०१४

॥ मुनय ऊचुः ॥ ॥
रथमारुह्य तौ यातौ यदा नारदपार्थिवौ ॥
क्व यातौ चक्रतुः किं वा तन्नो वद महामुने ॥१॥
॥ जैमिनिरुवाच ॥ ॥
सार्द्धं च विद्यापतिना पुरोहितकनीयसा ॥
क्षेत्रान्ते नीलकण्ठस्य समीपमुपजग्मतुः ॥ २ ॥
दुर्निमित्तमभून्मार्गे व्रजतोऽस्य महीक्षितः ॥
वामाक्षिभुजयोः स्पन्दः स्फुरणं च मुहुर्मुहुः ॥ ३ ॥
तद्दृष्ट्वा नृपशार्दूलो विषादमुपसेदिवान् ॥
पप्रच्छ कारणं चास्य सर्वज्ञाननिधिं मुनिम् ॥ ४ ॥
अव्याहतं मे साम्राज्यं प्राप्तं क्षेत्रोत्तमं त्विदम् ॥
दर्शनार्थं माधवस्य यात्रेयं तु शुभावहा ॥ ५ ॥
अकार्यं मे भवेदद्य किं मुने ब्रूहि तत्त्वतः ॥
स्पन्दते वामनेत्रं तु स्फुरते च भुजोऽसकृत् ॥ ६ ॥
तच्छ्रुत्वा नारदः प्राह भावि कार्यं च सूचयन् ॥
श्रावयन्कुशलं वाक्यं यदुक्तं पद्मयोनिना ॥ ७ ॥
नारद उवाच ॥ ॥
मा भूद्विषादस्ते भूप सविघ्नं प्रायशः शुभम् ॥
विघ्नान्ते च शुभं पुंसां पुनर्भाग्यवतां नृप ॥ ८ ॥
सत्यं त्वं सार्वभौमोऽसि क्षेत्रं विष्णोर्वपुस्त्विदम् ॥
यात्रा तेऽत्र यदर्थेयं सोzऽतर्द्धानमुपागमत् ॥ ९ ॥
एष विद्यापतिर्विप्रो दिने यस्मिन्ददर्श तम् ॥
सायङ्काले ततोऽन्येद्युः स्वर्णवालुकया वृतः ॥
ययौ पातालनिलयं मर्त्यलोके सुदुर्लभः ॥ 2.2.14.१० ॥
॥ जैमिनिरुवाच ॥ ॥
तच्छ्रुत्वा घोरवचनं वव्रपातसमं नृपः ॥
पपात धरणीपृष्ठे निःसञ्ज्ञः स द्विजोत्तमाः ॥ ११ ॥
तं तथा पतितं दृष्ट्वा पुरोहितपुरोगमाः ॥
स्निग्धाः सखायः सर्वे ते हाहाकारमुपाद्रवन् ॥१२॥
कर्पूरशीतलं वारि मुखे सिक्त्वा पुनःपुनः ॥
चन्दनागुरुकर्पूरैः सर्वाङ्गं लिलिपुश्च ते ॥ १३ ॥
चामरैस्तालवृन्तैश्च वीजयामासुराशु तम् ॥
नारदोऽपि च सम्भ्रान्तो धारयन्योगधारणाम् ॥ १४ ॥
प्राणानररक्षन्नरपतेर्जानंस्तत्र शुभायतिम् ॥
सोऽपि राजा चिरात्सञ्ज्ञां लेभे यत्नैरनुत्तमैः ॥ १५ ॥
उत्थाय पादयोर्विप्रा नारदस्यापतत्पुनः ॥
किमकार्षं मुने पापं कस्मिञ्जन्मान्तरे दृढम् ॥ १६ ॥
यस्य पाकदशायां वै दुःखमासीत्सुदारुणम् ॥
कर्मणा मनसा वाचा नो द्विजानां गवामपि ॥
अपराधः कृतः कश्चित्स्वप्नेऽपि मुनिपुङ्गव ॥ १७ ॥
नित्यं नैमित्तिकं काम्यं कर्म यत्परिकीर्तितम् ॥
राज्ञस्तन्मुनिशार्दूल न त्यक्तं वै मया क्वचित् ॥ १८ ॥
देवतातिथिभृत्यानां पितॄणां च महामुने ॥
तथाश्रितानां बन्धूनां नापमानः कृतो मया ॥ १९ ॥
पञ्चाशदपराधा ये विष्णोर्वैष्णवपुङ्गव ॥
त्यक्ताः प्रयत्नात्ते सर्वे क्रुद्धा इव महोरगाः ॥ 2.2.14.२० ॥
किं भाग्यं चरितं तेन पुरोहितकनीयसा ॥
यच्चर्मचक्षुषा दृष्टो भगवान्नीलमाधवः ॥ २१ ॥
किमर्थं राज्यविभ्रंशो जानतैष न्वया कृतः ॥
यात्रासमय एवैतत्कथं वा न प्रकीर्तितम् ॥ २२ ॥
किमर्थं वा श्रोत्रियाणां स्थानभ्रंशो मया कृतः ॥
कथमेतैः परित्यक्ताश्चिरात्संस्कृतभूमयः ॥ २३ ॥
आवंशभूतेर्वृत्तिर्या प्रजाभिः परिपालिता ॥
मदर्थं सा परित्यक्ता जीविष्यन्ति कथं नु ताः ॥ २४ ॥
प्राणान्न धारयिष्यामि न द्रक्ष्यामि यदा हरिम् ॥
एष मे निश्चयो ब्रह्मन्मयि नष्टे कुतः प्रजाः ॥ ॥ २५ ॥
मुने सदा सकरुणस्त्वं मां शास्ति शुभाशुभम् ॥
साम्प्रतं मत्सुतं नीत्वा मालवेष्वभिषेचय ॥ २६ ॥
स पालयतु न्यायेन न शोचन्तु इमाः प्रजाः ॥
राजानो ये समायातास्ते सर्वं मन्निदेशतः ॥ २७ ॥
मत्सूनोर्मालवेशस्य प्रयान्तु वचने स्थिताः ॥
प्रायोपवेशविधिना चिन्तयन्नीलमाधवम् ॥ २८ ॥
आयुःशेषं करिष्यामि सफलं क्षेत्रसंस्थितः ॥ २९ ॥
॥ जैमिनिरुवाच ॥ ॥
विलपन्तमिन्द्रुम्नं राजानं ब्रह्मणः सुतः ॥
उत्थाप्य प्रश्रयगिरा सान्त्वयन्निदमब्रवीत् ॥ 2.2.14.३० ॥
॥ नारद उवाच ॥ ॥
राजन्पण्डितमूर्द्धन्यो वैष्णवो धैयसागरः ॥
श्रेयः सविघ्नं सततं कथं वा नावधारयेः ॥ ३१ ॥
इदं तु परमं श्रेयः पुंसो जन्मशतार्जितम् ॥
शरीरधारिणं पश्येच्चर्मचक्षुर्गदाधरम् ॥ ३२ ॥
निरङ्कुशा हरेर्लीला केन वाप्यवधार्यते ॥
जीवन्मुक्तोऽप्यहं राजंस्तल्लीलां नातिवर्तये ॥ ३३ ॥
कियता वञ्चितो नाहं दृढभक्तोऽन्तिकस्थितः ॥
दुरत्यया तस्य माया बहुजन्मशतैरपि ॥ ३४ ॥
अनन्ता तस्य मायेयं दुर्ज्ञेया पद्मयोनिना ॥
नाभिपद्मास्थितेनापि नित्यं च स्तुतिशालिना ॥ ३५ ॥
स्वभाव एवं कथितस्तस्य मायाविनो नृप ॥
विशेषं कथयाम्येवं त्वं तु भाग्यवतां वरः ॥ ३६ ॥
तिस्रोऽपि मूर्तयस्तस्य त्वदनुग्रहबुद्धयः ॥
चराचराणां स्रष्टा यः साक्षाल्लोकपितामहः ॥
मामुवाच व्रजाशु त्वमिन्द्रद्युम्नस्य चान्तिकम् ॥ ३७ ॥
नीलाचलं प्रयात्येष दिदृक्षुर्नीलमाधवम् ॥
अन्तर्द्धानं गतो ह्येष यमेन प्रार्थितो विभुः ॥ ३८ ॥
न तत्र शोकः कर्तव्यः शक्यते तत्र नान्यथा ॥
वाच्यो मद्वचनाद्राजा पञ्चमी मम सन्ततिः ॥ ३९ ॥
तत्कृते परमात्मानं प्रसाद्य पुरुषोत्तमम् ॥
श्वेतद्वीपान्नयिष्यामि सहस्रान्ते महाक्रतोः ॥ 2.2.14.४० ॥
इन्द्रद्युम्नः स इदानीं क्षेत्रे श्रीपुरुषोत्तमे ॥
अश्वमेधसहस्रैस्तु यजन्विष्णुं स तिष्ठतु ॥ ४१ ॥
तदन्ते दारवतनुं विष्णुं द्रक्ष्यति चक्षुषा ॥
सोऽवतारो हरेः ख्यातिं तस्य द्वारा गमिष्यति ॥ ४२ ॥
तदा तु तनवो विष्णोः प्रतिष्ठप्या मया धुवम् ॥
पुरा स्म मणिमूर्तिस्तु चतुर्द्धावस्थितो हरिः ॥४३॥
दृष्ट्वा पुरोधसा तस्य साक्षादग्रे निवेदितः ॥
दिव्यदारुवपुर्भूयश्चतुर्द्धावतरिष्यति ॥ ४४ ॥
तस्मान्मा व्यथ राजेन्द्र वाञ्छा ते सफला ध्रुवम् ॥
भविष्यति न सन्देहो निर्व्यलीको वसेह वै ॥ ४५ ॥
॥ जैमिनिरुवाच ॥ ॥
सान्त्वयित्वा निनायेत्थं राजानं नारदस्तदा ॥
विश्वासपदवीं विप्राः पुनर्वाक्यमुवाच ह ॥ ४६ ॥
॥ नारद उवाच ॥ ॥
शङ्खाकृतेः क्षेत्रवरस्य चाग्रे यो नीलकण्ठः खलु दुर्गयाऽऽस्ते ॥
यामो वयं तत्र च वाजिमेधक्रतूपयोग्या सुसमा स्थली सा ॥ ४७ ॥
तस्यां विनिर्माय सहस्रवर्षस्थिरां सुशालां हयमेधनाय ॥
नीलाद्रिवासस्य नृसिंहमूर्तिं दृष्ट्वा कृतार्थं विरचय्य जन्म ॥ ४८ ॥
तस्यैव मूर्तिं प्रतियातनां ते नित्यार्चनीयां तव पूजनीयाम् ॥
प्रत्यक्प्रतिष्ठाप्य समस्तविघ्नविनाशहेतोः फलबृंहणाय ॥ ४९ ॥
आरप्स्यामः क्रतुवरं मुनिवर्यैर्यथोचितम् ॥
विलम्बोऽत्र न हि श्रेयानिति पैतामहं वचः ॥ 2.2.14.५० ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे पुरुषोत्तमक्षेत्रमाहात्म्ये जैमिनिऋषिसंवादे चतुर्दशोऽध्यायः ॥ १४ ॥