॥ जैमिनिरुवाच ॥ ॥
प्रत्यागते ततो विप्रे सायाह्ने सुरसङ्कुले ॥
माधवार्चनवेलायां वातश्चण्डगतिर्ववौ ॥ १ ॥
सुवर्णवालुकाश्चासौ विचकार च सर्वशः ॥
तेनाकुलदृशो देवा न शेकुरवलोकने ॥ २ ॥
श्रीकान्तस्य तदा विप्रा दध्युस्ते पुरुषोत्तमम् ॥
यावद्ध्यानस्थिरदृशो मुहूर्तं ते दिवौकसः ॥ ३ ॥
ध्यानान्ते वालुकाराशिं ददृशुस्ते न माधवम् ॥
रौहिणं च तथा कुण्डं बभूवुर्व्याकुलेन्द्रियाः ॥ ४ ॥
चिन्तामवापुर्महतीं हाहेति रुरुदुर्भृशम् ॥
किमेतन्नो हि दुर्दैवमेकदा समुपस्थितम् ॥ ५ ॥
दृशां सेचनकः श्रीशः क्षणाद्यन्नोपलभ्यते ॥
अपराधं किमस्माकं लक्षितं पुरुषोत्तम ॥ ६ ॥
युगपत्सेवकान्सर्वानपहाय न दृश्यसे ॥
येषामर्थे जगन्नाथ स्वीचकर्थ कलेवरम् ॥ ७ ॥
ताननाथान्परित्यज्य कानने किमुपेक्षसे ॥
स्वशरीरविभूतीर्नो विहाय कमलेक्षण ॥ ८ ॥
किमकाण्डं रचयसि कथाशेषान्दिवौकसः ॥
तवांशभूतान्नः सर्वान्यज्वानः प्रयजन्ति वै ॥ ९ ॥
त्वत्प्रीत्यै यज्ञपुरुष त्वदादिष्टफलप्रदान्॥
त्वदहङ्कारवर्ष्माणस्त्वदनुग्रहजीवनाः ॥ 2.2.9.१० ॥
कान्दिशीका कुत्र यामः साम्प्रतं त्वदुपेक्षिताः॥
दिवि स्थानैश्च किं कार्यं त्वामनालोक्य माधव ॥ ११ ॥
अकृतार्थास्त्वया हीना भविष्यामो वनेचराः ॥
निष्कलङ्कसुधाभानुं सुषमापरिभावुकम् ॥ १२ ॥
त्वदास्यं चेन्न पश्यामो न यास्यामः सुरालयम् ॥
तप आस्थाय परममत्रैव संशितव्रताः ॥ १३ ॥
वर्तामहे वन्यवृत्त्या जटावल्कलधारिणः ॥
यावत्त्वां पुण्डरीकाक्ष विलोकिष्यामहे वयम् ॥ १४ ॥
निसर्गकरुणाम्भोधे दीनान्नस्त्रातुमर्हसि ॥
अनाथान्दीनहदयांस्त्वामेव शरणं गतान् ॥ १५ ॥
त्वदनालोकशोकैकपारावारे निमज्जतः ॥
शुभदृष्टितरण्या नः समुद्धर जगत्पते ॥ १६ ॥
एवं प्रलपतां तत्र सर्वेषां त्रिदिवौकसाम् ॥
अशरीरा तदा वाणी पुनः प्रादुर्बभूव ह ॥ १७ ॥
अत्रार्थे भोः सुरा यत्नं कर्तुमर्हथ नो वृथा ॥
अद्यप्रभृति देवस्य दर्शनं दुर्लभं भुवि ॥ १८ ॥
अत्र स्थानेऽपि तं नत्वा तद्दर्शनफलं लभेत् ॥
स्वयम्भुवोंऽतिकं गत्वा हेतुं ज्ञास्यथ निश्चितम् ॥ १९ ॥
तच्छ्रुत्वा त्रिदशाः सर्वे ब्रह्मणोंऽतिकमागताः ॥
यमानुग्रहवृत्तान्तमवतारं च दारुणः ॥ 2.2.9.२० ॥
श्रुत्वा सन्तुष्टमनसः सर्वे ते त्रिदिवं गताः ॥
स तु विद्यापतिर्विप्रो रथारूढोऽभ्यचिन्तयत् ॥ २१ ॥
मम कार्यं तु निष्पन्नं यद्दृष्टो नीलमाधवः ॥
आसमन्तात्क्षेत्रमिदं परिभ्रम्यावलोकये ॥ २२ ॥
अदृष्टपूर्वं परमं सुपुण्यं सङ्कीर्तनं यस्य मलापहारि ॥
क्षेत्रोत्तमं श्रीपुरुषोत्तमाख्यं प्रदक्षिणीकृत्य व्रजामि तूर्णम् ॥ २३ ॥
पृथ्वीप्रदक्षिणफलं शतधा भजन्ते पर्यन्ति ये सकलकल्मषदार्यरण्यम् ॥
नीलाद्रिमण्डिमिदं पुरुपोत्तमाख्यं मित्रं ममोपदिशति स्म समुद्रतीरे ॥ २४ ॥
विचिन्त्येत्थं द्विजश्रेष्ठः परिबभ्राम वै तदा ॥
क्षेत्रं पश्यन्वनं चैव नानाद्रुमगणान्वितम् ॥ २५ ॥
नानापक्षिगणाघुष्टं कूजद्भ्रमरगुम्फितम् ॥
अप्रविष्टार्ककिरणं छायातरुगणावृतम् ॥ २६ ॥
सर्वर्तुकुसुमोपेतं लतागुल्मोपशोभितम्॥
नानाजलाशयाधारकूजत्सारससङ्कुलम्॥ २७ ॥
पद्मकह्लारकुमुदविकचोत्पलराजितम् ॥
न जलं तत्र कुसुमपरिहीनं लतादिकम् ॥ २८ ॥
परीत्य वेगात्तत्क्षेत्रं जगामाथ द्विजोत्तमः ॥
ध्यायन्निरशनः प्राज्ञः प्राप्यावन्तीं दिनात्यये ॥ २९ ॥
दूतैरावेदितं पूर्वं दूरस्थस्यागतं द्विजाः ॥
श्रुत्वेन्द्रद्युम्नो नृपतिः प्रहर्षं परमं ययौ॥ 2.2.9.३० ॥
तदागमनमाकाङ्क्षन्पूजयित्वा जनार्द्दनम्॥
विद्वद्भिर्ब्राह्मणैः सार्द्धं तस्थौ संहृष्टमानसः ॥ ३१ ॥
एतस्मिन्नन्तरे विप्राः स तु विद्यापतिर्द्विजः॥
प्रावेशिकैर्वेत्रहस्तैर्दौवारिकपुरःसरैः॥३२॥
निर्दिष्टमार्गः पौरैश्चाऽनुमतः कौतुकान्वितैः॥
निर्माल्यमालां नीलाख्य माधवस्य सुशोभनाम्॥३३॥
निधाय पाणौ राजाग्रे प्रविवेश त्वरान्वितः॥
तं दृष्ट्वा नृपतिः सोऽथ समुत्थाय वरासनात् ॥
प्रसीद जगदीशेति वदन्नन्तिकमभ्यगात् ॥ ३४ ॥
अद्य मे जीवितं जातं सफलं जन्मकर्मणा ॥
निर्माल्यमालावपुषं यत्पश्यामीहमाधवम् ॥ ३५ ॥
मालां मुकुन्दशिरसोऽनुपमप्रमोदलाभाधरीकृतसुरद्रुमकान्तगन्धाम् ॥
अन्धीकृतालिनिचयां पवनप्रसारिगन्धप्रणाशितजगत्कलुषां नमामि ॥ ३६ ॥
यत्पादपङ्कजगलद्रजसोनुषङ्गा ब्रह्मादयः परमसम्पदमापुरस्य ॥
विष्णोः कलेवरसमुज्ज्वलिताङ्गरागसंसक्तपुष्पनिलयां प्रणतोस्मि मालाम् ॥ ३७ ॥
पद्मां हृत्पद्मवसतिं सपत्नीं या हसत्यसौ ॥
विकस्वरैः सुकुसुमैर्विष्ण्वङ्कस्थितिर्गर्विताम् ॥ ३८ ॥
कुत्र स्थितेयमाहार्षीन्महिमानं स्रगुज्वला ॥
या श्रीनिधेः शरीरेऽऽभूत्सर्वाङ्गव्यापिनी चिरम् ॥ ३९ ॥
जय नीलाद्रिशिखरभूषणाघप्रद्षण ॥
प्रणतार्त्तिहर श्रीमंस्त्राहि मां शरणागतम् ॥ 2.2.9.४० ॥
इति ब्रुवाणः क्षितिपो बाष्पगद्गदया गिरा ॥
जगाम शिरसा भूमिं स्फुरद्रोमाञ्चकञ्चुकः ॥ ४१ ॥
सोऽपि विद्यापतिर्विप्रः क्षपिताशेषकल्मषः ॥
दिव्यदेहो नृपस्याग्रे ध्यायन्माधवमास्थितः ॥ ४२ ॥
तेजसा सर्वलोकानां पापानि क्षालयन्सुधीः ॥
अनुगृह्णातु देवस्त्वां नीलाद्रिशिखरालयः ॥ ४३ ॥
श्रीपतेरियमाज्ञा ते मालारूपा प्रकाशिता ॥
द्रष्टुं क्षेत्रोत्तमगतं स्वं साक्षान्मुक्तिदायकम् ॥ ॥ ४४ ॥
इत्युच्चरन्नरपतेरामुमोच गले स्रजम् ॥
सोऽप्युत्थाय क्षितिपतिर्मालां हृदयलम्बिनीम् ॥ ४५ ॥
दृष्ट्वा मेने श्रियः कान्तं साक्षाद्धृदयगामिनम् ॥
निधाय पाणी शिरसि दरमीलितलोचनः ॥ ४६ ॥
आनन्दाश्रुजलक्लिन्नवदनस्तुष्टुवे हरिम् ॥ ४७ ॥
॥ इन्द्रद्युम्न उवाच ॥ ॥
जयाखिलजगत्सृष्टिस्थितिसंहारशिल्पकृत् ॥
लीलाविश्ववपुर्लोमसङ्ख्यब्रह्माण्डभारभृत् ॥ ४८ ॥
अन्तर्यामिन्नशेषाणां प्रणतार्तिहर प्रभो ॥
ब्रह्मेन्द्र रुद्रमुकुटकिर्मीरितपदाम्बुज ॥ ४९ ॥
दीनानाथविपन्नैकसततत्राणतत्पर ॥
निर्व्याजकरुणावारिपारावार परात्पर ॥ 2.2.9.५० ॥
त्वदेकशरणं दीनमनादिभ्रमनिर्भरम् ॥
परित्राहि जगन्नाथ भक्ताविरतवत्सल ॥ ५१ ॥
इति स्तुवन्नरपतिः स्वासने समुपाविशत् ॥
गृहमेधिब्रह्मचारियतिवैखानसैर्वृतः ॥ ॥ ५२ ॥
अष्टादशसु विद्यासु कुशलैर्यज्वभिर्द्विजैः ॥
मीनैः स्थविरभृत्यैश्च सार्द्धं मन्त्रिपुरःसरैः ॥ ५३ ॥
विद्यापति पूजयित्वा बहुमानपुरःसरम् ॥
उपवेश्याग्रतः पीठे पृष्ट्वा कुशलमादितः ॥ ५४ ॥
पुरुषोत्तमक्षेत्रस्य विष्णोर्नीलाश्मवर्ष्मणः ॥
महिमानं स्वरूपं च पप्रच्छावहितो मुदा ॥ ५५ ॥
ब्राह्मणः क्षत्रियेणासौ पृष्टोनुभवमात्मनः ॥
भिल्लद्वीपप्रवेशादिमज्जनान्तं सरित्पतेः ॥ ५६ ॥
क्षेत्रोत्तमस्य वृत्तान्तं कथयामास विस्तरात् ॥
नीलाद्रिरोहणं नीलमाधवस्य च दर्शनम् ॥ ५७ ॥
स्नानं च रौहिणे कुण्डे महिमानं वटस्य च ॥
नृसिंहाद्यष्टशम्भून शक्तीनामष्टसंस्थितिम् ॥ ५८ ॥
रथेनाक्रमणाद्दृष्टौ क्षेत्रस्यायामविस्तरौ ॥
तत्सर्वं वर्णयामास यथावदनुपूर्वशः ॥ ५९ ॥
तच्छ्रुत्वा चित्रमतुलं तैर्थिकावेदितं पुरा ॥
सम्प्रतीतो हृष्टमनाः पुनस्तं क्षितिपोऽब्रवीत् ॥ 2.2.9.६० ॥
॥ इन्द्रद्युम्न उवाच ॥ ॥
श्रुतपूर्वं तु भगवंस्त्वत्तोऽश्रौषं सुदुर्लभम् ॥
क्षेत्रोत्तमं द्विजश्रेष्ठ साम्प्रतं वर्णयस्व मे ॥ ६१ ॥
नीलेन्द्रमणिमूर्तेस्तु विष्णो रूपं यथातथम् ॥
॥ विद्यापतिरुवाच ॥ ॥
हन्त ते कथयिष्यामि दिव्यां मूर्तिं जगत्पतेः ॥ ६२ ॥
यां चर्मचक्षुषा दृष्ट्वा जायते मुक्तिभाजनम् ॥
नीलेन्द्रमणिपाषाणमयी मूर्तिः पुरातनी ॥ ६३ ॥
यान्वहं ब्रह्मरुद्रेन्द्रपुरोगैरर्चिता सुरैः ॥
आरोपितेयं दिव्या स्रक्पूजायां हि सुपर्वभिः ॥ ६४ ॥
सेयं न म्लायति नृप न च गन्धेन रिच्यते ॥
दिने बहुतिथे यातेऽपीदृशी स्रग्धरोद्भवा ॥ ६५ ॥
दिव्योपहारः निर्माल्यभक्षणात्क्षीणकल्मषम् ॥
मां न पश्यसि किं राजन्नतिमानुषवर्चसम् ॥ ६६ ॥
सकृदप्यशनाद्यस्य क्षुत्पिपासाबलक्षयाः ॥
न बाधन्ते नृपश्रेष्ठ दृष्टेनादृष्टकल्पनम् ॥ ६७ ॥
भुक्तिर्मुक्तिश्च वै राजन्न् तत्र युगपत्स्थिते ॥
न जरारोगशोकादिदुःखं तत्र हि विद्यते ॥ ६८ ॥
यत्र साक्षाज्जगन्नाथः प्रसन्नवदनो विभुः ॥
फुल्लेन्दीवरपत्राक्षः प्रपन्नामृतमुक्तिदः ॥ ६९ ॥
इति श्रीस्कान्दे महापुराण एकशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे श्रीपुरुषोत्तममाहात्म्ये जैमिनिऋषिसंवादे नवमोऽध्यायः ॥ ९ ॥