००६ ओढ्रदेशवर्णनम्

॥ मुनय ऊचुः ॥ ॥
कस्मिन्देशे द्विजश्रेष्ठ तत्क्षेत्रं पुरुषोत्तमम् ॥
यत्र नारायणः साक्षाद्दारुरूपी प्रकाशते ॥ १ ॥
॥ जैमिनि रुवाच ॥ ॥
उत्कलोनाम देशोऽस्ति ख्यातः परमपावनः ॥
यत्र तीर्थान्यनेकानि पुण्यान्यायतनानि च ॥२॥
दक्षिणस्योदधेस्तीरे स तु देशः प्रतिष्ठितः ॥
यत्र स्थिता वै पुरुषाः सदाचारनिदर्शनाः ॥ ३ ॥
वृत्ताध्ययनसम्पन्ना यज्वानो यत्र भूसुराः ॥
सृष्ट्यादौ क्रतवो वेदा वेदशास्त्रप्रवर्तकाः ॥४॥।
अष्टादशानां विद्यानां निधानं सम्प्रकीर्तितम् ॥
गृहे गृहे निवसति लक्ष्मीर्नारायणाज्ञया ॥ ५ ॥
लज्जाशीला विनीताश्च आधिव्याधिविवर्जिताः ॥
पितृमातृरताः सत्यवादिनो वैष्णवा जनाः ॥ ६ ॥
न चात्रावैष्णवः कश्चिन्नास्तिको वापि वर्तते ॥
सर्वे परहितास्तत्र न लुब्धा न शठाः खलाः ॥ ७ ॥
दीर्घायुषस्तत्र जनाः स्त्रियश्च पतिदेवताः ॥
सुशीला धर्मशीलाश्च त्रपाचारित्रभूषिताः ॥ ८ ॥
रूपयौवनगर्वाढ्याः सर्वालङ्कारभूषिताः ॥
कुलशीलवयोवृत्तानुरूपाचारचञ्चवः ॥ ९ ॥
स्वकर्मनिरतास्तत्र प्रजारक्षणदीक्षिताः ॥
क्षत्रिया दानशौण्डाश्च शस्त्रशास्त्रविशारदाः ॥ 2.2.6.१० ॥
यजन्ते क्रतुभिः सर्वे सततं भूरिदक्षिणैः ॥
दीप्यन्ते चित्तयो येषां यूपाः काञ्चनभूषिताः ॥ ११ ॥
येषां गृहेष्वतिथयः कामनाधिकपूजिताः ॥
वैश्याश्च कृषि वाणिज्यगोरक्षावृत्तिसंस्थिताः ॥ १२ ॥
देवान्गुरून्द्विजान्भक्त्या प्रीणयन्ति धनैरपि ॥
एकस्य द्वारि यातोऽर्थी न गच्छेदन्यवेश्मनि ॥ १३ ॥
गीतकाव्यकलाशिल्पकुशलाः प्रियवादिनः ॥
शूद्राश्च धार्मिकास्तत्र स्नानदानक्रियारताः ॥ १४ ॥
कर्मणा मनसा वाचा धनैश्च द्विजसेवकाः ॥
येऽन्ये सङ्करजातास्ते स्वेस्वे धर्मे प्रतिष्ठिताः ॥ १५ ॥
न विपर्यन्ति ऋतवो नाकाले वर्षते घनः ॥
न सस्यहानिर्न मरुत्क्षुन्न पीडयति प्रजाः ॥ १६ ॥
दुर्भिक्षमरके नात्र राष्ट्रभङ्गः प्रजायते ॥
नालभ्यं तत्र वस्त्वस्ति यत्किञ्चित्पृथिवीगतम् ॥ १७ ॥
एवं सर्वगुणैर्युक्तो नानाद्रुमलताकुलः ॥
अर्जुनाशोकपुन्नाग तालहिन्तालशालकैः ॥ १८ ॥
प्राचीनामलकैर्लोध्रैर्बकुलैर्नागकेशरैः ॥
नारिकेलैः प्रियालैश्च सरलैर्देवदारुभिः ॥ ॥ १९ ॥
धवैश्च खदिरैर्बिल्वैः पनसैश्च कपित्थकैः ॥
चम्पकैः कर्णिकारैश्च कोविदारैः सपाटलैः ॥ 2.2.6.२० ॥
कदम्बनिम्बनिचुरलरसालामलकैस्तथा ॥
नागरङ्गैश्च जम्बीरैर्नीपकैर्मातुलुङ्गकैः ॥ २१ ॥
मन्दारैः पारिजातैश्च न्यग्रोधागुरुचन्दनैः ॥
खर्जूराम्रातकैः सिद्धैर्मुचुकुन्दैः सकिंशुकैः ॥ २२ ॥
तिन्दुकैः सप्तपर्णैश्च अश्वत्थैश्च बिभीतकैः ॥
अन्यैश्च विविधैर्वृक्षैः प्रकीर्णः सुमनोहरैः ॥ २३ ॥
मालतीकुन्दबाणैश्च करवीरैः सितेतरैः ॥
केतकीवनषण्डैश्च अतिमुक्तैः सकुब्जकैः ॥ २४ ॥
एलालवङ्गकङ्कोलदाडिमैर्बीजपूरकैः ॥
श्रेणीकृतैः पूगवनैरुद्यानैः शतशो वृतः ॥ २५ ॥
नानाद्रुमलताकीर्णः पर्वतैः सिन्धुर्भिर्वृतः ॥
स एष देशप्रवर उत्कलाख्यो द्विजोत्तमाः ॥ २६ ॥
ऋषिकुल्यां समासाद्य दक्षिणोदधिगामिनीम् ॥
स्वर्णरेखामहानद्योर्मध्ये देशः प्रतिष्ठितः ॥ २७ ॥
सन्त्यत्र पुण्यायतने क्षेत्राणि सुबहून्यपि ॥
पूर्वं वस्तीर्थयात्रायां वर्णितानि मया द्विजाः ॥
भूस्वर्गः साम्प्रतं ह्येष कथितः पुरुषोत्तमः ॥ २८ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे पुरुषोत्तमक्षेत्रमाहात्म्य ओढ्रदेशवर्णनं नाम षष्ठोऽध्यायः ॥ ६ ॥