेवं श्रीदुर्गां प्रणिपत्य च ॥ १ ॥
विमुच्य स्यन्दनवरं पादचाराः सहानुगाः ॥
आरोढुं नीलभूमिध्रं प्रयाताः संयतेद्रियाः ॥ २ ॥
नानाद्रुमलताकीर्णं नानापक्षिगणाकुलम् ॥
शिलाविषमसंरोधमभितः परिवेषकम् ॥ ३ ॥
भ्रमद्भ्रमरसम्भूतभ्रमकृद्गण्डशैलकम्॥
दक्षिणाम्भोधिकल्लोलजलावृतनितम्बकम् ॥ ४ ॥
अप्रतर्क्यं सदा मर्त्यैर्दुष्प्रवेश्यं महोरगैः ॥
मत्तमातङ्गकघटाबृंहितैर्भीषणान्तरम् ॥ ५ ॥
श्वापदैश्चिरसंवासैः शस्त्राघातमवेदिभिः ॥
निर्भयैः परितः कीर्णं मृगयूथैरनेकशः ॥ ६ ॥
प्रवेष्टुकामा न प्रापुर्यदा ते मार्गमन्तरम्॥
तदा नारदसंसर्गाद्विदित्वा तु गिरेः शिरः ॥ ७ ॥
आसेदुर्यत्र वसति कृष्णागुरुतरोरधः ॥
सर्वापद्भयसंहर्ता दिव्यसिंहवपुर्विभुः ॥ ॥ ८ ॥
यं दृष्ट्वा ब्रह्महत्याया लीयन्ते कोटयो नृणाम् ॥
व्यात्तास्यं भीमदशनमापिङ्गलसटाकुलम् ॥ ९ ॥
उग्रं त्रिनेत्रं दैत्यस्य स्वोरावुत्तानशायिनः ॥
वक्षःस्थलं दारयन्तं नखरैर्वज्रदारुणैः ॥ 2.2.15.१० ॥
अरुणाभं लसज्जिह्वं साट्टहासमुखं विभुम् ॥
शङ्खचक्रलसद्बाहुं किरीटमुकुटोज्ज्वलम् ॥॥ ११ ॥
नेत्रोच्छलद्वह्निकणसन्त्रासितदिगन्तरम् ॥
प्रचण्डाघातभूम्यन्तप्रविष्टपदपङ्कजम् ॥ १२ ॥
तमादिमृर्तिं ते दृष्ट्वा नारदाग्रे तदा हरिम् ॥
निर्भया ददृशुर्दूरात्प्रणेमुर्विगतज्वराः ॥ १३ ॥
इन्द्रद्युम्नोऽपि तं दृष्ट्वा नारदोक्तौ विशस्वसे ॥
भाविकार्ये प्रत्ययवानिदमाह महामुनिम् ॥ १४ ॥
महर्षे कृतकृत्योऽस्मि त्वं हि ज्ञाननिधिः परम् ॥
दुराराध्यो नृसिहोऽयं दर्शनेऽपि भयावहः ॥१५॥
भवादृशैः सुसेव्योयं मादृशैर्दूरतोऽपि सः ॥
दर्शनात्कृतकृत्योऽस्मि संलीनाशेषपातकः ॥ १६ ॥
त्वत्सन्निधानादेवात्र तिष्ठामो निर्भया मुने ॥
अत्युग्र मूर्तिर्भगवान्स्वल्पवीर्यैर्नरैः कथम् ॥ १७ ॥
आराध्यते दैत्यराजं त्रिलोकेशं विदारयन् ॥
यस्य नीलमयी मूर्तिः कृपासिन्धोः स्थिता तु वै ॥ १८ ॥
कस्मिन्स्थले मुनिश्रेष्ठ दर्शनाद्या विमुक्तिदा ॥
तन्मे दर्शय विप्रेन्द्र यन्मे मुक्तिप्रदं मतम् ॥ १९ ॥
इत्युक्तो नारदस्तस्मै दर्शयामास पावनम् ॥
स्थानं यत्र स्थितो देवः स्वर्णसैकत संवृतः ॥ 2.2.15.२० ॥
पश्यैतं योजनायामं योजनद्वयमुच्छ्रितम् ॥
कल्पान्तस्थायिनं भूप न्यग्रोधं मुक्तिदं नृणाम् ॥ २१ ॥
छायायाः क्रमणाद्यस्य मुच्यते पापकञ्चुकात् ॥
अस्य मूले नरः प्राणांस्त्यजन्मुक्तिमवाप्नुयात् ॥२२॥
न्यग्रोधरूपं दृष्ट्वापि नारायणमकल्मषम् ॥
निष्पापो जायते मर्त्यः किमुत पूजयन्स्तुवन् ॥ २३ ॥
अस्य मूलात्प्रतीच्यां हि नृसिंहस्योत्तरे नृप ॥
अतिष्ठन्माधवो यत्र चतुर्मूर्तिधरो विभुः ॥ २४ ॥
अनुग्रहीतुं त्वामेव पुनरत्रोद्भविष्यति ॥
श्वेतद्वीपे यथा विष्णुर्भोगभूमौ निजालयः ॥ २५ ॥
जम्बूद्वीपे कर्मभूमौ निजं स्थानमिदं स्मृतम् ॥
स्वस्यैवातिरहस्यत्वान्न प्रकाशोस्य सम्मतः ॥ २६ ॥
मोक्षाधिकारी जानाति स्थलमेतन्महीपते ॥
अविश्वासपदं नृणां दुष्कृतां हि विशेषतः ॥ २७ ॥
अत्र याऽन्या प्रतिकृतिः पौरैर्विष्णोः प्रतिष्ठिता ॥
सापि मुक्तिप्रदा भूप किं पुनः सा स्वयम्भुवा ॥ २८ ॥
अन्तर्द्धानतिरोधाने सुनिमित्ते जगत्प्रभोः॥
अनुग्रहार्थं साधूनां जायते च युगेयुगे ॥ २९ ॥
नानावतारैर्भगवान्मत्स्यकूर्मादिकैर्नृप ॥
निमित्तनाशे च तिरोदधाति परमेश्वरः ॥ 2.2.15.३० ॥
निर्निमित्तं स्थितो नित्यमिह कारुण्यसागरः ॥
श्वेतद्वीपाद्यथा विष्णुरन्यत्रावतरेत्प्रभुः ॥ ३१ ॥
अत्र स्थितोऽपि स द्वारकाकाञ्चीपुष्करादिषु ॥
प्रकाशं याति कृपया तरुमूलप्ररोहवत् ॥ ३२ ॥
नानातीर्थेषु देशेषु क्षेत्रेष्वायतनेषु च ॥
अंशावतारास्तस्यैव मा भूत्ते संशयो नृप ॥३३॥
क्षणं न त्यजतीशानः क्षेत्रं क्षेत्रमिव स्वकम् ॥
त्वदुपज्ञस्तु भूपाल प्रकाशोऽन्यो भविष्यति ॥ ३४ ॥
इति सन्दर्शितं स्थानं नारदेन महात्मना ॥
साष्टाङ्गपातं भूमौ तदिन्द्रद्युम्नो ननाम ह ॥ ३५ ॥
मन्वानस्तु स्थितं देवं प्रकाशमिव तुष्टुवे ॥ ३६ ॥
॥ इन्द्रद्युम्न उवाच ॥ ॥
देवदेव जगन्नाथ प्रणतार्तिविनाशन ॥
त्राहि मां पुण्डरीकाक्ष पतितं भवसागरे ॥ ३७ ॥
त्वमेक एव दुःखौघध्वंसकः परमेश्वर ॥
क्षुद्राः क्षुद्रान्हि सेवन्ते सुखलेशस्य लिप्सया ॥ ३८ ॥
अनादित्रिविधौघस्य राशेः स्वस्य महांहसः ॥
दुरुच्छेद्यस्य सततं पूर्यमाणस्य जन्मनः ॥ ३९ ॥
किं पुनर्भक्तिभावेन साक्षान्मुक्तिप्रदं नृणाम्॥
कर्माधीनं तु ये मूढा वदन्ति त्वां क्रृपानिधिम् ॥ 2.2.15.४० ॥
ते न जानन्ति भगवन्कर्मैवं प्रेरितं त्वया ॥
अजामिलेन विप्रेण त्यक्त्वा वर्णाश्रमोदितम् ॥ ४१ ॥
किं न पापं कृतं स्वामिन्सोऽपि त्वन्नामकीर्तनात् ॥
मुक्तोऽभूत्स्मरणादेव पाशहस्तैर्विमोचितः ॥ ४२ ॥
सर्वेऽप्युपाया देवेश कीर्तितास्तव दर्शने ॥
त्वयि दृष्टे हि भिद्यन्ते संशया हृदि संस्थिताः ॥ ४३ ॥
निःसंशयो भवेत्सद्यः पापपुण्यक्षयो धुवम् ॥
त्वमेव शरणं दीनमनुगृह्णीष्व मां विभो ॥ ४४ ॥
निश्चितानि त्वया देव गर्भस्थस्य च यानि मे ॥
तैरेव मे जनिर्जातु याचे त्वां केवलं त्विदम् ॥ ४५ ॥
तिरश्चो मुक्तिदा मूर्तिः स्थिता ते याऽत्र तां पुनः ॥
अनेन चक्षुषा पश्यामीश नान्यत्प्रयोजनम् ॥४६॥
कृताञ्जलिपुटो राजा स्तुत्वैवं मधुसूदनम्॥
पुनर्ननाम धरणीपृष्ठे साश्रुविलोचनः ॥ ४७ ॥
ततोंऽतरिक्षगा वाणी सामसुस्वरभाषिणी ॥
उच्चचार नभोमध्ये इन्द्रद्युम्नस्य शृण्वतः ॥ ४८ ॥
मा चिन्तां व्रज भूपाल व्रजिष्ये त्वदृशोः पथम् ॥
पैतामहं वचः प्राह नारदो यत्कुरुष्व तत् ॥ ४९ ॥
तच्छ्रुत्वा दिव्यवचनं नारदस्य च भाषितम् ॥
श्रद्दधे वाजिमेधाय भगवत्प्रीतिकारकः ॥ 2.2.15.५० ॥
नारदं च पुनः प्राह हर्षगद्गदया गिरा ॥
मुने त्वया यदादिष्टं चतुर्मुखनिदेशतः ॥ ५१ ॥
अशरीरा त्वियं वाणी अनुजज्ञे तदेव हि ॥
पितामहो जगन्नाथो भेदो वै नाऽनयोः क्वचित् ॥ ५२ ॥
पद्मयोनेः सुतस्त्वं हि वचस्ते भगवद्वचः ॥
तत्कर्तव्यं प्रयत्नेन यच्छ्रेयउपपादकम् ॥ ५३ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे पुरुषोत्तमक्षेत्रमाहात्म्ये जैमिनिऋषिसंवादे पञ्चदशोऽध्यायः ॥ १५ ॥