०११

॥ जैमिनिरुवाच ॥ ॥
नारदाद्ब्रह्मणः पुत्राद्भगवद्भक्तिमुत्तमाम् ॥
श्रुत्वेत्थं परमप्रीत इन्द्रद्युम्नोऽप्युवाच तम् ॥ १ ॥ ॥
इन्द्रद्युम्न उवाच ॥ ॥
साधुसङ्गस्तु विद्वद्भिर्भवव्याधिविनाशनः ॥
ममोपदिष्टो भगवन्सोऽभूत्साम्प्रतमेव मे ॥ ॥ २ ॥
येन साक्षात्कृतो विष्णुः परमात्मा परात्परः ॥
स त्वं यन्मन्दिरायातस्त्वदन्यः साधुरत्र कः ॥ ३ ॥
त्वत्सन्निधानाद्भगवस्तमो मे नाशमभ्यगात् ॥
यन्मे त्वरयते चित्तमर्चितुं नीलमाधवम् ॥ ४ ॥
वेत्सि ब्रह्माण्डवृत्तान्तं पर्यटन्सार्वलौकिकः ॥
तदावां रथमास्थाय पश्यावो नीलमाधवम् ॥ ॥ ५ ॥
पुरुषोत्तमसञ्ज्ञस्य क्षेत्रस्यालङ्कृतं शुभम् ॥
तत्र तीर्थानि सन्तीति बहुभिः कथितानि मे ॥
त्वद्वाक्याद्यदि जानामि भवेयुः सफलानि मे ॥६॥ ॥
॥ नारद उवाच ॥ ॥
हन्त ते दर्शयिष्यामि क्षेत्रं क्षेत्रस्थितानि च ॥
तीर्थानि शक्तिशम्भूंश्च क्षेत्रमाहात्म्यमेव च ॥ ७ ॥
साक्षाद्द्रक्ष्यसि देवेशं भक्तस्यात्मसमर्पकम् ॥
तवानुग्रहतः शीघ्रं चतुर्द्धा संव्यवस्थितम्॥८॥
यस्य सन्दर्शनान्मर्त्यो जायते भक्तिभाजनम् ॥
एवं कथान्ते तौ प्रीतावहःकृत्यं समाप्य च ॥ ९ ॥
यात्रानुकूलं निर्णीय पञ्चम्यां बुधवासरे ॥
ज्येष्ठकृष्णेतरे पक्षे पुष्यर्क्षे लग्न उत्तमे ॥
एकत्र शयितौ रात्रिं निन्यतुर्नृपनारदौ ॥2.2.11.१०॥
ततः प्रभाते विमल इन्द्रद्युम्नो नृपोत्तमः ॥
घोषणां कारयामास राज्यस्य सह बन्धुभिः ॥ ११ ॥
यथाविभवतः सैन्यैर्नीलाद्रिगमनं प्रति ॥
यावज्जीवं तत्र वासं करिष्यामो विनिश्चितम् ॥१२॥
या वृत्तिः कल्पिता यस्य स तया तत्र जीवतु ॥
राजानः सावरोधाश्च सामात्याः सपरिच्छदाः ॥ १३ ॥
रथैर्गजैस्तुरगैश्च कोषैः सह पदातिभिः ॥१४॥
व्रजन्तु सज्जितास्तत्र ब्राह्मणाः साग्निहोत्रिणः ॥
वणिजः सह भाण्डैश्च सपण्याः पण्यजीविनः॥ १५ ॥
राष्ट्रकर्मणि निष्णाता कुशला राजवर्त्मसु ॥
ज्योतिर्विदो नृत्यविदो दण्डनीतौ प्रवीणकाः ॥ १६ ॥
नृत्यगायनवादित्रचतुर्विधसुबुद्धयः ॥
गजवाजिनराणां च भैषज्ये शास्त्र उत्तमे ॥ १७ ॥
कुशला दृष्टकर्माणो विद्यास्वष्टादशस्वपि ॥
उपाङ्गविद्यासु तथा कुहकार्थकुतूहलाः ॥ १८ ॥
वाटसाहसिकाश्चोरास्तथान्ये पश्यतोहराः ॥
विचित्रकथनाजीवाश्चाटुकाराश्च मागधाः ॥ १९ ॥
शास्त्रोपजीविनश्चैव तथान्ये शल्यहारकाः ॥
द्यूतकाराश्च पुंश्चल्यो वेश्या वेशानुगा विटाः॥ 2.2.11.२० ॥
कृषीवलाश्च गोमेपच्छागोष्ट्रखररक्षकाः ॥
शकुन्तपालाश्च कपिव्याघ्रशार्दूलरक्षकाः ॥२१॥
आहितुण्डिकगोरक्ष्य शबरा म्लेच्छजातयः ॥२२॥
अन्ये च ये मालवदेशजाता आज्ञां मदीयामनुपालयन्ति ॥
ते यान्तु सर्वे वसतौ हि नीलाचले यथास्वं कृतवास्तुभागाः ॥ २३ ॥
एवमाज्ञाप्य नृपतिर्यात्रायां च कृतक्षणः ॥
नारदेन समागम्य दैवज्ञमिदमाह सः ॥ २४ ॥
सांवत्सर मुहूर्त्तं मे निर्णीतं ते यथा पुरा ॥
तावन्माङ्गलिकं वस्तुजातं सम्यगुपानय ॥ २५ ॥
पुरोहितमतेनास्मिन्क्षणे यावद्विमृग्यते ॥
तेनादिष्टः स गणकः पुरोहितसहायवान् ॥ ॥ २६ ॥
आजहार समस्तानि माङ्गल्यानि द्विजोत्तमाः ॥
अत्रान्तरे स राजर्षिर्दिव्यसिंहासनस्थितः ॥ २७ ॥
यात्राभिषेकमाङ्गल्यं विप्रैः प्रागनुभावितम् ॥
श्रीसूक्तवह्निसूक्ताभ्यां सूक्तेनाब्दैवतेन च ॥ २८ ॥
पावमान्याब्धिसूक्तेन पृथङ्माङ्गल्यवर्द्धकैः ॥
तीर्थाद्भिरौषधीभिश्च सर्वगन्धैः पृथक्पृथक् ॥ २९ ॥
अभिषिक्तस्ततो राजा चीनांशुकहृताम्भसा ॥
रराज वपुषा दीप्तो निर्धूमः पावको यथा ॥ 2.2.11.३० ॥
आमुक्तशुक्लवसनः स्वाचान्तः सपवित्रकः ॥
नान्दीमुखान्पितृगणान्पूजयित्वा यथाविधि ॥ ३१ ॥
जयाराष्ट्रभृतो हुत्वा गणहोमांश्च यत्नतः ॥
शङ्खध्वनिसुगन्धाढयं श्वेतवर्णं विधूमकम् ॥ ३२ ॥
वह्निं प्रदक्षिणं चक्रे दक्षिणावर्त्तगार्चिषा ॥
साक्षात्कारेण ददतं जयं राज्ञे जयार्थिने ॥ ३३ ॥
नवग्रहमखान्ते च ग्रहकुम्भेन सेवितः ॥ ग्र
हाणां दौष्ट्यनाशाय सौस्थ्यस्यापि विवृद्धये ॥ ३४ ॥
ज्योतिःशास्त्रोदितैर्मन्त्रैर्दैवज्ञविधिचोदितैः ॥
ततो माङ्गल्यनेपथ्यविधानमुपचक्रमे ॥३५॥
चीनांशुकप्रावरणे विधाय कवचं निजम् ॥
शिरोवेष्टनकं शुभ्रं सुरत्नमुकुटोज्ज्वलम्॥ ३६ ॥
सावतंसे श्रुतियुगे रत्नकुण्डलभूषिते ॥
ग्रैवेयकं महार्घं तु हारं तरलभूषितम् ॥ ३७ ॥
दधाराथ नृपश्रेष्ठः केयूराङ्गदमुद्रिकाः ॥
मध्येन त्रिवलीसक्तं स्वर्णसूत्रं त्रिवृद्दधौ ॥ ३८ ॥
हिरण्यकिङ्किणीयुक्त मुक्तातोरणमालिकम् ॥
नानारत्नैः सुघटितां दधाराथ सुमेखलाम् ॥ ३९ ॥
अनर्घ्ये पादकटके पादयोः सन्न्यवेशयत् ॥
सम्मुखादर्शितादर्शे ददृशे स्वं विभूषितम् ॥ 2.2.11.४० ॥
मङ्गलारोपणार्थाय हैमपीठमुपाविशत् ॥
प्राङ्मुखः श्रीधरं देवं संस्मरन्मधुसूदनम् ॥ ४१ ॥
मगलायतनं विष्णुं सर्वमाङ्गल्यकारणम ॥
स्मरणादस्य नश्यन्ति पातकानि बहून्यपि ॥ ४२ ॥
सौमनस्यामथो मालामार्त्तवीं गन्धवर्णिताम् ॥
दधार प्रथमं राजा मन्त्रितां स्वपुरोधसा ॥ ४३ ॥
मृदं दीपं फलं दूर्वा दधि गोरोचनां ततः ॥
मन्त्राभिमन्त्रितान्सर्वान्सिद्धार्थैरभिरक्षितः ॥४४॥
आत्मानं ददृशे राजा सौरभेये हविष्यथ ॥
मुकुरे मन्त्रिते पश्चात्स्वं दृष्ट्वा नृपकेसरी ॥ ४५ ॥
बह्वृचैः शान्तिघोषेण समुदीर्णशुभायतिः ॥
याजुष्कैः पथिसूक्तेन व्रजन्मार्गेऽभिरक्षितः ॥ ४६ ॥
पौराणैर्मङ्गलैर्वाक्यैः कृतवीर्यधृतिर्नृपः ॥
मागधैः स्तुतिपाठेन प्रादुर्भूतपराक्रमः ॥ ४७ ॥
पारिजातहरं सत्यासहितं गरुडध्वजम्॥
ध्यायन्हृत्पङ्कजे राजा दक्षिणं पादमुद्दधौ ॥ ४८ ॥
प्रदक्षिणीकृत्य मुनिं नारदं पुरतः स्थितम् ॥
मध्यद्वारमुपागच्छद्वेत्रपाणिभिरावृतः ॥ ॥ ४९ ॥
आदिष्टपदमार्गोऽसावग्निहोत्रपुरःसरः ॥
तत्रापश्यत्स्थितान्विप्रानात्मनो दक्षिणेन वै ॥ 2.2.11.५० ॥
माङ्गल्यसूक्तम्ऽ पठतः शुभ्राभान्पाण्डुरांशुकान्॥
लाजाः सपुष्पा राजाग्रे क्षिपतः शंसतः शुभम् ॥ ५१ ॥
वामपार्श्वस्थिता वेश्याश्चामरव्यग्रपाणयः ॥
शुभ्रालङ्कारवसनाः स्मेरपद्मानना शुभाः ॥ ५२ ॥
ब्राह्मणान्पूजयामास भक्तिनम्रो द्विजोत्तमाः ॥
वस्त्रालङ्कारमाल्यैश्च सुगन्धैरनुलेपनैः ॥ ५३ ॥
तोषयामास तान्विप्रान्भगवद्बुद्धि भावितान् ॥
वेश्याभ्यो मागधेभ्यश्च दीनानाथेभ्य एव च ॥ ८४ ॥
राजानुमत्या सचिवो यथार्हं प्रददौ धनम् ॥
श्वेतान्पारावतान्हंसाञ्छ्वेताश्वं श्वेतकुञ्जरम् ॥ ५५ ॥
सचूतपल्लवं श्वेतमालाफलविभूषितम् ॥
कदलीकाण्डसन्नद्धतोरणाधः स्थितं नृपः ॥
पूर्णकुम्भं स पश्यन्वै मङ्गलानि बहून्यपि॥
सितातपत्रेण शिरःप्रदेशे वारितातपः ॥५६॥
युगपत्पूर्यमाणैस्तु कम्बुभिः शतसङ्ख्यकेः॥
सम्मिश्रितानि शुश्राव वादित्राणि बहूनि सः॥५७॥
तथा मङ्गलगीतानि जयशब्दांश्च भूपतिः ॥
ततो विवेश प्रासादं नृसिंहमवलोकितुम्॥५८॥
यं स्मृत्वा जायते मर्त्यः सर्वकल्याणभाजनम् ॥
दृष्ट्वा स दूरान्नृहरिं दिव्यसिंहासनस्थितम् ॥ ५९ ॥
प्रणम्य साष्टावयवं सन्तोष्योपनिषद्गिरा ॥
दक्षपार्श्वस्थितां दुर्गां सर्वदुर्गतिमोचिनीम् ॥ 2.2.11.६० ॥
ववन्दे चरणाभ्याशे पश्यतीं कृपया नृपः ॥
ततः पुरोधा देवाङ्गादवरोप्य शुभा स्रजम् ॥ ६१ ॥
आसञ्जयामाम गले सुगन्धेनान्वलेपयत् ॥
नीराजयामास राज्ञः शिरश्चावेष्टयन्मुदा ॥ ५२ ॥
पुनः प्रदक्षिणीकृत्य तौ देवौ नृपसत्तमः ॥
शिबिकायां समारोप्य प्रतस्थे च पुरस्कृतौ ॥ ६३ ॥
प्रादुर्भूय बहिर्द्वारे रथं दृष्ट्वा सुसज्जितम् ॥
तुरङ्गमैर्वातजवैर्दशभिः परयोजितम् ॥ ६४ ॥
प्रदक्षिणीकृत्य नृपो नारदेन समाविशत् ॥
ढक्कामृदङ्गनिःसाणभेरीपणव गोमुखाः ॥ ६५ ॥
मधुरीचर्चरीशङ्खा अवाद्यन्त सहस्रशः ॥
स्यन्दनाः कोटिशस्तत्र नृपाणामनुजीविनाम् ॥ ६६ ॥
चकाशिरे श्रेणिकृता इन्द्रद्युम्नरथाभितः ॥
नानाप्रहरणोपेताः पताकाभिरलङ्कृताः ॥ ६७ ॥
ध्वजोच्छ्रिताः स्वर्णरौप्यैः किङ्किणीजालदर्पणैः ॥
यन्त्रैर्नानाविधैर्युक्ता गम्भीर स्निग्धनिःस्वनाः ॥ ६८ ॥
पदातीनां कुञ्जराणां हयानां वातरंहसाम् ॥
पत्तिसंस्फोटनैर्हस्तिबृंहितैर्हयहेषितैः ॥ ६९ ॥
बहुलै रथनिर्घोषैर्मिश्रिता वाद्यनिःस्वनाः ॥
युगान्तार्णवनिस्वानतुल्याः शुश्रुविरे जनैः ॥ 2.2.11.७० ॥
तस्मिन्क्षणे पौरजनाः स्वस्वसम्भारसज्जिताः ॥
अश्वकै रासभैरुष्ट्रैर्वाहकैः प्रतितस्थिरे ॥ ७१ ॥
आन्दोलिकाश्च पल्यङ्काः कोटिशश्च तुरङ्गकाः ॥
श्रेणीभूताश्च दृश्यन्ते राष्ट्रप्रस्थानसङ्कुले ॥ ७२ ॥
राजावरोधाः शतशो वृता वर्षवरैस्ततः ॥
नानायानसमारूढाः पालिताश्चाधिकारिभिः ॥ ७३ ॥
महासैन्यैश्च संरुद्धा राजागाराद्विनिर्ययुः ॥
यज्वानश्चाग्निहोत्राणि शम्यारूढानि वृन्दशः ॥ ७४ ॥
शकटेषु समारोप्य सपत्नीकाः प्रतस्थिरे ॥
तथा पुस्तकभारांश्च देवतार्चाकरण्डकान् ॥ ७५ ॥
इध्मबर्हिकुशान्पात्रीः सम्भारान्होमसम्भृतान् ॥
वाहयामासुरन्यैश्च शकटावाहकद्विजैः ॥ ७६ ॥
सामन्तामात्यभृत्याश्च पुरोधा ऋत्विजश्च ये ॥
राज्ञः प्रकृतद(?)साश्च उपचारनियोगिनः ॥ ७७॥
सर्वोपचारसम्भारानासतेऽन्ये प्रयायिनः ॥
कोषागारनियुक्ताश्च कोषजातमशेषतः ॥ ७८ ॥
समादाय ययुस्तूर्णं राज्ञोऽवसरसेवकाः ॥
मालाकारादयः सर्वे पण्यजीवादयस्तथा ॥ ७९ ॥
स्वं स्वं पण्यं समादाय ययू राजनियोगिनः ॥
श्रेष्ठश्रेण्यादयः सर्वे पुरखर्वटवासिभिः ॥ 2.2.11.८० ॥
समं विनिर्ययुः स्वस्वव्यवहारविलासकाः ॥
इन्द्रद्युम्नस्य नृपतेर्यात्रासमयवादितान् ॥ ८१ ॥
भेरीमृदङ्गपटहान्व्यश्नुवानान्दिगन्तरम् ॥
श्रुत्वा जनपदावासिजनाः सर्वे ससम्भ्रमाः ॥ ८२ ॥
राजाज्ञां मूर्ध्नि सम्मान्य निर्गता नीलपर्वतम् ॥
यस्य यश्च ऋजुः पन्थाः स च तेनैव जग्मिवान् ॥ ८३ ॥
न राजमार्गं प्रजवाद्व्यमृग्यन्त नृपाज्ञया ॥
नीलाद्रिप्राप्तिमार्गेण दुर्गमेणापि ते ययुः ॥ ८४ ॥
इन्द्रद्युम्नोऽपि राजेन्द्रः समस्तपुरवासिभिः ॥
चतुरङ्गानीकिनीभिः सहर्षाभिश्च वेष्टितः ॥ ८५ ॥
श्रेणीभूतक्षितिपतिस्यन्दनावलिमध्यगे ॥
रथे रराज राजर्षिः शक्रतुल्य परिच्छदः ॥ ८६ ॥
पुरस्त्रीमङ्गलाचारगीतलाजप्रसूनकैः ॥
मङ्गलाचारशोभाभिः प्रसन्नशुभचेतनः ॥ ८७ ॥
वातरंहैर्हयैर्युक्तरथेन प्रययौ मुदा ॥
अनुकूलानिलप्रोद्यद्घनच्छायसुशीतले ॥ ८८ ॥
नीरजस्के महीपृष्ठे समीकृतचतुष्पथे ॥
देशाध्वनीनैः पुरुषैः काननान्तरवेदिभिः ॥ ८९ ॥
आदिष्टवर्त्मा नृपतिर्मार्गस्योभयपार्श्वगान् ॥
देशानरण्यानि मुहुःपश्यन्नानन्दलोचनः ॥ 2.2.11.९० ॥
सीमामुत्कलदेशस्य विभजन्तीं वनान्तरे ॥
मार्गस्थां चर्चिकां प्राप चर्चितां मुण्डमालया ॥ ९१ ॥
अवतीर्य रथाद्राजा विनतो नारदाज्ञया ॥
साष्टाङ्गपातं तां नत्वा तुष्टावानन्दचेतनः ॥९२ ॥
॥ इन्द्रद्युम्न उवाच ॥ ॥
नमस्ते त्रिदशेशानि सर्वापद्विनिवारिणि ॥
ब्रह्मविष्णुशिवाद्याभिः कल्पनाभिरुदीरिते ॥९३॥
कारणं जगतामाद्ये प्रसीद परमेश्वरि ॥
त्वया विना जगन्नैतत्क्षणमुत्सहते शिवे ॥ ९४ ॥
सिद्धयः सर्वकार्याणां मङ्गलानि च शाश्वते ॥
त्वत्पादाराधनफलं मर्त्यलोके हि नान्यथा ॥९५ ॥
चराचरपतेर्विष्णोः शक्तिस्त्वं परमेश्वरि ॥
यया सृजत्यवति च जगत्संहरते विभुः ॥ ९६ ॥
चराचरगुरुं देवं नीलाचलनिवासिनम् ॥
अनुगृह्णीष्व मां देवि यथा पश्ये स्वचक्षुषा ॥ ९७ ॥
॥ जैमिनिरुवाच ॥ ॥
नारदस्योपदेशेन स्तुत्वा देवीं नराधिपः ॥
आरुरोह रथं तूर्णं विवस्वानुदयं यथा ॥ ९८ ॥
ततः प्रतस्थे तरसा स राजा श्रान्तवाहनः ॥
चित्रोत्पलमहानद्यास्तीरे विरलकानने ॥ ९९ ॥
धातुकन्दरविख्याते न्यवेशयदनीकिनीम् ॥
अपराह्णक्रियां कर्तुं यावदाह्निकमादृतः ॥2.2.11.१००॥
जलावतरणे नद्यां विवेश स्वपुरोधसा ॥
पूर्वं संशोधिते प्राज्ञैर्विषकण्टकवर्जिते ॥१॥
स्नात्वा सन्तर्प्य देवांश्च पितॄनथ विशाम्पतिः ॥
सम्पूज्य विधिवद्विष्णुं नृपतीन्प्रकृतीस्ततः ॥ २ ॥
सम्मानयामास नृपः सन्निवेशासनादिभिः॥
नारदेन सह श्रीमान्प्रविश्यान्तःपुरं ततः॥३॥
सुधारसानि भोज्यानि बुभुजे प्रीतमानसः ॥
पश्चिमाद्रिं ततो याते विवस्वति विशाम्पतिः ॥४॥
सायं विधिं समाप्याशु शीतभानौ समुद्यते॥
अनुजीविविशां नाथः सभामध्य उपाविशत् ॥५॥
तत्र तस्मिन्नरपतिर्बभौ सात्राज्यलक्षणः ॥
सम्पूर्णमण्डलश्चन्द्रो ज्योतिषामिव शारदः॥६॥
कवयः कवयाञ्चकुः कीर्तिं तस्य सुधामलाम् ॥
जगुर्गाथां सुग्रथितां गायकाः कलसुस्वराः॥७॥
रूपयौवनलावण्यगर्विता गणिकास्ततः ॥
लयतानाङ्गहारैश्च सुशुद्धैर्ननृतुः पुरः ॥ ८ ॥
मागधास्तुष्टुवुश्चैनं लोकोत्तरशुभाकृतिम् ॥
गद्यपद्यप्रबन्धाद्यैश्चित्रैः पदकदम्बकैः ॥ ९ ॥
ततः स राजा प्रानर्च वैष्णवाग्र्यान्सभासदः ॥
सुसम्मतैर्गन्धमाल्यताम्बूलैरतिशोभनैः ॥ 2.2.11.११० ॥
नृपांश्च शतशस्तत्र सुखासीनान्नृपाज्ञया ॥
सम्भावयामास यथायोग्यं नृपतिभाजनैः ॥ ११ ॥
अथापृच्छन्मुनिवरं नारदं भगवत्प्रियम् ॥
सिंहासनार्हे स्वासीनं बहुमानपुरःसरम् ॥
भगवच्चरितं श्रोतुं सर्वपापापनोदनम् ॥ १२ ॥
॥ इन्द्रद्युम्न उवाच ॥ ॥
भगवन्वेदवेदाङ्गनिधान भगवत्प्रिय ॥
त्वमेव चरितं विष्णोर्जानासि ज्ञानचक्षुषा ॥ १३ ॥
हरेश्चारित्रसुधया दृढपङ्कमलीमसम् ॥
क्षालयान्तर्मम मुने यद्यनुक्रोशको मयि ॥ १४ ॥
इत्थमालापसम्मिश्रे मुनिराज्ञोः कथान्तरे ॥
प्रविवेश नृपं द्वाःस्थ उत्कलेशप्रसेवकः ॥ १५ ॥
उवाच देवद्वारान्ते तिष्ठत्युत्कलभूमिपः ॥
सोपायनो देवपादपद्मं द्रष्टुं समौलिकः ॥ १६ ॥
विज्ञापितः स राजर्षि द्वास्थेनैवं ससम्भ्रमः ॥
उवाच तं हि भो विप्राः श्रुत्वा तद्देशमण्डनम् ॥ १७ ॥
क्षेत्रं श्रीपुरुषेशस्य तद्वार्त्ताकर्णनोत्सुकः ॥
प्रवेशयाविलम्बं तं श्रीमदोढ्रमहीपतिम् ॥ १८ ॥
स हि नीलगिरौ विष्णुं समाराध्य सुनिर्मलः ॥
यस्य सन्दर्शनात्सर्वे भविष्यामो हतांहसः ॥ १९ ॥
श्रुत्वा तद्वचनं सद्यो द्वारपालो महीपतिम् ॥
प्रवेशयामास सभामिन्द्रद्युम्नस्य भूपतेः ॥ 2.2.11.१२० ॥
विवेशोढ्रपतिस्तूर्णं सचिवैवैर्ष्णवैः सह ॥
ननामाङ्घ्रियुगं वन्द्यमिन्द्रद्युम्नस्य सादरम्॥ २१ ॥
युगं वन्द्यमिन्द्रद्युम्नस्य सादरम्॥ २१ ॥
तमुत्थाप्य च राजेन्द्रः पुरस्कृत्य स वैष्णवम् ॥
स्वासनान्ते निवेश्याथ प्रोचे सप्रश्रयं वचः ॥ २२ ॥
राजन्सर्वत्र कुशली भवानोढ्रपते किल ॥
अपि देवो विजयते नीलाद्रिशिखरालयः ॥ २३ ॥
कच्चित्ते निर्मला बुद्धिर्भगवत्पादपद्मयोः ॥
उपैति समचित्तस्य सर्वभूतेषु ते हरौ ॥ २४ ॥
ओढ्राधीशस्तदा तस्य वचः श्रुत्वा कृताञ्जलिः ॥
उवाच प्रश्रितं वाक्यं हर्षविस्मयचञ्चुकः ॥ २५ ॥
स्वामिन्सर्वत्र कुशलं त्वत्पादानुग्रहान्मम ॥
सूर्ये तपत्यन्धकारः कथं वा प्रभविष्यति ॥ २६ ॥
निसर्गगुणसंसर्गवशीकृतमहीभुजा ॥
त्वया सनाथा पृथिवी जिष्णुनेवामरावती ॥ २७ ॥
सदा धर्मश्चतुष्पादस्त्वयि शासति मेदिनीम् ॥
निषेधाचरण राजन्केवलं श्रूयते श्रुतौ ॥ २८ ॥
राजनीतिषु ये राज्ञां गुणाः समुदितास्त्वयि ॥
त एकैकं क्षितिभुजां गता दार्ष्टान्तिकं विभो ॥ २९ ॥
एतावदपि साम्राज्यं दुर्लभं ते नृपोत्तम ॥
अष्टादशद्वीपवती क्षितिरेकगृहोपमा ॥ 2.2.11.१३० ॥
यदि त्वां नासृजद्ब्रह्मा वत्सलं सर्वजन्तुषु ॥
कथं शोकविहीनाः स्युर्मृतेष्वात्मजबन्धुषु ॥ ३१ ॥
साधारणा नृपतयो विष्णोरंशा इति श्रुतिः ॥
भवान्साक्षात्तु भगवान्कोऽन्य ईदृग्गुणाकरः ॥ ३२ ॥
दक्षिणोदधि तीरेऽस्ति नीलाद्रिः काननावृतः ॥
न तत्र लोकसञ्चारस्तत्रास्ते साऽपि देवता ॥ ३३ ॥
वात्यया वालुकाकीर्णः साम्प्रतं श्रूयते तु सः ॥
तद्वशान्मम राज्येऽपि दुर्भिक्षमरकादिकम् ॥ ३४ ॥
त्वय्यागते तु सर्वस्मिन्कुशलं मे भविष्यति ॥
इत्युक्तवन्तं नृपतिरुत्कलेशं द्विजोत्तमाः ॥ ३५ ॥
विसर्जयामास तदा सन्निवेशाय मानयन् ॥
नारदं प्रेक्ष्य निर्विण्णः किमेतदिति भो मुने ॥ ३६ ॥
यदर्थं मे श्रमस्तं च विफलं हि वितर्कये ॥
इत्युक्तवन्तं तं प्राह नारदस्तु त्रिकालवित् ॥ ३७ ॥
न कार्यो विस्मयस्तेऽत्र भाग्यवान्वैष्णवोत्तमः ॥
वैष्णवानां न वाञ्छा हि विफला जायते क्वचित् ॥ ३८ ॥
अवश्यं प्रेक्षसे राजन्बिभ्रतं पार्थिवं वपुः ॥
कारणं जगतामादिं नारायणमनामयम् ॥ ३९ ॥
त्वदनुग्रहहेतोर्वै क्षिताववतरिष्यति ॥
जगच्चराचरं सर्वं विष्णोर्वशमुपागतम्॥2.2.11.१४०॥
न कस्यापि वशे सोऽपि परमात्मा सनातनः ॥
केवलं भक्तिवशगो भगवान्भक्तवत्सलः ॥ ४१ ॥
ब्रह्मादिकीटपर्यन्तं सुगुप्तं यस्य मायया ॥
स कथं परतन्त्रः स्यादृते भक्तजनान्नृप ॥ ४२ ॥
धर्मार्थकाममोक्षाणां मूलं भक्तिर्मुरद्विषः ॥
सैव तद्ग्रहणोपायस्तामृते नास्ति किञ्चन ॥ ४३ ॥
एक एव यदा विष्णुर्बहुधा स्वस्य मायया ॥
तमृते परमात्मानं सुखहेतुर्न विद्यते ॥ ४४ ॥
येऽप्यन्ये शिवदुर्गाद्यास्तैस्तैः कर्मभिरावृताः ॥
यच्छन्ति पूजिताः कामं तेऽपि विष्णुपरायणाः ॥ ४५ ॥
अन्तर्यामी स भगवान्देवानामपि हृत्स्थितः ॥
यावत्फलं प्रेरयति तावदेव ददत्यमी ॥ ४६ ॥
वैष्णवस्त्वं च राजेन्द्र पद्मयोनेश्च पञ्चमः ॥
अष्टादशानां विद्यानां पारगो वृत्तसंस्थितः ॥ ४७ ॥
न्यायेन रक्षिता पृथ्वीं विशेषाद्ब्राह्मणार्चकः ॥
अवश्यं द्रक्ष्यसि क्षेत्रे वैकुण्ठं चर्मचक्षुषा ॥ ४८ ॥
पितामहोऽप्यत्र कार्ये भवतो मां नियुक्तवान् ॥
सर्वं ते कथयिष्यामि प्राप्ते क्षेत्रोत्तमे नृप ॥ ४९ ॥
साम्प्रतं रात्रिशेषो हि तृतीयं याममृच्छति ॥
स्वान्तान्निवेशान्निर्गन्तुं राज्ञ आज्ञापयाधुना ॥ 2.2.11.१५० ॥
त्वमप्यन्तर्गृहं याहि निद्राया वशमागतः ॥ १५१ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे पुरुषोत्तमक्षेत्रमाहात्म्ये जैमिनिऋषि संवाद एकादशोऽध्यायः ॥११॥