०१२

॥ जैमिनिरुवाच ॥ ॥
उक्ते ब्रह्मसुतेनेत्थमिन्द्रद्युम्नो महीपतिः॥
मुनेस्तुवचनं श्रुत्वा प्रहृष्टेनान्तरात्मना ॥
विचार्य परया बुद्ध्या श्रमं मेने फलावहम् ॥१॥
अहो मे परमं भाग्यं बहुजन्मान्तरार्जितम्॥
व्यवसाये ममोद्युक्तः सर्वलोकपितामहः॥२॥
जीवन्मुक्तं स्वतनुजं मत्सहायमकारयत् ॥
सहायो यादृशः पुंसां भवेत्कार्यं हि तादृशम्॥३॥
श्रुतं सभासु सर्वासु इति वृद्धानुशासनम् ॥
स इत्थं चिन्तयन्राजा विसृज्य च सभासदः ॥४॥
ततो मुनिं करे धृत्वा विवेशान्तःपुरे द्विजाः ॥
तमर्चयित्वा विधिवत्पल्यङ्के सह तेन वै ॥५॥
निशावशेषं नृपतिर्निनाय संलपन्मिथः ॥
ततः प्रभाते विमले नित्यं कर्म समाप्य वै ॥ ६ ॥
पूजयित्वा जगन्नाथं सन्ततार महानदीम् ॥
ओढ्रदेशाधिपेनाग्रे गच्छतादिष्टपद्धतिः॥ ७ ॥
एकाम्र वनकं क्षेत्रमभियातो बलान्वितः ॥
स गत्वा किञ्चिदध्वानं प्राप्य गन्धवहाभिधाम् ॥८॥
नदीं वेगवतीं शीततोयामाक्रम्य वेगवान् ॥
पूर्वाह्नपूजासमये कोटिलिङ्गेश्वरस्य वै ॥ ९ ॥
चर्चरीशङ्खकाहालमृदङ्गमुरजध्वनिम् ॥
व्यश्नुवानं महारण्यं दूराच्छुश्राव भूपतिः॥2.2.12.१०॥
मन्यमानो भगवतो नीलाचल निवासिनः ॥
उवाच नारदं प्रीतो ध्वनिः कुत्र महामुने ॥ ११ ॥
नीलाद्रिशिखरावासः प्राप्तः किं परमेश्वरः ॥
यदर्चासमये ह्येष श्रूयते सङ्कुलध्वनिः ॥ १२ ॥
उताहोप्यन्यदेवो वा निकटे वर्त्तते मुने ।
इति पृष्टस्तदा राज्ञा प्रोवाच मुनिपुङ्गवः ॥ १३ ॥
राजन्सुदुर्लभं क्षेत्रं गोपितं मुरवैरिणा ॥
न तत्रास्तीति भगवान्कैरपि ज्ञायते नृभिः ॥ १४ ॥
त्वं हि भाग्यवतां श्रेष्ठस्त्वद्भाग्यात्ते पुरोधसा ॥
दृष्टः कथञ्चिद्भगवान्संयतेन्द्रियवर्त्मना ॥ १५ ॥
त्वं हि तावद्बलैर्युक्तः षडङ्गैनृपसत्तम ॥
साहसेऽतिप्रवृत्तोऽसि संशयो मे महीपते ॥ १६ ॥
संवर्त्तते नीलगिरिर्योजने तु तृतीयके ॥
इदं त्वेकाम्रकवनं क्षेत्रं गौरीपतेर्विभोः ॥
नातिदूरे महीपाल भीतः स शरणागतः ॥ १७ ॥
॥ इन्द्रद्युम्न उवाच ॥ ॥
कथं स भीतो गौरीशः कं वा शरणमागतः ॥ १८ ॥
ददाह त्रिपुरं घोरं शरेणैकेन यः पुरा ॥
अत्र मे विस्मयो जातः श्रोतुमिच्छामि दुर्लभम् ॥ १९ ॥
रक्षिता भवभीतानां भवः परमपावनः ॥
किमर्थं भयभीतोऽसौ कः समर्थोऽस्य वै जये ॥ 2.2.12.२० ॥
॥ नारद उवाच ॥ ॥
अत्र ते कथयिष्यामि पुरावृत्तं महीपते ॥
उपयेमे पुरा गौरीं तपसा वशमागतः ॥ २१ ॥
ब्रह्मचारी हिमगिरौ भगवान्नीललोहितः ॥
उत्सृज्य ब्रह्मचर्यं तु सोऽनङ्गशरपीडितः ॥ २२ ॥
तया रेमे रुचिरया यौवनोन्मत्तया नृप ॥
तत्पितुर्विषये भोगान्बुभुजे देवकाङ्क्षितान् ॥ २३ ॥
कदाचिदथ निर्याती स्ववासभवनात्सती ॥
सामपूर्वं कुलस्त्रीभिर्मात्रोक्ता सस्मितं वचः ॥ २४ ॥
आर्ये महत्तपस्तप्तं वरार्थं गहने वने ॥
निष्कुलो निर्गुणो वृद्धो वरः प्राप्तो वरानने ॥ २५ ॥
दिवारात्रिं न त्यजसि सन्निधिं तादृशस्य वै ॥
को गुणः कथ्यतां वत्से किं वा पत्युः प्रसादजम्॥ २६ ॥
भूषणाच्छादनं प्राप्तं ममैव गृहवासिनी ॥
चिरं तिष्ठसि भद्रे त्वं पितृभोगोपलालिता ॥ २७ ॥
त्रैलोक्ये यास्तु कन्या वै परिणीताः पितुर्गृहात्॥
प्रयात्यलङ्कृताभर्त्रा भर्तृवेश्मनि शुश्रुम ॥ २८ ॥
अहं तु मानसी कन्या पितृणां पितृलोकतः ॥
आगता तु महाभागे परिणीता हिमाद्रिणा ॥ २९ ॥
इत्थमुक्ता मया हास्यान्न क्रोधाच्चललोचने ॥
जामातुरग्रे नो वाच्यं स हि विष्णुसमो मतः ॥ 2.2.12.३० ॥
॥ नारद उवाच ॥ ॥
मातुरित्थं वचः श्रुत्वा भर्तृनिन्दाप्रपीडिता ॥
कोपप्रस्फुरदोष्ठी सा वाचं नोचे मनागपि ॥ ३१ ॥
प्रययावन्तिकं भर्तुर्निह्नु(ह्रु?)वानांऽबिकावचः ॥
जगाद परुषं वाक्यं स्नेहगर्भं मिताक्षरम् ॥ ३२ ॥
स्वामिन्न साम्प्रतं चैतद्यद्वासः श्वशुरालये ॥
क्षौद्रीयसामपि गुरोस्त्रैलोक्यस्य कथं नु ते ॥ ३३ ॥
तदावयोर्नात्र योग्या वसतिर्मे प्रिया विभो ॥
न सन्ति किं ते वासाय योग्या वै भूमयः प्रभोः ॥ ३४ ॥
इत्युक्तः शिवया सोऽथ भगवान्वृषभध्वजः ॥
तया सार्द्धं वृषारूढो मध्यदेशं ययौ त्वरन् ॥ ३५ ॥
विलङ्घ्य सर्व तीर्थानि प्रयागं पावनं महत् ॥
पूर्वसागरगामिन्या गङ्गाया उत्तरे तटे ॥ ३६ ॥
वाराणसीं नाम पुरीं गौर्या वासाय निर्ममे ॥
पञ्चक्रोशमितां रम्यां वरप्रासादशोभिताम् ॥ ३७ ॥
अट्टालकशतैर्युक्तामसङ्ख्योपवनैर्युताम् ॥
नानातीर्थसमायुक्तां नानाजनसमाकुलाम् ॥ ३८ ॥
आज्ञया धूर्जटेः शुभ्रां निर्मितां विश्वकर्मणा ॥
पावनैः शीतलैर्गङ्गातरङ्गैः क्षपितांहसाम् ॥ ३९ ॥
तत्र मध्ये पुरे स्वर्णप्राकाराट्टालशोभिते ॥
रत्नस्तम्भैः सुघटिते सर्वाशापरिपूरके ॥ 2.2.12.४० ॥
तया रेमे पशुपतिः श्रियेव मधुसूदनः ॥
सा पुरी विश्वनाथेन कदाचिन्नैव मुच्यते ॥ ४१ ॥
अविमुक्तेति सा ख्याता नृणां मुक्तिप्रदायिनी॥
पुरासीन्मनुजाधीश सेविता भवभीरुभिः ॥४२॥
तत्रोषिता तदा गौरी तेन भर्त्रा स्वलङ्कृता॥
मातरं पितरं चापि न सस्मार महीपते ॥ ॥४३॥
एवं बहुयुगेऽतीते कैलासाद्रिं स जग्मिवान् ॥
आत्मनः कोटिलिङ्गानि तत्र संस्थाप्य वै प्रभुः॥४४॥
राजानः पालयामासुस्तां पुरीं बहुशो नृप॥
तत्रासीत्काशिराजाख्यः पुरा द्वापरके युगे॥ ४५॥
शम्भुं सन्तोषयामास तपसोग्रेण वै प्रभुम्॥
जरासन्धपुरोगाणां राज्ञां जेतारमच्युतम्॥४६॥
सङ्ग्रामे प्रभविष्यामीत्यभिसन्धाय पार्थिवः॥
प्रादात्तस्मै वरं सोऽपि पिनाकी पारितोषितः॥ ४७॥
जेतासि कंसहन्तारं सङ्ग्रामे त्वमरिन्दम॥
तवार्थे प्रमथैः सार्द्धमहं योत्स्ये वृषे स्थितः ॥ ४८ ॥
शम्भोरिति वरं लब्ध्वा प्रमत्तः स नराधिपः ॥
शङ्खचक्रधरं सङ्ख्ये हरिमाह्वत वीर्यवान्॥ ४९ ॥
अन्तर्यामी स भगवाञ्ज्ञात्वा वृत्तान्तमीदृशम् ॥
चक्रं प्रस्थापयामास काशिराजस्य सूदने ॥ 2.2.12.५० ॥
तदुग्रदर्शनं चक्रं सहस्रादित्यवर्चसम् ॥
काशिराजशिरश्छित्त्वा तद्बलं तां पुरीं ततः ॥ ५१ ॥
ददाह कुपितं राजन्विष्णोराशयवीर्यवित् ॥
तद्दृष्ट्वा सुमहत्कर्म क्रुद्धः पशुपतिस्तदा ॥ ५२ ॥
गणैर्वृतो वृषारूढः पिनाकी तदुपाद्रवत् ॥
ततः सुदर्शनं चक्रं दृष्ट्वा तं प्रथमं पुरः ॥ ५३ ॥
शम्भुः पाशुपतास्त्रं तच्चकारोत्पातसन्निभम् ॥
पुरा विष्णोर्वरं प्राप्तं शम्भुना भक्तितोषितात् ॥ ५४ ॥
बलेनाप्याययिष्यामि तवास्त्रं संस्मृतस्त्वया ॥
मयि चेत्प्रतिकूलस्त्वं भविष्यति च निष्प्रभम् ॥ ५५ ॥
घोरे पाशुपते चास्मिन्नस्त्रे च विफलीकृते ॥
वाराणस्यां च दग्धायां भयत्रस्तो वृषध्वजः ॥ ५६ ॥
तुष्टाव जगतामदिमनादिं पुरुषोत्तमम् ॥ ५७ ॥ ॥
॥ महादेव उवाच ॥ ॥
नारायण परन्धाम परमात्मन्परात्पर ॥
सच्चिदानन्दविभव निरञ्जन नमोऽस्तु ते ॥ ५८ ॥
जगत्कारणसृष्ट्यादि कर्मकृद्गुणभेदतः ॥
मायया निजया गुप्त स्वप्रकाश नमोऽस्तु ते ॥ ५९ ॥
नान्तर्बहिर्बहिश्चान्तर्दूरस्थो निकटाश्रयः ॥
गुरुर्लघुः स्थिरोऽणीयान्स्थवीयांश्च नमोऽस्तु ते ॥ 2.2.12.६० ॥
कोटयश्चतुरास्यस्य पलार्द्धं मम चातुल ॥
यदपाङ्गविलासोत्थं तस्मै कालात्मने नमः ॥ ६१ ॥
एकैकरोमाकलितब्रह्माण्डगणसंवृतम् ॥
मानातीतं वपुर्यस्य तस्मै विश्वात्मने नमः ॥ ६२ ॥
स्वकालपरिमाणेन वेधसः प्रलयोद्भवौ ॥
मन्वन्तरादिघटनाकलनाय नमोऽस्तु ते ॥ ६३ ॥
सृष्टोऽहं तमसा नाथ त्वत्प्रभावानभिज्ञकः ॥
तत्क्षमस्वापराधं मे त्राहि मां शरणागतम् ॥ ६४ ॥
स्तुतिमित्थं प्रकुर्वाणे तस्मिंस्त्रिपुरदाहिनि ॥
चक्ररूपं परित्यज्य आविरासीदधोक्षजः ॥ ६५ ॥
प्रसन्नवदनः श्रीमाञ्छङ्खचक्रगदाधरः ॥
तार्क्ष्यपद्मासनगतो वनमालाविभूषणः ॥ ६६ ॥
हारकुण्डलकेयूरमुकुटादिभिरुज्ज्वलः ॥
वामोत्सङ्गगतां लक्ष्मीं सत्यां दक्षिणपार्श्वगाम् ॥ ६७ ॥
बिभ्राणः कृष्णजीमूतकान्तदेहं कृपाम्बुधिः ॥
क्रोधाविष्ट इवोवाच बिभ्यतं गिरिजापतिम् ॥ ६८ ॥
॥ श्रीभगवानुवाच ॥ ॥
कालेनैतावता शम्भो दुर्बुद्धिः कथमागता ॥
हेतोर्नृपतिकीटस्य मया योद्धुमुपस्थितः ॥ ६९ ॥
कति वा मत्प्रभावास्ते नो ज्ञाता धूर्जटे त्वया ॥
सत्यं पाशुपतं तेऽस्त्रं दुर्जयं ससुरासुरैः ॥ 2.2.12.७० ॥
मत्क्रोधरूपं तच्चक्रं त्वामपि क्षमते न यत् ॥
मामवज्ञाय जगति भ्रमति त्वामृते हि कः ॥ ७१ ॥
तपोभिर्बहुभिः पूर्वं मच्छरीरतयोर्जितः ॥
साम्प्रतं चेच्चिरं रन्तुं गौर्या सार्द्धमिहेच्छसि ॥। ७२ ॥
पुरीं वाराणसीं चेमां यदीच्छसि चिरस्थिताम् ॥
मन्नाम्ना भुवि विख्यातं क्षेत्रं श्रीपुरुषोत्तमम् ॥ ७३ ॥
दक्षिणस्योदधेस्तीरे नीलाचलविभूषितम् ॥
दशयोजनविस्तीर्णं यावद्विरजमण्डलम् ॥७४॥
क्रमशः पावनं क्षेत्रं यावच्चित्रोत्पला नदी ॥
ततः प्रभृति यो देशो यावत्स्याद्दक्षिणार्णवः ॥ ७५ ॥
पदात्पदाच्छ्रेष्ठतमो नीलाद्रिरपवर्गदः ॥
चतुर्देहस्थितोऽहं वै यत्र नीलमणीमयः ॥ ७६ ॥
तस्योत्तरस्यां विख्यातं वनमेकाम्रकाह्वयम् ॥
पार्वत्या तत्र निवस निर्भयस्त्रिपुरान्तक ॥ ७७ ॥
सृजता सर्वलोकानां मन्निदेशात्स्वयम्भुवा ॥
तत्रापि कोटिलिङ्गानां राजा त्वमभिषेक्ष्यसे ॥७८॥
सर्वतीर्थमयं चेदं तीर्थं यन्मणिकर्णिकम् ॥
इहाहङ्कारमुत्सृज्य व्रज त्वं सपरिच्छदः ॥ ७९ ॥
॥ नारद उवाच ॥ ॥
इत्युक्तो वासुदेवेन त्र्यम्बको नतकन्धरः ॥
कृताञ्जलिपुटो भूत्वा प्रोवाच मधुसूदनम् ॥ 2.2.12.८० ॥
॥ महादेव उवाच ॥ ॥
देवदेव जगन्नाथ प्रणतार्तिहर प्रभो ॥
त्वदाज्ञापालनं श्रेयः कारणं मे जगत्पते ॥ ८१ ॥
यत्तु मूढतया देव अवलेपः कृतो मया ॥
तवैवानुग्रहस्तत्र प्रभो चाञ्चल्यकारणम् ॥ ॥ ८२ ॥
यदादिशसि देवेश प्रयाणं पुरुषोत्तमम् ॥
तन्मूर्ध्नि कृत्वा यास्यामि क्षेत्रं मुक्तिप्रदं शिवम् ॥ ८३ ॥
अभिसन्धिं कुरुष्वाद्य ममानुग्रहकारणम् ॥
पुरुषोत्तमं मम क्षेत्रं त्वमेव परिपालय ॥ ८४ ॥
यथा पुनर्नेदृशं तद्विनाशमुपयास्यति ॥
इत्थमेतत्पुरा क्षेत्रं महादेवेन निर्मितम् ॥ ८५ ॥
बलश्रीसहितं देवमर्चयन्पुरुषोत्तमम् ॥
अत्र साक्षादुमाकान्तः स्थापितः परमेष्ठिना ॥ ८६ ॥
वयं तत्र व्रजिष्यामो द्रक्ष्यामः पुरनाशनम् ॥
सुदृढान्तस्तमःस्तोमभास्वन्तं गिरिजापतिम् ॥८७॥
यदेतच्छाम्भवं क्षेत्रं तमसो नाशनं परम् ॥
रजःप्रक्षालनं श्रेयः ख्यातं विरजमण्डलम् ॥ ८८ ॥
सत्त्वोद्रिक्ततया ख्यातं मुक्तिदं पुरुषोत्तमम्॥
यावत्यन्यानि क्षेत्राणि मुक्तिदानि श्रुतानि ते॥८९॥
तानि सर्वाणि राजेन्द्र ददते मुक्तिमत्र वै ॥
एतत्क्षेत्रं महाराज दुष्कृताविलचेतसाम् ॥2.2.12.९०॥
न विश्वासपथं याति रहस्यं चक्रपाणिनः ॥ ९१ ॥
॥ जैमिनिरुवाच ॥ ॥
नारदस्य वचः श्रुत्वा प्रहृष्टहृदयो नृपः॥
उवाच मुनिशार्दूलं विस्मयोत्फुल्ललोचनः ॥
साधु मे कथितं ब्रह्मन्क्षेत्रं परमपावनम् ॥९२ ॥
यत्रोमापतिरास्तेऽसौ पालकः पुरुषोत्तमः ॥
अवश्यं तत्र गच्छामः पन्था यद्यपि वक्रभूः ॥
उद्दिष्टेष्टपरिप्राप्तौ यदिदं कारणं महत् ॥ ९३ ॥
॥ जैमिनिरुवाच ॥ ॥
ततस्तौ मुनिभूपालौ मध्याह्नसमये द्विजाः ॥
प्रापतुः सबलौ क्षेत्रमेकाम्रवनसञ्ज्ञकम् ॥ ९४ ॥
बिन्दुतीर्थे नृपः स्नात्वा तीरस्थं पुरुषोत्तमम् ॥
सम्पूज्य विधिवद्यातः कोटीश्वरमहालयम् ॥ ९५ ॥
तद्वारि सम्यगाचान्तस्तत्प्रीत्यै सुबहूनि सः ॥
गजाश्वधनरत्नानि वस्त्रालङ्करणानि च ॥ ९६ ॥
द्विजेभ्यः प्रददौ राजा सात्त्विकं धर्ममास्थितः ॥
लिङ्गं त्रिभुवनेशं तं महास्नानेन पूजयन् ॥ ९७ ॥
अतुलां प्रीतिमालेभे विष्णोरद्वैतदर्शनः ॥
स्तुत्वा प्रणम्य भक्त्यासौ वीणया चोपगाय्य च ॥ ९८ ॥
कृताञ्जलिपुटो देवप्रसादनकृतोद्यमः ॥
अनन्यमनसा तस्थौ चिन्तयन्वृषभध्वजम् ॥ ।९९ ॥
ततः प्रसन्नो भगवांस्त्र्यम्बकः परमेश्वरः ॥
साक्षान्नृपमुवाचेदं स्पष्टाक्षरपदं द्विजाः ॥ 2.2.12.१०० ॥
॥ कोटिलिङ्गेश उवाच ॥ ॥
इन्द्रद्युम्न महाराज वैष्णवस्त्वादृशो भुवि ॥
दुर्लभः खलु ते वाञ्छा चिरात्सम्यग्भविष्यति ॥१॥
इत्युक्त्वान्तर्दधे शम्भुः पश्यतस्तु महीक्षितः॥
नारदं पुनराहेदं यदादिष्टं स्वयम्भुवा ॥ २ ॥
तत्कल्पय महाभाग वाजिमेधपुरःसरम् ॥
विष्णोः कलेवरे तस्मिन्क्षेत्रे श्रीपुरुषोत्तमे ॥ ३ ॥
अन्तर्वेदी महापुण्या विष्णोर्हृदयसन्निभा ॥
तस्याः संरक्षणायाहं स्थापितो विष्णुनाष्टधा ॥ ४ ॥
शङ्खाकृतेरग्रभागे नीलकण्ठोऽहमास्थितः ॥
दुर्गया सह विप्रेन्द्र तत्रेमं भूपतिं नय ॥ ५ ॥
अन्तर्हितः खल्विदानीं नीलरत्नतनुर्हरिः ॥
तत्र श्रीनरसिंहस्य क्षेत्रं कुरु मदाज्ञया ॥ ६ ॥
तत्र नः सन्निधौ वाजिमेधेन यजतामयम् ॥
सहस्रेण नृपश्रेष्ठ तदन्ते तरुमद्भुतम् ॥ ७ ॥
दर्शयैनं द्विजश्रेष्ठ ब्रह्मरूपमकल्मषम् ॥
चतस्रः प्रतिमास्तेन विश्वकर्मा घटिष्यति ॥ ८ ॥
तासां प्रतिष्ठितौ ब्रह्मा स्वयमेवागमिष्यति ॥
यथायं क्षीणपापः स्याद्वाजिमेधैर्यजन्हरिम् ॥ ९ ॥
तिष्ठत्वब्दसहस्रं वै तदन्ते लोकयिष्यति ॥
समस्तजगदाधारं सर्वकल्मषनाशनम् ॥ 2.2.12.११० ॥
दारवीं तनुमास्थाय दर्शनादपवर्गदम् ॥
न तस्य चरितं वेत्ति ब्रह्माऽहं त्वं च नारद ॥ ११ ॥
आज्ञानुष्ठानतो भक्त्या प्रसीदति स केवलम्॥
नारदोऽपि महादेवं प्रणिपत्य जगद्गुरुम्॥
उवाच प्राञ्जलिर्भूत्वा यदादिष्टं त्वया विभो॥१२॥
पितामहोऽपि मामित्थं निर्दिदेशास्य कल्पनम्॥
पितामहश्च त्वं नाथ नो भिन्नौ परमात्मनः॥१३॥
नृपतेरस्य भाग्यर्द्धिरीदृशी यत्कृते विभो।
अगोचरोऽसि मनसस्त्र्याणामप्यनुग्रहः॥१४॥
यत्प्रसङ्गेन तरणं भवाब्धेरपि दुष्कृताम् ॥
अचिन्त्यमहिमा ह्येष भगवान्भूतभावनः ॥१५ ॥
न बुद्धिगोचरे भक्तिर्यावत्या प्रीयते ह्यसौ ॥
चिरं यतन्तस्तिष्ठन्ति वेदानुवचनादिभिः ॥
क्षुद्रोऽपि लभते मुक्तिमनायासेन कर्मणा ॥१६॥
गव्योपजीव्या गोप्यस्तु वनचारगृहोषिताः ॥
अरण्यजीवनाः प्रापुर्मुक्तिं कामोपभोगतः ॥ १७ ॥
द्रुहन्निरन्तरं प्राप शिशुपालः सभान्तरे ॥
व्याधोः हृदयमाविध्य गतिं प्राप सुदुर्लभाम् ॥ १८ ॥
वस्त्राकर्षं गृहं नीत्वा कुब्जैनं बुभुजे पुरा ॥
यं ध्यानलयमापन्ना लभन्ते न सुरस्त्रियः ॥ १९ ॥
चण्डालाय ददौ मुक्तिं दूरस्थायापि नो पुनः॥
आसन्नायातिभक्ताय श्रोत्रियाय पुरा विभुः॥2.2.12.१२०॥
मायाभिर्वञ्चयेत्त्वां हि पितामहमपि प्रभुः॥
तिष्ठन्ति दुःखबहुलास्तपोभिर्देहबन्धनाः॥२१॥
गौतमाद्या ब्रह्मचर्यनिष्ठाः कल्पान्तवासिनः॥
ईदृक्तादृक्परिच्छेदगोचरं नास्य चेष्टितम्॥२२॥
व्यवसायेन बहुना कालेन महता तथा॥
निर्णेतुं शक्यते नास्य चरितं वा सुमेधसः ॥ २३ ॥
उपाया बहवः सन्ति ये शास्त्रपरिनिष्ठिताः ॥
विदुषां मोचनायेह बहुशस्तैर्यजन्ति वै ॥ २४ ॥
सर्वेषामुत्तमोपायो वसतिः पुरुषोत्तमे ॥
याऽवश्यं स्वामिसायुज्यं प्रापयेत्सुसखा यथा ॥ २५ ॥
तदेनं मायिनं प्राप्तुमुपायो नान्तरीयकः॥
स्वयं निधाय हरिणा यत्र वासः सुरक्षितः ॥ २६ ॥
इन्द्रद्युम्नप्रसङ्गेन जायते सार्वलौकिकः ॥
तदाज्ञापय देवेश गृहीत्वैनं बलान्वितम् ॥२७॥
उपत्यकायां संस्थाप्य दीक्षयित्वा महाक्रतौ ॥
आगमिष्यामि पादाब्जसमीपं ते वृषध्वज ॥ २८॥
॥ जैमिनिरुवाच ॥ ॥
तथेत्युक्त्वा महादेवः क्षणादन्तर्दधे मुनेः ॥
सोऽपि राज्ञो रथे तिष्ठन्प्रययौ क्षेत्रमुत्तमम् ॥२९॥
द्वितीयेऽह्नि कपोतेशस्थलीमासेदिवान्नृपः ॥
दैर्घ्यायामसमायुक्तां जलाशयद्रुमाकुलाम्॥2.2.12.१३०॥
बिल्वेशः पूर्वसीमायां समुद्रतटमास्थितः ॥
सेनानिवेश योग्यां तां मत्रिणा सन्निवेदिताम् ॥३१॥
यथायोग्यं यथास्थानं स्थापयित्वा नृपोत्तमः ॥
बिल्वेश्वरकपोतेशं नमस्कृत्य प्रपूज्य च ॥ ३२ ॥
रथमास्थाय मतिमान्सहितो ब्रह्मसूनुना ॥
मनसा वचसा विष्णुं नीलाचलनिवासिनम्॥
चिन्तयन्कीर्तयन्विप्रा जगाम सन्निधिं हरेः ॥१३३॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे पुरुषोत्तमक्षेत्रमाहात्म्ये जैमिनिऋषिसंवादे द्वादशोऽध्यायः ॥१२॥॥