॥ मुनय ऊचुः । ॥
कपोतेशस्थली चापि कथं ख्याता महामुने ॥
को वा कपोतः कश्चेश एतन्नो वक्तुमर्हसि ॥१॥
॥ जैमिनिरुवाच ॥ ॥
पुरा कुशस्थली सा वै असेव्या सर्वजन्तुभिः ॥
तीक्ष्णधारैः कुशाग्रैस्तु परितः कण्टकैश्चिता ॥२॥
निस्तरुर्निर्जलाधारा पिशाचवसतिर्यथा ॥
यदा पूर्वं भगवतो नान्यो देवोऽपि पूज्यते ॥३॥
पूज्यः स्यामहमप्येवं स्पर्धासीद्धूर्जटेस्तदा ॥
चिन्तयन्निति तस्यैव विष्णोर्भक्तौ मनोऽदधत्॥ ४ ॥
सर्वनिर्विषये देशे स्थित्वाऽहं निष्परिग्रहः ॥
सुमहत्तप आस्थाय तोषयिष्यामि तं हरिम् ॥ ५ ॥
किं वदेयं रमेशाय का स्तुतिः शारदापतेः ॥
सर्वब्रह्माण्डनाथस्य किं वान्यत्तुष्टिकारकम् ॥ ६ ॥
तस्मान्न बाह्यं वस्त्वन्यदुपयोगाय तस्य वै ॥
अन्तर्यागं समास्थाय निर्व्यलीकेन चेतसा ॥ ७ ॥
भक्तेभ्य आत्मप्रददं चराचरगुरुं हरिम् ॥
आराधयिष्ये सर्वेषां पूज्यः स्यां तत्प्रसादतः ॥ ८ ॥
तत इत्यभिसन्धाय ययौ पुण्यां कुशस्थलीम् ॥
समीपे नीलगोत्रस्य सर्वद्वन्द्वविवर्जितः ॥ ९ ॥
ततस्तेपे तपस्तीव्रं वायुभक्षो महेश्वरः ॥
कपोत इव सूक्ष्मोऽभूदष्टमूर्तिरपि प्रभुः ॥ 2.2.13.१० ॥
ततः प्रसन्नो भगवानैश्वर्यं प्रददौ तदा ॥
येनात्मतुल्यः सञ्जातः पूजासम्माननादिषु ॥ ११ ॥
तपःप्रभावात्तस्यासीत्स्थली वृन्दावनोपमा ॥
सरस्तडागसरसी नदीभिः शोभितान्तरा ॥ १२ ॥
नानाद्रुमैर्लताभिश्च सर्वर्तुफलपुष्पकैः ॥
मधुमत्तद्विरेफाणां झङ्कारैर्मुखराशया ॥ १३ ।
नानापक्षिगणाकीर्णा सर्वजन्तुसुखाश्रया ॥
कपोतसदृशो जातो यतः स तपसा शिवः ॥ १४ ॥
मुरारेराज्ञया सोऽत्र कपोतेश्वरतां गतः ॥
तदाज्ञयाऽत्र वसति मृडान्या त्र्यम्बकः सदा ॥ १५ ॥
येऽर्चयन्ति कपोतेशं स्तुवन्ति प्रणमन्ति वा ॥
निर्धूतकल्मषास्ते वै प्रयान्ति पुरुषोत्तमम् ॥ १६ ॥
अतः परं प्रवक्ष्यामि बिल्वेशमहिमां द्विजाः ॥
पातालवासिनः पूर्वं दैत्या भित्त्वा महीतलम् ॥ १७ ॥
उपद्रवन्ति भूर्लोकं भक्षयन्ति जनांस्तथा ॥
भारावतरणार्थाय देवकीगर्भसम्भवः ॥ १८ ॥
पालयामास पृथिवीं यदा स भगवान्प्रभुः ॥
यादवैः पाण्डवैः सार्द्धं तदा तत्स्थानमागतः ॥ १९ ॥
तीर्थराजस्य सलिले स्नात्वा तं नीलमाधवम् ॥
दूरात्प्रणम्य मनसा दैत्यद्वारमुपागतः ॥ 2.2.13.२० ॥
दृष्ट्वा तद्विवरं घोरमप्रवेश्यं तु मानवैः ॥
भ्रान्त्या सम्मोहयल्ँलोकान्प्रथयञ्छिवपूज्यताम् ॥ ९३ ॥
बैल्वं फलं समादाय तत्रावाह्य त्रिलोचनम् ॥
पूजयित्वा पुरारातिं तुष्टावासुरसूदनः ॥ २२ ॥
॥श्री भगवानुवाच ॥ ॥
नमस्ते त्रिगुणातीत गुणत्रयविभागकृत् ॥
त्रयीमय त्रयातीत त्रिकालज्ञानिने नमः ॥ ॥ २३ ॥
शशिसूर्याग्निनेत्राय ब्रह्मण्याय वरात्मने ॥
अष्टैश्वर्यनिधानाय तुभ्यमष्टात्मने नमः ॥ २४ ॥
यस्य रूपं तमःपारे तमोनाशनमव्ययम् ॥
अज्ञानानां तमश्छिन्नं तस्मै वितमसे नमः ॥ २५ ॥
एवं स्वमात्मनात्मानं स्तुत्वा स भगवान्प्रभुः ॥
तस्य प्रसादाद्विवरं सुप्रवेशमपश्यत ॥ २६ ॥
तेन मार्गेण पातालं ससैन्योऽभ्यगमत्प्रभुः ॥
हत्वा तत्र बलोदग्रान्दैत्यान्भारावतारणः ॥ २७ ॥
पुनरागम्य तत्रैव स्थित्वा स वृषभध्वजम् ॥
सम्पूज्य भगवान्द्वाररोधाय स्थापयञ्छिवम् ॥ २८ ॥
इदमाह महाबुद्धिर्भक्तिवश्यो गदाधरः ॥
धूर्जटे तिष्ठ प्रासादे रुन्धानोऽसुर निर्गमम् ॥ २९ ॥
त्वदन्यः कः क्षमः शम्भो कर्बूरबलनाशने ॥
स्थापयित्वा महादेवं ततो द्वारावतीं ययौ ॥ 2.2.13.३० ॥
ततःप्रभृति बिल्वेशः पृथिव्यां ख्यातिमागतः ॥
पूर्वविधिः स बिल्वेशः क्षेत्रराजस्य भो द्विजाः ॥ ३१ ॥
तं दृष्ट्वा पापहन्तारं मृड्रानीपतिमव्ययम् ॥
सर्वान्कामानवाप्नोति विपत्तिं दुस्तरां जयेत् ॥ ३२ ॥
कपोतबिल्वेश्वरयोर्माहात्म्यं कथितं तु वः ॥
अतः परं भो मुनयः किमन्यच्छ्रोतुमिच्छथ ॥ ३३ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे पुरुषोत्तमक्षेत्रमाहात्म्ये जैमिनिऋषिसंवादे त्रयोदशोऽध्यायः ॥ १३ ॥