॥ जैमिनि रुवाच ॥ ॥
निर्विण्णचेतसौ तौ तु त्यक्त्वा वेश्यादिसङ्गतिम् ॥
ध्यायन्तौ मनसा विष्णुं शुद्धाहारव्रतावुभौ ॥ १ ॥
कालेन कियता प्राप्तौ नीलाद्रिनिलयं हरेः ॥
तीर्थराजजले स्नात्वा यथावद्विधिचोदितम् ॥ २ ॥
प्रासादद्वारि तिष्ठन्तौ साष्टाङ्गं प्रणिपत्य च ॥
भगवन्तं निरीक्षन्तौ नापश्यतां तदा द्विजा ॥ ३ ॥
विवर्णवदनौ देवमदृष्ट्वा चिन्तयाकुलौ ॥
आरभेते ह्यनशनं भगवद्दर्शनावधि ॥ ४ ॥
कीर्तयन्ते भगवतो नाम कल्मषनाशनम् ॥
तृतीयस्यां त्रियामायां ज्योतिरेकमपश्यताम् ॥ ५ ॥
त्रीण्यहानि पुनस्तौ च तदोपावसतां स्थिरौ ॥
मध्ये सप्तमरात्रेस्तु भगवन्तमपश्यताम् ॥ ६ ॥
त्रिदशानां स्तुतीः श्रुत्वा दिव्यज्ञानौ बभूवतुः ॥
अपास्तपापनिर्मोकौ साक्षाद्देवमपश्यताम् ॥ ७ ॥
शङ्खचक्रगदापाणि दिव्यालङ्कारभूषितम् ॥
रत्नपादुकयोः पृष्ठे विन्यस्तचरणाम्बुजम् ॥ ८ ॥
व्याकोशपुण्डरीकाक्षं प्रसन्नवदनं विभुम् ॥
वामपार्श्वे स्थितां लक्ष्मीं वामेनालिङ्ग्य बाहुना ॥ ९ ॥
नागवल्लीदलं बद्धमाददानं श्रिया हृतम् ॥
रत्नवेत्रकराः काश्चित्काश्चिच्चामरपाणयः ॥ 2.2.5.१० ॥
गन्धतैलप्रदीपास्तु रत्नवर्तिप्रदीपिकाः ॥
काश्चिद्दधानाः स्वकरैर्योवनाढ्याः सुभूषिताः ॥११॥
पश्चाद्रत्नमयं छत्रं बिभ्रती काचिदुज्ज्वला॥
धूपपात्रं मुखाभ्याशे कृष्णागुरुसुधूपितम् ॥ १२ ॥
काचिद्दधाना प्रम्लोचां हसन्ती विग्रहश्रिया ॥
लीलालकदृशा देवाननुगृह्णन्तमग्रतः ॥ १३ ॥
बद्धाञ्जलिपुटान्नम्रकन्धरान्स्तुवतः पृथक् ॥
सिद्धान्मुनिगणान्दिव्यान्सनकादीन्स्मितेन च ॥ १४ ॥
नारदादींश्च गन्धर्वान्दिव्यगानमनोहरान् ॥
दत्तावधानं श्रवणे लीलयैवानुकम्पिनम्॥१५॥
प्रह्लादादीन्वैष्णवाग्र्यान्स्वरूपं ध्यायतोऽग्रतः ॥
चित्ताकर्षणसंलीनां विदधानं स्वविग्रहे ॥ १६ ॥
वक्षःस्थलप्रविलसत्कौस्तुभप्रतिबिम्बितैः ॥
देवादिभिर्विश्वरूपमूर्त्तेः स्वस्याः प्रकाशकम् ॥ १७ ॥
उपर्युपरि दिव्यायाः पुष्पवृष्टेरधः स्थितम् ॥
श्रीसन्निधानविगतश्रियमप्सरसां गणम् ॥ ॥ १८ ॥
पश्यन्तं विविधं नित्यमङ्गहारमनोहरम् ॥
दिव्यलीलाविलासं तं दृष्ट्वा तौ द्विजबाहुजौ ॥ १९ ॥
बभूवतुः क्षणात्सर्वविद्यानां पारगौ द्विजाः ॥
त्रिः परिक्रम्य देवेशं कृताञ्जलिपुटावुभौ ॥
साष्टाङ्गपातप्रणतौ तुष्टुवाते मुदान्वितौ ॥ 2.2.5.२० ॥
॥ पुण्डरीक उवाच ॥ ॥
नमस्ते जगदाधार सर्गस्थित्यन्तकारण ॥
नारायण नमस्तेऽस्तु परमात्मन्परायण ॥ २१ ॥
परमार्थस्त्वमेवैको भवाप्ययविवर्जितः ॥
नित्यानन्दस्वरूपं त्वां विदन्ति ध्यानचक्षुषः ॥ २२ ॥
चिन्मात्रं जगतामीशमधिष्ठानं परात्परम् ॥
कथं नु मूढहृदयास्त्वां जानन्ति सुनिर्मलम् ॥ २३ ॥
कामार्थलिप्सासम्भ्रातचेतसोऽत्यन्तदुःखिनः ॥
गतागतपथे श्रान्ताः सुखभाजः कदाचन ॥ २४ ॥
अनुकम्पय मां नाथ सुदीनं शरणागतम् ॥
मूढं दुष्कृतकर्माणं पतितं भवसागरे ॥ २५ ॥
कोऽन्यस्त्वत्सदृशो बन्धुर्ब्रह्माण्डे नाथ वर्त्तते ॥
स्वकर्त्तव्यानपेक्षो यो दीनानाथदयालुकः ॥ २६ ॥
उच्चावचभ्रमाद्दुःखं जलयन्त्रघटीमिव ॥
अजस्रमधिकर्त्तारं परित्राहि कृपाम्बुधे ॥ २७ ॥
योगक्षेमाभिसन्धाना ये मूढास्त्वामुपासते ॥
लीलाविमुक्तिदं ते वै त्वन्मायापरिमोहिताः ॥ २८ ।
नारायणेति त्वन्नाम कीर्तितं तु यदृच्छया ॥
त्वत्तोऽधिकं जगन्नाथ चतुर्वर्गैकसाधनम् । २९ ॥
त्वं तु तैस्तैः पृथग्यज्ञैस्तास्ताः सिद्धीः प्रयच्छसि ॥
त्वमेकः शरणं नाथ पतितानां भवार्णवे ॥ 2.2.5.३० ॥
ज्ञाननौकासमारूढः करुणाक्षेपणीकरः ॥
परं पारं प्रभो नेतुं संसाराब्धेर्विचेतनम् ॥ ३१ ॥
त्वमेक ईशिषे भक्त्यानन्यया परिचिन्तितः ॥
येऽन्ये मुक्तिप्रदा देवाः शास्त्रेषु परिनिष्ठिताः ॥ ३२ ॥
दुःखाब्धिकुम्भयोनिं ते त्वद्भक्तिं प्रापयन्ति वै ॥ ३३ ॥
तन्मे प्रसीद भगवन्पदपङ्कजे ते भक्तिं दृढां वितर नाथ भवाब्धिमुच्चैः ॥
घोरं सुदुस्तरममुं हि यया तरेयमष्टाङ्गयोगजनितश्रमवर्जितोऽपि ॥ ३९३ ॥
धर्मार्थकामनिचयैः कुमतिप्रगृह्यैः क्षुद्रैरमीभिरहिताल्पसुखैर्न कार्यम् ।
आज्ञापयाङ्घ्रिनलिनद्वयचिन्तनेद्य सान्द्रानुवर्धितसुखार्णवमज्जनं मे ॥ ३५ ॥
स्तुत्वेत्थं जगदीशस्य पादपद्मान्तिके द्विजः ॥
पपात त्राहि कृष्णेति वदन्वाष्पार्द्रया गिरा ॥
तस्थौ स पुनरुत्थाय कृताञ्जलिपुटः स्तुवन् ॥ ३६ ॥
॥ अम्बरीष उवाच ॥ ॥
प्रसीद देव सर्वात्मन्नसङ्ख्येयशिरोभुज ॥
असङ्ख्य घ्राणनयनपाणिपाद नमोऽस्तु ते ॥ ३७ ॥
षट्त्रिंशत्तत्त्वातीतोऽसि निष्प्रपञ्च प्रपञ्चकः ॥
चतुर्विधजगद्धाम विश्वमूर्ते नमोऽस्तु ते ॥ ३८ ॥
एकपादस्त्रिपादश्च तीर्थपादोंऽतरिक्षपात् ॥
यस्य पादोद्भवा गङ्गा पुनाति भुवनत्रयम्॥३९ ॥
ब्रह्महत्यादिपापानां शोधकं यस्य नाम वै ॥
कीर्तितं सर्वशुभदं नमस्तस्मै शुभात्मने॥2.2.5.४०॥
देव त्वन्नामकीर्त्यापि जायन्ते सर्वसिद्धयः॥
कौतुकात्त्वां हि मृग्यन्ति विद्वांसो बुद्धिशालिनः॥ ४१॥
नाथ त्वत्पादसलिलं संश्रयात्तापहारकम्॥
तापत्रयाभिभूतस्य भक्तिं मेऽत्र दृढां कुरु॥ ४२॥
अनन्यस्वामिनो मेऽद्य नास्त्यन्यत्प्रार्थनीयकम्॥
प्रणिपत्य जगन्नाथ त्वां प्रयाचे सहस्रधा ॥४३ ॥
समस्तपुरुषार्थस्य बीजं त्वत्पादपङ्कजे ॥
यावत्प्राणान्धारयामि तावद्भक्तिर्दृढास्तु मे ॥४४ ॥
सृष्टिं विनिर्ममे चेमां यया भक्त्या पितामहः ॥
संहरत्यखिलं रुद्रो लक्ष्मीश्चैश्वर्यदायिनी ॥ ४५॥
दीनानुकम्पिंस्तां भक्तिं प्रार्थये नान्यमानसः ॥
अनाद्य विद्यापङ्केस्मिन्सुदृढे दुस्तरं भृशम् ॥ ४६ ॥
निमग्नस्य जगन्नाथ निरालम्बं प्रणश्यतः ॥
महामहिम्नस्त्वद्भक्तेर्नान्यदस्ति परायणम् ॥ ४७ ॥
श्रुतिस्मृत्यादिसम्भिन्नमार्गाः सम्मोहहेतवः ॥
त्वद्भक्तिमपहार्येते न प्रवर्त्तितुमीश्वराः ॥ ४८ ॥
अनन्यशरणं स्वामिन्ननुकम्पय मां विभो ॥
इति स्तुवञ्जगन्नाथपादपद्मान्तिके मुदा ॥ ४९ ॥
पपात दण्डवद्भूमौ प्रसीदेति वदन्मुहुः ॥
ततस्ते देवताः सर्वे स्तुत्वा सम्पूज्य केशवम् ॥ 2.2.5.५० ॥
तल्लीलापाङ्गसन्तुष्टाः प्रयातास्त्रिदिवं पुनः ॥
तत उन्मीलितदृशौ पुण्डरीकाम्बरीषकौ ॥ ५१ ॥
मायया मोहितौ विष्णोः स्वप्नदृष्टमबुध्यताम् ॥
यां दृष्ट्वा दिव्यलीलां हि साक्षात्पललचक्षुषा ॥ ५२ ॥
पुनर्मानुषभावौ तौ दिव्यसिंहासनस्थितम् ॥
नीलजीमूतसङ्काशं फुल्लपद्मायतेक्षणम् ॥ ५३ ॥
शोणाधरं चारुनासं दिव्यकुण्डलभूषितम् ॥
शङ्खचक्रगदापद्मधारिणं वनमालिनम् ॥ ५४ ॥
पीनोरस्कं चारुहारमनर्घ्यमुकुटोज्ज्वलम् ॥
श्रीवत्सकौस्तुभोरस्कं दिव्याङ्गदविभूषितम् ॥ ५५ ॥
प्रलम्बबाहुं दीनार्तपरित्राणसमुद्यतम् ॥
सुवर्णसूत्रसन्नद्ध मध्यग्रन्थिमणीयुतम् ॥ ५६ ॥
दिव्य पीताम्बरधरं दिव्यस्रग्गन्धभूषितम् ॥
स्वर्णपद्मासनासीनं सर्वाङ्गालिङ्गितश्रियम् ॥ ५७ ॥
प्रपन्नसन्तापहरं सुधासागरमुल्बणम् ॥
अशेषवाञ्छाफलदं कल्पवृक्षं सुपुष्पितम् ॥ ५८ ॥
दक्षपार्श्वस्थितं तस्य ददृशाते हलायुधम् ॥
बिभर्त्ति येन ब्रह्माण्डं बलेन महता विभुः ॥ ५९ ॥ ।
तं बलं नागराजानं फणासप्तकमण्डितम् ॥
कैलासशिखरोत्तुङ्ग धवलं कुण्डलोज्ज्वलम् ॥ 2.2.5.६० ॥
विचित्रवनमालाढ्यं दिव्यनीलनिचोलिनम् ॥
सततं वारुणीक्षीब घूर्णोन्नयनपङ्कजम् ॥ ६१ ॥
निम्नपृष्ठोन्नतोरस्कं कुण्डलीकृतविग्रहम् ॥
शङ्खचक्रगदापद्मसमुज्ज्वलचतुर्भुजम् ॥ ६२ ॥
नानालङ्काररुचिरं नतकल्मषनाशनम् ॥
तयोर्मध्ये स्थितां भद्रां सुभद्रां कुङ्कुमारुणाम् ॥ ६३ ॥
सर्वलावण्यवसतिं सर्वदेव नमस्कृताम् ॥
लक्ष्मीं लक्ष्मीशहृदयपङ्कजस्थां पृथक्स्थिताम् ॥ ६४ ॥
वराब्जधारिणीं देवीं दिव्यनेपथ्यभूषणाम् ॥
प्रपन्नकल्पलतिकां सर्वकल्मषनाशिनीन् ॥ ६५ ॥
संसारार्णवमग्नानां तारिणीं देवतारणीम् ॥
वामपार्श्वस्थितं विष्णोरद्राष्टां चक्रमुत्तमम् ॥ ६६ ॥
दार्वग्रनिर्मितं विप्राः स्वर्णभक्तिसमुज्ज्वलम् ॥
चतुर्द्धावस्थितं विष्णुं दृष्ट्वा तौ द्विजबाहुजौ ॥ ६७ ॥
अरुणोदयवेलायां श्रमं सार्थममन्यताम् ॥
संस्मृत्य तां स्वप्नलीलां विस्मयं जग्मतुस्तदा ॥ ६८ ॥
न दारुप्रतिमा चेयं साक्षाद्ब्रह्म प्रकाशते ॥
सदोगतानां विप्राणां वाक्यं श्रद्दधतुश्च तौ ॥ ६९ ॥
क्वावां महापातकिनौ यातनाक्रमभागिनौ ॥
क्वेदं सुरसमाक्रान्तस्थितं विष्णोः प्रदर्शनम् ॥ 2.2.5.७० ॥
मूर्खयोरावयोरष्टादशविद्याप्रवीणता ॥
यस्मात्तस्मान्न च भ्रान्तिर्ज्ञानं तत्समवादिनः ॥ ७१ ॥
यदूचुर्दारवं ब्रह्म तीर्थराजतटे स्थितम् ॥
वटमूले प्रकाशन्तं दृष्ट्वा जन्तुर्विमुच्यते ॥ ७२ ॥
तदेवायं जगन्नाथश्चतुर्द्धा संव्यवस्थितः॥
क्षितौ यदावतरति चतूरूपः प्रकाशते॥ ७३॥
तदास्य सन्निधावावां स्थास्यावः प्राणधारिणौ॥
यावन्नान्यत्र गच्छावः क्षुद्रकामपराङ्मुखौ ॥ ७४ ॥
इति निश्चित्य मुनयो विष्णौ भक्तिपरायणौ ॥
नारायणाख्यं सततं जपन्तौ मुक्तिमागतौ ॥ ॥ ७५ ॥
॥ जैमिनिरुवाच ॥ ॥
प्रसङ्गात्कथितं ह्येतद्रहस्यं पापनाशनम् ॥
शृण्वन्ति ये तु चरितं पुण्डरीकाम्बरीषयोः ॥ ७६ ॥
सततं च् कीर्तयन्तश्च मुदा परमय युताः ॥
व्रजन्ति विष्णुनिलयं मुदा परमया युताः ॥
व्रजन्ति विष्णुनिलयं तेऽपि निर्द्धूतकल्मषाः ॥ ७७ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्या संहितायां द्वितीये वैष्णवखण्डे पुरुषोत्तमक्षेत्रमाहात्म्ये जैमिनिऋषिसंवादे पञ्चमोऽध्यायः ॥ ५ ॥ ॥