०१०

॥ इन्द्रद्युम्न उवाच ॥ ॥
जन्मप्रभृति तत्र त्वं न प्रयातो द्विजोत्तम ॥
कथं विद्याद्भवान्दिव्यवृत्तान्तं पुरुषोत्तमे ॥ १ ॥
॥ विद्यापतिरुवाच ॥ ॥
तत्र स्थितोऽहं सायाह्ने भगवन्तमुपागमम् ॥
तस्मिन्काले दिव्यगन्धो ववौ च शिशिरो मरुत् ॥ २ ॥
उद्यतः सङ्कुलः शब्दः श्रूयते स्म वियत्पथे ॥
क्रमाद्याहि प्रयाहीति स तु वर्णमयः स्वनः ॥ ३ ॥
दिविष्ठानां पतत्पुष्पवृष्ट्याच्छादितपर्वतः ॥
समागमोऽभूत्सान्निध्ये वैकुण्ठस्य महीपते ॥ ४ ॥
वीणावेणुमृदङ्गानां चर्चरीणां च निःस्वनः ॥
अभूतपूर्वस्तत्रासीद्दिव्यगानविमिश्रितः ॥ ५ ॥
सहस्रमुपचाराणां प्रीतये परमेशितुः ॥
देवैः समर्पितं तत्र मनुष्यादृष्टपूर्वकम् ॥ ६ ॥
सम्पूज्य विधिवद्देवं करमात्रोपलक्षिताः ॥
जयपूर्वैश्च तं स्तोत्रैः सन्तोष्य मधुसूदनम् ॥ ७ ॥
यथागतं ते त्रिदशाः प्रययुस्त्रिदशालयम् ॥
तेषु यातेषु शबरः सखा विश्वावसुर्मम ॥ ८ ॥
दिव्योपहारभोज्यानि माल्यं चेदं ददौ मम ॥
अनर्घ्यमेतदम्लानं श्रीराज्यसुखदायकम् ॥ ९ ॥
अलक्ष्मीपापरक्षोघ्नं योग्यं तेनाहृतं मया ॥
शृणुष्व तस्य संस्थानं विष्णोर्यत्क्षेत्रमुत्तमम् ॥ 2.2.10.१० ॥
अपूर्वशिल्पनैपुण्यं रूपं चास्य मनोहरम् ॥
न भूमिजन्मना पुंसा शक्यते गदितुं हि तत् ॥११॥
तद्भाग्यपौरुषाभ्यां तल्लक्षितं कथयामि ते ॥
समन्ताद्गहनाकीर्णं क्षेत्रं नीलाद्रिनाभिकम् ॥ १२ ॥
आयामविस्तृतिभ्यां च विख्यातं क्रोशपञ्चकम् ॥
तीर्थराजस्य वेलायां स्वर्णवालुकयावृतम् ॥ १३ ॥
अद्रेः शृङ्गे महानुच्चः कल्पस्थायी वटो महान् ॥
क्रोशायतः पुष्पफलवर्जितः पल्लवोज्ज्वलः ॥ १४ ॥
सूर्यापक्रमणे तस्य छायां नापक्रमेत वै ॥
तस्य पश्चात्प्रदेशे हि कुण्डं रोहिणसञ्ज्ञकम् ॥ १५ ॥
जलोद्गमान्नीलदृषदारोहणविभूषितम् ॥
बहिः स्फटिकवेदीभिश्चतुर्दिक्षु परीवृतम् ॥ १६ ॥
अघसङ्घातहारीभिरद्भिः पूर्णं मनोरमम् ॥
तत्पूर्ववेदिकामध्ये न्यग्रोधच्छायशीतले ॥ १७ ॥
इन्द्रनीलमयो देव आस्ते चक्रगदाधरः ॥
एकाशीत्यङ्गुलमितः स्वर्णपद्मोपरि स्थितः ॥ १८ ॥
अष्टमीचन्द्रशकलशोभाविजयिभालभूः ॥
स्मेरेन्दीवरयुग्मश्रीधिक्कारोद्यतलोचनः ॥ १९ ॥
आननामृतभानूद्यत्सन्तापत्रयमोचनः ॥
नासापुटद्वयोद्भासितिलपुष्पप्रशोभनः ॥ 2.2.10.२० ॥
वपुषोऽश्ममयत्वेऽपि सुस्मितस्रपिताधरः ॥
हाससम्फुल्लगण्डाभ्यां रुचिरं चिबुकं हनुः ॥ २१ ॥
अनन्यपूर्वघटितं सृक्किणीयुगमञ्जसा॥
हासनिम्नाधरौ गण्डौ चिबुकं सृक्किणी शुभे ॥ २२ ॥
वहन्निदर्शनं देवो विश्वकर्मादिशिल्पिनाम् ॥
मकरास्यकर्णभूषाशोभिश्रुतियुगेन सः ॥ २३ ॥
गुरुभार्गवयोर्मध्ये पूर्णचन्द्रोपहासकः ॥
ग्रैवयशोभाजनककण्ठदेशेन पश्यताम् ॥ २४ ॥
दक्षिणावर्त्तशङ्खस्य मुक्ताजन्माभिशङ्ककृत् ॥
पीनायतस्कन्धयुगजानुदीर्घचतुर्भुजः ॥ २५ ॥
स्वच्छनिर्मलहारोपशोभकोरःस्थलो विभुः ॥
धत्ते चतुर्दशजगद्दिव्यकौस्तुभबिम्बितम् ॥ २६ ॥
निम्ननाभिह्रदाविष्टतनुरोमालिमञ्जुलः ॥
हारं त्रिवलिमध्येन स्थाणुत्वपरिणामकः ॥ २७ ॥
सुरत्नमेखलादाम्ना किङ्किणीमौक्तिकस्रजा ॥
जगल्लावण्यपुटके स्फिचौ देवस्य शोभतः ॥ २८ ॥
जघनालंविमुक्तास्रक्पीतचैलोपशोभितम् ॥
जङ्घास्तम्भयुगं मोक्षमाङ्गल्यतोरणाश्रयम् ॥ २९ ॥
वृत्तानुपूर्वजानुभ्यां मालया प्रपदीनया ॥
रत्नाढ्यवलयाभ्यां च शोभेते चरणौ विभोः ॥ 2.2.10.३० ॥
हारकङ्कणकेयूर मुकुटाद्यैरलङ्कृतम् ॥
ज्ञानाहङ्कारकैश्वर्यशब्दब्रह्मणि केशवः ॥ ३१ ॥
चक्रपद्मगदाशङ्खपरिणामानि धारयन् ॥
सर्वाशाद्योतको देवो नीलाद्रेरुपरि स्थितः ॥ ३२ ॥
भक्त्या प्रणम्य दृष्ट्वा यं देहबन्धात्प्रमुच्यते ॥
वामपार्श्वगता लक्ष्मीराश्लिष्टा पद्मपाणिना ॥ ३३ ॥
वल्लकीवादनपरा भगवन्मुखलोचना ॥
सर्वलावण्यवसतिः सर्वालङ्कारभूषिता ॥ ३४ ॥
तावपश्यं हि जगतः पितरावचलस्थितौ ॥
तूष्णीम्भूतौ स्मेरदृशाऽनुगृह्णन्तौ च पश्यतः ॥ ३५ ॥
सजीवौ तावबुधं भो दीनानुग्रहकारणात् ॥
छत्रीभूतफणावृन्दः शेषः पश्चादवस्थितः ॥ ३६ ॥
अग्रे व्यवस्थितं दृष्टं वपुर्बिभ्रत्सुदर्शनम् ॥
कृताञ्जलिपुटं तस्य पश्चाद्गरुडमास्थितम् ॥ ३७ ॥
एवमद्भुतरूपं तं दृष्ट्वा साक्षाच्छ्रियः पतिम् ॥
चेतोरज्जुभिराकृष्टमिव तत्रैव धावति ॥ ३८ ॥
अनेकजन्मसाहस्रैः सुकर्माण्यर्जितानि चेत् ॥
युगपत्परिपक्वानि यस्यासौ तं हि पश्यति ॥ ३९ ॥
तीर्थस्नानतपोदानदेवयज्ञव्रतैरपि ॥
नालमालोकितुं मर्त्यस्तादृशं पुरुषोत्तमम् ॥ 2.2.10.४० ॥
ये नीलमूर्तिं विमलाम्बराभं ध्यायन्ति विष्णुं पुरुषोत्तमस्थम् ॥
ते क्षीणबन्धाः प्रविशन्ति विष्णोः पुरं हि यत्प्राप्य न शोचतीह ॥ ४१ ॥
विद्याभिरष्टादशभिः प्रणीतं नानाविधं कर्मफलं नृणां यत् ॥
एकत्र तत्सर्वममुष्य विष्णोः सन्दर्शनस्यैति शतांशमानम् ॥ ४२ ॥
किमत्र वाच्यं त्वधिकं क्षितीन्द्र पुंसो मतिर्यावदुपैति कामान् ॥
लभेत नीलाद्रिपतिं प्रणम्य ततोऽधिकङ्क्षेत्रभुवो महिम्ना ॥ ४३ ॥
स एव दाता क्रतुभिः स यष्टा सत्यप्रवक्ता स तु धर्मशीलः ॥
सर्वैर्गुणैः सर्वभवैर्वरिष्ठो नीलाद्रिनाथः खलु येन दृष्टः ॥ ४४ ॥
तत्र ये सेवकाः सन्ति माधवस्य जगत्पतेः ॥
तेभ्यः सकाशान्माहात्म्यमिदं ज्ञातं मया नृप ॥ ४५ ॥
तस्मिन्परम्परायातमादिसृष्टेः पुरातनम् ॥
प्रसिद्धमिदमाख्यानं श्रुत्वा तत्रागतो ह्यहम् ॥ ४६ ॥
त्वदाज्ञया तत्र गत्वा दृष्ट्वा श्रीपुरुषोत्तमम् ॥
निवेदितं ते राजेन्द्र यथेच्छसि तथा कुरु ॥ ४७ ॥
॥ इन्द्रद्युम्न उवाच ॥ ॥
आप्तवाक्याद्भगवतः श्रुत्वा रूपमघापहम् ॥
कृतकृत्योऽस्मि भगवन्दिव्यनिर्माल्यसङ्गमात् ॥ ४८ ॥
बहुजन्मस्वर्जितानि क्षीणानि दुरितानि मे ॥
अधिकारी त्वहं जातो दर्शने श्रीपतेरिह ॥ ४९ ॥
सर्वात्मनाहं यास्यामि राज्येन सुसमृद्धिना ॥
तत्रावासं करिष्यामि पुरदुर्गाणि चैव हि ॥ 2.2.10.५० ॥
क्रतुना हयमेधेन यक्ष्ये प्रीत्यै मुरद्विषः ॥
शतोपचारैः श्रीनाथं पूजयिष्ये दिनेदिने ॥ ५१ ॥
व्रतोपवासनियमैः प्रीणयिष्ये जगद्गुरुम् ॥
वाक्यामृतेन सन्तप्तं यथा मामभिषेक्ष्यति ॥ ५२ ॥
दीनानुकम्पी भगवान्साक्षान्नारायणो विभुः ॥
एवं स श्रद्धया भक्त्या संस्तुते यावदीश्वरम् ॥ ५३ ॥
नारदस्तत्र सम्प्राप्तो भुवनालोककौतुकी ॥
तमायान्तमृषिं दृष्ट्वा वैष्णवाग्र्यं विधेः सुतम् ॥ ५४ ॥
आशशम्स स्वकार्यस्य सिद्धिं नरपतिस्तदा ॥
उत्थाय सहसा विप्राः पाद्यार्घ्याचमनीयकैः ॥
वरासनस्थं प्रणतः प्रोवाचेदं कृताञ्जलिः ॥ ५५ ॥
॥ इन्द्रद्युम्न उवाच ॥ ॥
अद्य मे सफला यज्ञा दानमध्ययनं तपः ॥ ५६ ॥
यन्मे गृहं समागच्छद्द्वितीया ब्रह्मणस्तनुः ॥
कृतार्थो यद्यपि मुने आगमानुग्रहात्तव ॥ ५७ ॥
तथापि त्वत्प्रसादाय किमाज्ञां करवाणि ते ॥
किं प्रयोजनमुद्दिश्य भवनं मे पवित्रितम् ॥ ५८ ॥
॥ जैमिनिरुवाच ॥ ॥
तच्छ्रुत्वा नृपतेर्वाक्यं भक्तिप्रश्रयकोमलम् ॥
उवाच ब्रह्मणः पुत्रः स्मितपूर्वं महीपतिम् ॥ ५९ ॥
॥ ॥ नारद उवाच ॥ ॥
इन्द्रद्युम्न नृपश्रेष्ठ विमलैस्त्वद्गुणोत्करैः ॥
प्रीणिता देवताः सिद्धा मुनयो ब्रह्मणा सह ॥ 2.2.10.६० ॥
स्वप्रतिष्ठा पृथग्योग्या गुणा एकैकशस्तव ॥
ब्रह्मणः सदने स्थित्यै पर्याप्तास्तु समीहिताः ॥ ६१ ॥
अवतीर्णो नरं द्रष्टुं तिष्ठन्तं बदराश्रमे ॥
तद्ध्यानावसरे ज्ञातो व्यवसायस्तवेदृशः ॥ ६२ ॥
साधु व्यवसितं राजन्याभूत्ते बुद्धिरीदृशी ॥
सहस्रजन्मस्वभ्यासाद्भक्तिर्भवति भूपते ॥ ६३ ॥
नीलाचलगुहावासे माधवे जगतां धवे ॥
पितामहो महाप्राज्ञो यमाराध्य जगत्पतिम् ॥ ६४ ॥
विनिर्ममे सृष्टिमिमां लेभे पैतामहं पदम् ॥
तदन्वयप्रसूतोऽसि युक्ता ते भक्तिरीदृशी ॥ ॥६५॥
चतुर्वर्गफला भक्तिर्विष्णौ नाल्पतपःफलम् ॥
अनाद्यविद्या सुदृढपञ्चक्लेशविवर्द्धिनी ॥६६॥
एकैवेयं विष्णुभक्तिस्तदुच्छेदाय जायते ॥
भवारण्ये प्रतिपदं दुःखसङ्कटसङ्कुले । ६७ ॥
नराणां भ्रमतां विष्णुभक्तिरेका सुखप्रदा ॥
निरालये द्वन्द्ववातप्रोद्यतेस्मिन्सुदुस्तरे ॥६८॥
निमग्नानां भवाम्भोधौ विष्णुभक्तिस्तरिः स्मृता ॥
आश्रित्यैकां भगवतीं विष्णुभक्तिं तु मातरम् ॥ ६९ ॥
सन्तः सन्तुष्टमनसो न तु शोचन्ति जातुचित् ॥
विष्णुभक्तिसुधापानसंहृष्टानां महात्मनाम् ॥2.2.10.७०॥
ब्राह्म्यं पदं स्वल्पलाभो भाजनानां विमुक्तये ॥
त्रिविधो योंऽहसा राशिः सुमहाञ्जन्मिनां नृप ॥ ७१ ॥
विष्णुभक्तिमहादाववह्नौ स शलभायते ॥
प्रयागगङ्गाप्रमुखतीर्थानि च तपांसि च ॥ ७२ ॥
अश्वमेधः क्रतुवरो दानानि सुमहान्ति च ॥
व्रतोपवासनियमाः सहस्राण्यर्जिता अपि ॥ ७३ ॥
समूह एषामेकत्र गुणितः कोटिकोटिभिः ॥
विष्णुभक्तेः सहस्रांशसमोऽसौ न हि कीर्तितः ॥ ॥ ७४ ॥
॥ जैमिनिरुवाच ॥ ॥
विष्णुभक्तेस्तु माहात्म्यं श्रुत्वा ब्रह्मर्षिणोदितम् ॥
विष्णुभक्तेः स्वरूपं हि ज्ञातुकामः क्षितीश्वरः ॥ ७५ ॥
नारदं पुनराहेदं वाक्यं सत्कारयुक्तिमान् ॥ ७६ ॥
। इन्द्रद्युम्न उवाच ॥ ॥
महिमा विष्णुभक्तेस्तु साधु प्रोक्तो महामुने ॥
तस्याः स्वरूप जिज्ञासा चिरान्मे हृदि वर्त्तते ॥ ७७ ॥
लक्षणं वर्णयेदानीं भक्तेर्वैष्णवपुङ्गव ॥
त्वदन्यो न हि वक्ता स्याद्विज्ञातो मे महीतले ॥ ७८ ॥
॥ नारद उवाच ॥ ॥
साधु राजंस्त्वया पृष्टं भक्तिलक्षणमुत्तमम् ॥
कथयिष्ये यथार्थं त्वां भक्तिभाजनमुत्तमम् ॥ ७९ ॥
अपात्रे न हि वाच्येयं नरेंऽधे मलिनान्तरे ॥
शृणुष्वावहितो राजन्प्रोच्यमानां मयानघ ॥ 2.2.10.८० ॥
सामान्यतो विशेषाच्च विष्णोर्भक्तिं सनातनीम् ॥
अत्यन्तसुखसम्प्राप्तौ विच्छेदे दुःखसन्ततेः ॥ ८१ ॥
हेतुरेकोऽयमेवेति संश्रयाद्भक्तिरुच्यते ॥
त्रिधा सा गुणभेदेन तुरीया निर्गुणा मता ॥ ८२ ॥
कामक्रोधाभिभूतानां दृष्ट्वा यान्यं न पश्यताम् ॥
लब्धये चाभिचाराय भक्तिः स्यान्नृप तामसी ॥ ८३ ॥
यशसे चातिरिक्ताय परस्य स्पर्द्धयापि वा ॥
प्रसङ्गात्परलोकाय भक्तिः सा राजसी स्मृता ॥ ८४ ॥
आमुष्मिकं स्थिरतरं दृष्ट्वा भावान्विनश्वरान् ॥
पश्यताश्रमवर्णोक्तान्धर्मान्नैव जिहासता ॥ ८५ ॥
आत्मज्ञानाय या भक्तिः क्रियते सा तु सात्त्विकी ॥
जगच्चेदं जगन्नाथो नान्यं चापि च कारणम् ॥ ८६ ॥
अहं च न ततो भिन्नो मत्तोसौ न पृथक्स्थितः ॥
हीनं बहिरुपाधीनां प्रेमोत्कर्षेण भावनम् ॥ ८७ ॥
दुर्लभा भक्तिरैषा हि मुक्तयेऽद्वैतसञ्ज्ञिता ॥
सात्त्विक्या ब्रह्मणः स्थानं राजस्या शक्रलोकताम् ॥ ८८ ॥
प्रयान्ति भुक्त्वा भोगान्हि तामस्या पितृलोकताम् ॥
पुनरागत्य भूर्लोकं भक्तिं तां वैपरीत्यतः ॥ ८९ ॥
तामसो राजसीं कुर्याद्राजसः सात्त्विकीं तथा ॥
सात्त्विको मुक्तिमाप्नोति कृत्वा चाद्वैतभावनाम् ॥ 2.2.10.९० ॥
एकामपि समाश्रित्य क्रमान्मुक्तिपथं व्रजेत् ॥
विष्णुभक्तिविहीनस्य श्रौतस्मार्ताश्च याः क्रियाः ॥ ९१ ॥
प्रायश्चित्तादिकं तीर्थं यात्रा कृच्छ्रादिकं तपः ॥
कुले प्रसूतिः शिल्पानि सर्वं लौकिकभूषणम् ॥ ९२ ॥
कायक्लेशः फलं तेषां स्वैरिणी व्यभिचारवत् ॥
कुलाचारविहीनोऽपि दृढभक्तिर्जितेन्द्रियः ॥ ॥ ९३ ॥
प्रशस्यः सर्वलोकानां न त्वष्टादशविद्यकः ॥
भक्तिहीनो नृपश्रेष्ठ सज्जातिर्द्धार्मिकस्तथा ॥ ९४ ॥
नाल्पभाग्यस्य पुंसो हि विष्णौ भक्तिः प्रजायते ॥
यां तु सम्पाद्य यत्नेन कृतकृत्यो न सीदति ॥ ९५ ॥
यया वेत्ति जगन्नाथं सा विद्या परिकीर्तिता ॥
येन प्रीणाति भगवांस्तत्कर्माशुभनाशनम् ॥ ९६ ॥
विष्णुभक्तश्च सम्प्रोक्तस्ताभ्यां युक्तो दृढव्रतः ॥
यत्पादपांसुना विश्वं पूयते सचराचरम् ॥ ९७ ॥
सृष्टिस्थितिविनाशानां स्वेच्छया प्रभवत्यसौ ॥
कि पुनः क्षुद्रकामानां भूमिस्वर्गादिसम्पदाम् ॥ ९८ ॥
वासुदेवस्य भक्तस्य न भेदो विद्यतेऽनयोः ॥
वासुदेवस्य ये भक्तास्तेषां वक्ष्यामि लक्षणम् ॥ ९९ ॥
प्रशान्तचित्ताः सर्वेषां सौम्याः कामजितेन्द्रियाः ॥
कर्मणा मनसा वाचा परद्रोहमनिच्छवः ॥ ॥ 2.2.10.१०० ॥
दयार्द्रमनसो नित्यं स्तेयहिंसापराङ्मुखाः ॥
गुणेषु परकार्येषु पक्षपातमुदान्विताः ॥ १ ॥
सदाचारावदाताश्च परोत्सवनिजोत्सवाः ॥
पश्यावः सर्वभूतस्थं वासुदेवममत्सराः ॥ २ ॥
दीनानुकम्पिनो नित्यं भृशं परहितैषिणः ॥
राजोपचारपूजायां लालनाः स्वकुमारवत् ॥ ३ ॥
कृष्णसर्पादिव भयं बाह्ये परिचरन्ति ते ॥
विषयेष्वविवेकानां या प्रीतिरुपजायते ॥ ४ ॥
वितन्वते तु तां प्रीतिं शतकोटिगुणां हरौ ॥
नित्यकर्तव्यताबुद्ध्या यजन्तः शङ्करादिकान् ॥ ५ ॥
विष्णुस्वरूपान्ध्यायन्ति भक्त्या पितृगणेष्वपि ॥
विष्णोरन्यं न पश्यन्ति विष्णुं नान्यत्पृथग्गतम् ॥ ६ ॥
पार्थक्यं न च पार्थक्यं समष्टिव्यष्टिरूपिणः ॥
जगन्नाथ तवास्मीति दासस्त्वं चास्मि नो पृथक् ॥ ७ ॥
अन्तर्यामी यदा देवः सर्वेषां हृदि संस्थितः ॥
सेव्यो वा सेवको वापि त्वत्तो नान्योऽस्ति कश्चन ॥ ८ ॥
इति भावनया कृतावधानाः प्रणमन्तः सततं च कीर्त्तयन्तः ॥
हरिमब्जजवन्द्यपादपद्मं प्रभजन्तस्तृणवज्जगज्जनेषु ॥ ९ ॥
उपकृतिकुशला जगत्स्वजस्रं परकुशलानि निजानि मन्यमानाः ॥
अपि परपरिभावने दयार्द्राः शिवमनसः खलु वैष्णवाः प्रसिद्धाः ॥ 2.2.10.११० ॥
दृषदि परधने च लोष्टखण्डे परवनितासु च कूटशाल्मलीषु ॥
सखिरिपुसहजेषु बन्धुवर्गे सममतयः खलु वैष्णवाः प्रसिद्धाः ॥ १३ ॥
हरिचरणसरोजयुग्मचित्ता जडिमधियः सुखदुःखसाम्यरूपाः ॥
अपचितिचतुरा हरौ निजात्मनतवचसः खलु वैष्णवाः प्रसिद्धाः ॥ १४ ॥
रथचरणगदाब्जशङ्खमुद्राकृतितिलकाङ्कितबाहुमूलमध्याः ॥
मुररिपुचरणप्रणामधूलीधृतकवचाः खलु वैष्णवा जयन्ति ॥ १५ ॥
मुरजिदपधनापकृष्टगन्धोत्तमतुलसीदलमाल्यचन्दनैर्ये ॥
वरयितुमिव मुक्तिमाप्तभूषाकृतिरुचिराः खलु वैष्णवा जयन्ति ॥ १६ ॥
विगलितमदमानशुद्धचित्ताः प्रसभविनस्यदहङ्कृतिप्रशान्ताः ॥
नरहरिममराप्तबन्धुमिष्ट्वा क्षयितशुचः खलु वैष्णवा जयन्ति ॥ १७ ॥
भगवति सततं प्रभक्तिभाजां शुभचरितं तव लक्ष्म नोभ्यधायि ॥
श्रुतिपथभवतीर्णमाशु पुंसां हरति मलं चिरसञ्चितं यदेतत् ॥ १६ ॥
न हि धनमपि मृग्यते कदाचिन्न खलु शरीरजखेदसम्प्रयोगः ॥
मृदुलघुवचसाभिधानकीर्तिं भजनमहं तव दास्य एव चिन्ता ॥ १९ ॥
शुभचरितमपि द्विषन्ति पुंसां स्वयमिह दुश्चरितानुबन्धचित्ताः ॥
महदकुशलमप्यवाप्य सुस्था भगरसरसिका अवैष्णवास्ते ॥ 2.2.10.१२० ॥
परमसुखपदं हृदम्बुजस्थं क्षणमपि नानुसज्जन्ति मत्तभावाः ॥
वितथवचनजालकैरजस्रं पिदधति नाम हरेरवैष्णवास्ते ॥२१॥
परयुवतिधनेषु नित्यलुब्धाः कृपणधियो निजकुक्षिभारपूर्णाः॥
नियतपरमहत्त्वमन्यमाना नरपशवः खलु विष्णुभक्तिहीनाः ॥२२॥
अनवरतमनार्यसङ्गरक्ताः परपरिभावकहिंसकाऽतिरौद्राः ॥
नरहरिचरणस्मृतौ विरक्ता नरमलिनाः खलु दूरतो हि वर्ज्याः ॥ १२३ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे पुरुषोत्तमक्षेत्रमाहात्म्ये जैमिनिऋषिसंवादे दशमोऽध्यायः ॥ १० ॥