॥ जैमिनिरुवाच ॥ ॥
इत्युक्तस्तेन विप्रेण शबरश्चिन्तयाकुलः ॥
अस्माकमुपजीव्योऽसौ रहस्यस्थो जनार्दनः ॥ १ ॥
उपस्थितं नो दुर्दैवं येन स्यात्सार्वलौकिकः ॥
न दर्शयामि चेद्विप्रं शापं मेऽसौ प्रदास्यति ॥ २ ॥
सर्वेषां ब्राह्मणो मान्यो विशेषादतिथिस्त्वयम् ॥
यस्मिन्विफलकामे तु द्वौ लोकौ विफलौ मम ॥ ३ ॥
एवं विचारयन्विश्वावसुः शबरपुङ्गवः ॥
जनप्रवादं सस्मार पुराणं शबरालये ॥ ४ ॥
अस्मिन्नन्तर्हिते देवे भूम्यन्तर्लीनमाधवे ॥
इन्द्रद्युम्नो नरपतिः शक्रतुल्यपराक्रमः ॥ ५ ॥
मनुष्यवपुषा यो वै ब्रह्मलोकं व्रजेदपि ॥
सोऽस्मिन्प्रजाभिरागत्य वाजिमेधशतेन च ॥ ६ ॥
इष्ट्वा दारुमयं विष्णुं चतुर्द्धा स्थापयिष्यति ॥
अस्य चेद्भाग्यमुत्पन्नं ब्राह्मणस्यातिथेर्भृशम् ॥ ७ ॥
अन्तर्द्धानं भगवतः सन्निधानमथो भवेत् ॥
तदेनं दर्शयिष्यामि नीलेन्द्रमणिमच्युतम् ॥ ८ ॥
न पौरुषेयं कस्यापि कर्तव्ये देवनिर्मिते ॥
इत्थं विचार्य मनसा शबरश्च पुनःपुनः ॥ ९ ॥
उवाच विप्रं पुरतो ध्यायन्तं विष्णुमव्ययम् ॥ 2.2.8.१० ॥
॥ शबर उवाच ॥ ॥
अस्माभिः पूर्वतोऽप्येष उदन्तः श्रुत एव हि ॥
इन्द्रद्युम्नो नरपतिरत्र वासं करिष्यति ॥ ११ ॥
ततोऽपि भाग्यवांस्त्वं हि यदग्रे नीलमाधवम् ॥
चक्षुषा पश्यसे ब्रह्मन्नेहि यामो ह्यधित्यकाम् ॥ १२ ॥
इत्युक्त्वा तं करे धृत्वा वर्त्मना गहनं ययौ ॥
उपर्युपर्युपारुह्य शिलाविषमवर्त्मनि ॥ १३ ॥
एकैकनरगम्ये च कण्टकाचितदुर्गमे ॥
तमःप्राये पथि गतं बोधयन्वचसा द्विजम् ॥ १४ ॥
मुहूर्ताभ्यां रौहिणस्य कुण्डस्याविशतां तटे ॥
तं दृष्ट्वा सोऽब्रवीद्विप्रं कुण्डमेतद्द्विजोत्तम ॥ १५ ॥
रौहिणाख्यं महत्तीर्थं कारणं सर्वपाथसाम् ॥
अत्र स्नात्वा नरो याति वैकुण्ठभवनं द्विज ॥ १६ ॥
एतस्य पूर्वभागेऽसो कल्पच्छायावटो महान् ॥
छायां यस्य समाक्रम्य ब्रह्महत्यां व्यपोहति ॥ १७ ॥
एतयोरन्तरे ब्रह्मन्निकुञ्जाभ्यन्तरे स्थितम् ॥
पश्य साक्षाजगन्नाथं वेदान्तप्रतिपादितम् ॥ १८ ॥
दृष्ट्वा जहीहि सकलं विविधं पापसञ्चयम् ॥
इत ऊर्ध्वं न शोचस्व पतितो भवसागरे ॥ १९ ॥ ॥
॥ जैमिनिरुवाच ॥ ॥
स तु कुण्डे द्विजः स्नात्वा सम्प्रदृष्टमनाः सुधी ॥
दूरात्प्रणम्य शिरसा मनसा वचसा हरिम् ॥ 2.2.8.२० ॥
तुष्टाव चैकाग्रमना हर्षगद्गदया गिरा ॥ २१ ॥
॥ विद्यापतिरुवाच ॥ ॥
प्रधानपुरुषातीत सर्वव्यापिन्परात्पर ॥
चराचरपरीणाम परमार्थ नमोऽस्तु ते ॥ ॥ २२ ॥
श्रुतिस्मृतिपुराणेतिहास सम्प्रतिपादितैः ॥
कर्मभिस्त्वं समाराध्य एक एव जगत्पते ॥ २३ ॥
त्वत्त एतज्जगत्सर्वं सृष्टौ सम्पद्यते विभो ॥
त्वदाधारमिदं देव त्वयैव परिपाल्यते ॥ २४ ॥
कल्पान्ते संहृतं सर्वं त्वत्कुक्षौ सावकाशकम् ॥
सुखं वसति सर्वात्मन्नन्तर्यामिन्नमोऽस्तु ते ॥ २५ ॥
नमस्ते देवदेवाय त्रयीरूपाय ते नमः ॥
चन्द्रसूर्यादिरुपेण जगद्भासयते सदा ॥ २६ ॥
सर्वतीर्थमयी गङ्गा यस्य पादाब्जसङ्गमात् ॥
पुनाति सकलाल्ँलोकांस्तस्मै पावयते नमः ॥ २७ ॥
हवींषि मन्त्रपूतानि सम्यग्दत्तानि वह्निषु ॥
परिणामकृते तुभ्यं .जगज्जीवयते नमः ॥ २८ ॥
यदंशमुपजीवन्ति जगन्त्यानन्दरूपिणः ॥
सर्वकल्मषहीनाय तस्मै ब्रह्मात्मने नमः ॥ २९ ॥
निर्मलाय स्वरूपाय शुभरूपाय मायिने ॥
सर्वसङ्गविहीनाय नमस्ते विश्वसाक्षिणे ॥ 2.2.8.३० ॥
बहुपादाक्षिशीर्षास्यबाहवे सर्वजिष्णवे ॥
सर्वजीवस्वरूपाय नमस्ते सर्वरूपिणे ॥ ३१ ॥
नमस्ते कमलाकान्त नमस्ते कमलासन ॥
नमः कमलपत्राक्ष त्राहि मां पुरुषोत्तम ॥ ३२ ॥
असारसंसारपरिभ्रमेण निपीड्यमानं खलु रोगशोकैः ॥
मामुद्धरास्माद्भवदुःखजातात्पादाब्जयोस्ते शरणं प्रपन्नम् ॥ ३३ ॥
॥ जैमिनिरुवाच ॥ ॥
इति स्तुत्वा सुरेशानं देवं प्रणवरूपिणम् ॥
प्रणतः प्रणवं मन्त्रं जजाप पुरतो हरेः ॥ ३४ ॥
जपान्ते शान्तमनसं कृताञ्जलिमुपस्थितम् ॥
मन्यमानं कृतार्थं स्वं प्रोवाच शबरो द्विजम् ॥ ३५ ॥
॥ विश्वावसुरुवाच ॥ ॥
कृतार्थस्त्वं प्रभुं दृष्ट्वा साम्प्रतं द्विजपुङ्गव ॥
दिनान्तोऽभूद्गृहं यावः क्षुधितोऽसि श्रमान्वितः ॥ ३६ ॥
वासोऽप्यरण्ये हिंस्राणां नास्माकमुचिता स्थितिः ॥
यावद्भानोर्भाति भासस्तावद्यामो निजालयम् ॥ ३७ ॥
इत्युक्त्वा ब्राह्मणं पाणौ गृहीत्वा शबरः पुनः ॥
आजगाम द्विजश्रेष्ठाः स्वाश्रमं त्वरयान्वितः ॥ ३८ ॥
ब्राह्मणोऽपि जगन्नाथं ध्यायन्नानन्दसागरम् ॥
क्षुत्तृषाश्रमजातानि दुःखानि बुबुधे न हि ॥ ३९ ॥
शिलाविषममार्गेऽपि कण्टकोत्करदुर्गमे ॥
व्रजन्न दुःखं लेभेऽसौ शरीरानास्थया मुदा ॥ 2.2.8.४० ॥
एवं व्रजन्तौ तौ विप्र शबरौ शबरालयम् ॥
सायाह्ने तमनुप्राप्तौ वैष्णवाग्र्यौ तु भो द्विजाः ॥ ४१ ॥
तत्रातिथिमनुप्राप्तं ब्राह्मणं शबरोत्तमः ॥
भक्ष्यभोज्य विधानैश्च विविधैः समपूजयत् ॥ ४२ ॥
ततोऽभितृप्तस्तद्दत्तैरुपचारैर्नृपोचितैः ॥
विस्मयं परमं लेभे शबरस्य सुदुर्लभैः ॥ ४३ ॥
शबरोऽयं निवसति विषमे काननान्तरे ॥
आरण्यकैर्वर्त्तमानः कथमस्य गृहान्तरे ॥ ४४ ॥
राजार्हभक्ष्यभोज्यानि सुलभान्यद्भुतं महत् ॥
इति विस्मयमापन्नं ब्राह्मणं शबरस्तदा ॥ ४५ ॥
प्रोवाच स्निग्धवचसा विनयावनतो भृशम् ॥ ४६ ॥
॥ शबर उवाच ॥ ॥
भो विप्र श्रमहीनोऽसि कच्चित्क्षुत्तृड्विवर्जितः ॥
आरण्यकानां भवने नागराणां कुतः सुखम् ॥ ४७ ॥
अज्ञाता नागरी वृत्तिः शबरैस्तु विशेषतः ॥
राजोपजीविनां श्रेष्ठौ राजामात्यपुरोहितौ ॥ ४८ ॥
तयो राजसमः पूज्यः पुरोधाः शास्त्रसम्मतः ॥
इन्द्रद्युम्नो नरपतिः सार्वभौमः प्रतापवान् ॥ ४९ ॥
त्वयि तुष्टे स सन्तुष्टो ध्रुवं विप्र भविष्यति ॥
इत्युक्तवत्यरण्यस्थे स तु प्रीततरो द्विजः ॥
उवाच शबरं प्रीत्या विनयाद्भुतवादिनम् ॥ 2.2.8.५० ॥
॥ विद्यापतिरुवाच ॥ ॥
साधो मदुपचाराय हृतान्येतानि यानि ते ॥
वस्तुन्यमानुषाणीह यान्यदृष्टानि राजभिः ॥ ५१ ॥
चित्रमेतद्दिव्यवस्तुसञ्चयः शबरालये ॥
एतत्ख्यातुं कौतुकं मे साधो संवर्द्धते महत् ॥ ५२ ॥
॥ शबर उवाच ॥ ॥
एतत्प्रकाशितुं विप्र मतिर्नोत्सहते मम ॥
तथापि ते द्विजश्रेष्ठाऽतिथिभक्त्या वदाम्यहम् ॥ ५३ ॥
शक्रादयो देवगणाः समायान्त्यन्वहं द्विज ॥
दिव्योपचारानादाय पूजनाय जगत्पतेः ॥ ५४ ॥
पूजयित्वा जगन्नाथं स्तुत्वा नत्वा च भक्तितः ॥
गीतशवादित्रनृत्यैश्च सन्तोष्य पुरुषोत्तमम् ॥ ५५ ॥
पुनः प्रयान्ति सततं त्रिदिवं सुरसत्तमाः ॥
दिव्यान्येतानि वस्तूनि निर्माल्यानि जगत्पतेः ॥ ५६ ॥
दत्तानि तुभ्यं विदुषे कथं विस्मयते भवान् ॥
विष्णोर्निर्माल्यभोगेन क्षीणरोगजरा वयम् ॥ ५७ ॥
सपुत्रबान्धवाः सर्वे निवसामोऽयुतायुषः ॥
विष्णुनिर्माल्यभोगेन क्षीयते पापसंहतिः ॥ ५८ ॥
न तच्चित्रं द्विजश्रेष्ठ येन स्यान्मुक्तिभाजनम् ॥
श्रुत्वैतद्दुर्लभं कर्म ब्राह्मणो रोमहर्षणः ॥ ५९ ॥
आनन्दाश्रुविलुप्ताक्षः स्वं कृतार्थममन्यत ॥
अहो शबरजन्मासौ पश्यत्यव्ययमीश्वरम् ॥ 2.2.8.६० ॥
तदुच्छिष्टं दिव्यभोगमुपभुङ्क्ते दिवानिशम् ॥
नान्योऽस्य सदृशो लोके पृथिव्यां सचराचरे ॥ ६१ ॥
यादृशो विष्णुभक्तोऽयं शबरो नीलपर्वते ॥
किं गत्वा स्वगृहे मेऽद्य कुटुम्बेनाऽसुखात्मना ॥ ६२ ॥
अनेन सख्यं निष्पाद्य स्थास्याम्यत्र वनान्तरे ॥
चिन्तयित्वा चिरं विप्रः श्रीकृष्णासक्तमानसः ॥ ६३ ॥
पुनः प्रोवाच शबरं मयि ते चेदनुग्रहः ॥
साधो सख्यं त्वया कार्यमिति मे निश्चयो महान् ॥ ६४ ॥
किं गत्वा सेवया राज्ञः परत्रासुखहेतुना ॥
अत्र स्थित्वा त्वया सार्धमुपास्य मधुसूदनम् ॥ ६५ ॥
यथा पुनर्देहबन्धो यतिष्ये न भवेन्मम ॥
साधु मित्र त्वया सार्द्धं भाग्यान्मे सङ्गमोऽभवत् ॥ ६६ ॥
दुस्तारं भवसंसारं तरिष्ये त्वत्प्रसादतः ॥
सारमेतत्प्रशंसन्ति संसारे भवसागरे ॥ ६७ ॥
यद्वैष्णवेन मित्रत्वं दुःखसंसारपारदम् ॥
मित्रस्य सहवासेन पुनः प्रत्यक्षमेष्यति ॥ ६८ ॥
भगवान्पुण्डरीकाक्षः शङ्खचक्रगदाधरः ॥
इन्द्रद्युम्नो नरपतिर्मयि प्रत्यागते सखे ॥ ६९ ॥
भगवन्तं समाराद्धुमिहैव स निवत्स्यति ॥
प्रासादं विपुलं चात्र चिकीर्षुर्भगवत्प्रियम् ॥ 2.2.8.७० ॥
सहस्रमुपचाराणां पूजनाय जगत्पतेः ॥
रचयिष्यामीति महत्प्रतिज्ञासीन्महीपतेः ॥ ७१ ॥
प्रतिश्रुतं तत्पुरतः प्रीतस्तन्मेऽनुमन्यताम् ॥ ७२ ॥ ॥
॥ शबर उवाच ॥ ॥
सखे पुरातनी वार्त्ता प्रसिद्धैवात्र तादृशी ॥ ७३ ॥
त्वया यथैव कथितं इन्द्रद्युम्नसमागमः ॥
केवलं माधवं तत्र न द्रक्ष्यति महीपतिः ॥ ७४ ॥
अचिरादेव भगवान्स्वर्णवालुकयावृतः ॥
प्रतिजज्ञे यमायैतदन्तर्द्धानं गमिष्यति ॥ ७५ ॥
महाभाग्यपरीपाकात्प्रत्यक्षोऽयं त्वया कृतः ॥
इन्द्रद्युम्नागमाभ्यासे ध्रुवं स व्यवधास्यति ॥ ७६ ॥
एषोऽर्थस्तु त्वया मित्र न वक्तव्यो नृपाग्रतः ॥
आगत्य सोऽत्र नृपतिरदृष्ट्वा परमेश्वरम् ॥ ७७ ॥
प्रायोपवेशव्रतवान्स्वप्ने दृष्ट्वा गदाधरम् ॥
तदादेशाद्दारुमयं प्रभोर्लिङ्गचतुष्टयम् ॥ ७८ ॥
पूजयिष्यति भक्त्या च प्रतिष्ठाय स्वयम्भुवा ॥
स्थितिरत्र हरेर्यावदावयोर्वंशसंस्थितिः ॥ ७९ ॥
अनुग्रहाद्भगवतो नात्र कार्या विचारणा ॥
तदत्रार्थे सखे खेदं मा व्रज क्षिप्रमेव हि ॥ 2.2.8.८० ॥
निर्वर्त्स्यतेऽचिरादेव मित्रेदानीं सुखं स्वप ॥
प्रातर्दृष्ट्वा पुनर्देवं नीलेन्द्राश्ममयं विभुम् ॥ ८१ ॥
सिन्धौ स्नात्वा तस्य तटे निवासाय महीपतेः ॥
द्रक्ष्यामः साधु संस्थानं यथाभिलषितं सखे ॥ ८२ ॥
इत्यन्याश्च कथाः पुण्याः कृत्वा तौ च परस्परम् ॥
शुभस्थाने चास्वपतां शयने पल्लवास्तृते ॥ ८३ ॥
प्रभातायां तु शर्वर्यां तीर्थराजोदकेन तौ ॥
स्नानं निर्वर्त्य विधिवन्माधवं प्रणिपत्य च ॥ ८४ ॥
राजार्हस्थानं निर्णीय निवासाय गतौ पुनः ॥
तत्र मित्रेणाभिमन्त्र्य राज्ञो निर्देशकारणात् ॥ ८५ ॥
रथमारुह्य विप्रः स त्ववन्तीपुरमाययौ ॥ ८६ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे पुरुषोत्तमक्षेत्रमाहात्म्ये जैमिनिऋषिसंवादेऽष्टमोऽध्यायः ॥ ८ ॥