॥ श्रीरुवाच ॥ ॥
सीमाप्रतीची क्षेत्रस्य शङ्खाकारस्य मूर्द्धनि ॥
सर्वकामप्रदो देवः स आस्ते वृषभध्वजः ॥ १ ॥
शङ्खाग्रे नीलकण्ठः स्यादेतत्क्रोशं सुदुर्लभम् ॥
परमं पावनं क्षेत्रं साक्षान्नारायणस्य वै ॥ २ ॥
सिन्धुराजस्य सलिलाद्यावन्मूलं वटस्य वै ॥
शङ्खस्योदरभागस्तु समुद्रोदकसम्प्लुतः ॥ ३ ॥
यत्सम्पर्कात्समुद्रोऽत्र तीर्थराजत्वमागतः ॥
यथायं भगवान्मुक्तिप्रदो दृष्टिपथं गतः ॥ ४ ॥
तथेदं मरणात्क्षेत्रं सिन्धुः स्नानाद्विमुक्तिदः ॥
चिच्छेद ब्रह्मणः पूर्वं रुद्रः क्रोधात्तु पञ्चमम् ॥ ५ ॥
तच्छिरो दुस्त्यजं गृह्णन्ब्रह्माण्डं परिबभ्रमे ॥
अत्रागतो यदा ब्रह्मकपालं परिमुक्तवान् ॥ ६ ॥
कपालमोचनं लिङ्गं द्वितीयावर्तसंस्थितम् ॥
कपालमोचनं पश्येत्पूजयेत्प्रणमेच्च यः ॥ ७ ॥
ब्रह्महत्यादिपापानां कञ्चुकं विजहात्यसौ ॥
तस्य दक्षिणपार्श्वे तु मरणं भवमोचनम् ॥ ८ ॥
तृतीयावर्तगामाद्यां शक्तिं मे विमलाह्वयाम् ॥
जानीहि धर्मराज त्वं भुक्तिमुक्तिफलप्रदाम् ॥ ९ ॥
य इमां पूजयेद्भक्त्या प्रणमेत्कीर्तयेत्तु वा ॥
सर्वान्कामानवाप्नोति मुक्तिं चान्ते च विन्दति ॥ 2.2.4.१० ॥
नाभिदेशे स्थितं ह्येतत्त्रयं कुण्डं वटो विभुः ॥
कपालमोचनाद्यावदर्द्धाशिनी प्रतिष्ठिता ॥ ११ ॥
मध्यं शङ्खस्य जानीयात्सुगुप्तं चक्रपाणिना ॥
अर्द्धमश्नाति सलिलं महाप्रलयवर्द्धितम् ॥ १२ ॥
सृष्ट्यादौ धर्मराजेयं शक्तिर्मेऽर्द्धांशिनी स्मृता ॥
तां दृष्ट्वा प्रणमेद्यस्तु भोगान्सोऽश्नाति शाश्वतान् ॥ १३ ॥
सिन्धुराजस्य सलिलाद्यावन्मूलं वटस्य वै ॥
कीटपक्षि मनुष्याणां मरणान्मुक्तिदो मतः ॥१४॥
अन्तर्वेदी त्वियं पुण्या वाञ्छ्यते त्रिदशैरपि ॥
यत्र स्थितां हि पश्यन्ति सर्वांश्चक्राब्जधारिणः ॥१५॥
पृथिव्यां यानि तीर्थानि गगने च त्रिविष्टपे ॥
सार्द्धत्रिकोटिसङ्ख्यानि स्वर्गमोक्षप्रदानि वै ॥ १६ ॥
तेषामयं तीर्थराजः कीर्तितः पुरुषोत्तमः ॥
सर्वेषां मुक्तिक्षेत्राणामिदं सायुज्यदं मतम् ॥ १७ ॥
अत्र स्थिता न शोचन्ति जराजन्ममृतिष्वपि ॥
कुण्डं ह्येतद्रोहिणाख्यं कारुण्याख्यजलेन वै ॥ १८ ॥
सम्भृतं तिष्ठते नित्यं स्पर्शनाद्बन्धमुक्तिदम् ॥
अत्र प्रतिष्ठितं वारि प्रलये यत्प्रवर्द्धते ॥ १९ ॥
अत्रैव लीयते पश्चात्तस्माद्रोहिणसञ्ज्ञितम् ॥
तस्मात्ते माऽत्र चिन्तास्तु स्वाधिकारविपर्यये ॥ 2.2.4.२० ॥
मोक्षाधिकारिणामत्र नेश्वरस्त्वं परेतराट् ॥
धर्मराजं समादिश्य लक्ष्मीरेवं पुरः स्थितम् ॥ २१ ॥
ब्रह्माणमाह जगतामम्बा सप्रश्रया गिरा ॥
पितामह जगन्नाथ विदितं सर्वमेव यत् ॥ २२ ॥
मोक्षदं सर्वजन्तूनामेतत्क्षेत्रं समादिश ॥
कामाख्यं क्षेत्रपालं च विमलं वा तपास्थिता ॥ २३ ॥
साक्षाद्ब्रह्मस्वरूपोऽसौ नृसिंहो दक्षिणे विभोः ॥
हिरण्यकशिपोर्वक्षो विदार्यायं प्रभोज्ज्वलः ॥ २४ ॥
दर्शनादस्य नश्यन्ति पातकानि न संशयः ॥
भुक्तेर्मुक्तेश्च योग्यः स्यान्नात्र कार्या विचारणा ॥ २५ ॥
अस्याग्रे सन्त्यजन्प्राणान्ब्रह्मसायुज्यमाप्नुयात् ॥
यत्किञ्चित्कुरुते कर्म कोटिकोटिगुणं भवेत् ॥ २६ ॥
छायैषा कल्पवृक्षस्य नृसिंहार्केण भासिता ॥
तस्यां नश्यत्यविद्या हि ज्ञानतोऽज्ञानतो मृतौ ॥ २७ ॥
वेदान्तेषु प्रसिद्धैस्तैर्विज्ञानैः श्रवणादिभिः ॥
मूढानां दुर्लभैर्विप्रा विनाप्यत्र विमोचनम् ॥ २८ ॥
अविमुक्ते मुमुक्षोस्तु कर्णमूले महेश्वरः ॥
दिशति ब्रह्मसञ्ज्ञानं बोधोपायं कृपानिधिः ॥ २९ ॥
तेन बुद्या समभ्यस्य क्रमान्मोक्षमवाप्नुयात् ॥
उपदेष्टुर्महिम्ना हि तस्य ज्ञानं न हीयते ॥ 2.2.4.३० ॥
अत्र त्यजन्ति ये प्राणांस्तेषां तत्क्षण एव हि ॥
स्वरूपाज्जायते मुक्तिः संशयो माऽस्तु ते यम ॥ ३१ ॥
गतागत प्रसक्तानां कर्मिणां मूढचेतसाम् ॥
वैवस्वत कदाचिन्नो विश्वासो ह्यत्र जायते ॥ ३२ ॥
उत्सृज्य वारि गाङ्गेयं स्वादु शीतं सुनिर्मलम् ॥
पिपासुः पल्वलं याति तद्वत्ते मूढचेतसः ॥ ३३ ॥
भ्रमन्ति तीर्थान्यन्यानि त्यक्त्वैतत्क्षेत्रमुत्तमम् ॥
पलाशामोदकैस्तृप्ता लभन्ते श्रमजं फलम् ॥ ३४ ॥
स्नानादब्धिदृशा देवश्छायया कल्पपादपः ॥
यत्र कुत्रापि च क्षेत्रं मरणान्मुक्तिदं नृणाम् ॥ ३५ ॥
यो यत्र विषये भक्त्या विश्वासं कुरुते नरः ॥
स तु तेनैव मुच्येत नेदृशं तीर्थमस्ति वै ॥ ३६ ॥
एतत्त्यक्त्वान्यतीर्थे वै विदधाति रुचिं तु यः ॥
नूनं स मायया विष्णोर्वञ्चितो लोभलालसः ॥ ॥ ३७ ॥
उपदेशेन बहुना न प्रयोजनमस्ति ते ॥
प्रत्यक्षो ह्यनुभूतोऽयं करटो विष्णुरूपधृक् ॥ ३८ ॥
अन्तर्वेदीरक्षणार्थं शक्तयोऽष्टौ प्रकीर्तिताः ॥
उग्रेण तपसा पूर्वमहं रुद्रेण भाविता ॥ ३९ ॥
पत्न्यर्थं सा मया सृष्टा गौरी तस्याथ भाविनी ॥
सर्वसौन्दर्यवसतिर्वपुषो मे विनिर्गता ॥ 2.2.4.४० ॥
तदादिष्टा मया भद्रे वचनं मे प्रियं कुरु ॥
अन्तर्वेदी रक्ष मम परितस्त्वं स्वमूर्तिभिः ॥ ४१ ॥
सा तु तिष्ठति मत्प्रीत्या अष्टधा दिक्षु संस्थिता ॥
मङ्गला वटमूले तु पश्चिमे विमला तथा ॥ ४२ ॥
शङ्खस्य पृष्ठभागे तु संस्थिता सर्वमङ्गला ॥
अर्द्धांशिनी तथा लम्बा कुबेरदिशि संस्थिता ॥ ४३ ॥
कालरात्रिर्दक्षिणस्यां पूर्वस्यां तु मरीचिका ॥
कालरात्र्यास्तथा पश्चाच्चण्डरूपा व्यवस्थिता ॥ ४४ ॥
एताभिरुग्ररूपाभिः शक्तिभिः परिरक्षितम् ॥
अल्पपुण्यस्य पुंसो हि स्थानमेतत्सुदुर्लभम् ॥ ४५ ॥
एतासामष्टशक्तीनां दर्शनात्कीर्तनात्तथा ॥
नश्यन्ति सर्वपापानि हयमेधफलं लभेत् ॥ ४६ ॥
रुद्राण्याश्चाष्टधा भेदं दृष्ट्वा रुद्रोऽपि शङ्करः ॥
आत्मानमष्टधा भित्त्वा उपास्ते परमेश्वरम् ॥४७॥
आराध्य तपसा विष्णुं प्रार्थयद्वरमुत्तमम् ॥
यत्र त्वं देव तत्राहं वसेयं हि यथासुखम् ॥ ४८ ॥
त्वामृते कमलाकान्त नान्यन्निर्वाणकारणम् ॥
अन्तर्यामिन्प्रभो मे त्वं त्वां विना विग्रहः कुतः ॥४९॥
मूढा ये त्वां न जानन्ति हृष्यन्ति विषयेऽशुचौ ॥
निर्मलाम्बरसङ्काश त्वामहं शरणं गतः॥2.2.4.५०॥
॥ ॥ जैमिनिरुवाच ॥ ॥
भगवानपि रुद्रं तं क्षेत्रपालं तथा विभुः ॥
स्थापयामास परितः स्वयं मध्ये व्यवस्थितः ॥ ५१ ॥
कपालमोचनं नाम क्षेत्रपालं यमेश्वरम् ॥
मार्कण्डेयं तथेशानं बिल्वेशं नीलकण्ठकम् ॥ ५२ ॥
वटमूले वटेशं च लिङ्गान्यष्टौ महेशितुः ॥
यानि दृष्ट्वा तथा स्पृष्ट्वा पूजयित्वा विमुच्यते ॥ ५३ ॥
अत्र क्षेत्रे मृता ये च न तेषां तु प्रभुर्यमः ॥
यदर्थमागतस्त्वं हि तदन्यत्र प्रसाधय ॥ ५४ ॥
तथाप्यसौ जगन्नाथो भक्तायात्मसमर्पकः ॥
यमेन तोषितो भक्त्या प्रपन्नार्तिहरः प्रभुः ॥ ५५ ॥
सुदर्शनेन चक्रेण मायां च व्यवधास्यति ॥
अत्याज्येऽस्मिन्क्षेत्रवरे स्वर्णवालुकया वृते ॥ ५६ ॥
तं यमं वञ्चयित्वा तु प्रस्थापय्य यमालयम् ॥
साधु मत्वा ततः प्राह ब्रह्माणं पुरतः स्थितम् ॥ ५७ ॥ ।
॥ श्रीरुवाच ॥ ॥
इन्द्रद्युम्नो नाम राजा युगे सत्ये भविष्यति ॥
वैष्णवः सर्वयज्ञानामाहर्त्ता शास्त्रकोविदः ॥ ५८ ॥
अत्रागत्य महाभक्तिं करिष्यति नृपोत्तमः ॥
भगवत्प्रीतये येन वाजिमेधसहस्रकम् ॥ ५९ ॥
करिष्यते प्रजानाथ तदनुग्रहकारणात् ॥
एकदारुसमुत्पन्नश्चतुर्द्धा सम्भविष्यति ॥ ॥। 2.2.4.६० ॥
दारवप्रतिमानानि विश्वकर्मा घटिष्यति ॥
प्रतिष्ठापयिता त्वं हि इन्द्रद्युम्नप्रसादितः ॥ ६१ ॥
अस्माकं सदृशानां च प्रतिमानां पितामह ॥
तद्रूपका प्रतिष्ठा हि घटना च भविष्यति ॥ ६२ ॥
इति श्रुत्वा श्रियो वाक्यं चतुर्वक्त्रो यमश्च सः ॥
स्वंस्वं पुरं जग्मतुस्तौ मुदा परमया युतौ ॥ ६३ ॥
क्षेत्रस्य महिमानं तं संस्मृत्य च मुहुर्मुहुः ॥
विस्मयेन च हर्षेण रोमाञ्चाञ्चितविग्रहौ ॥ ६४ ॥
साम्प्रतं मुनयस्तस्मिन्निन्द्रद्युम्नप्रसादितः ॥
शङ्खचक्रधरः श्रीमान्नीलजीमूतसन्निभः ॥ ६५ ॥
नीलाचलगुहान्तःस्थो बिभ्रद्दारुमयं वपुः ॥
आस्ते लोकोपकाराय बलेन च सुभद्रया ॥॥ ६६ ॥
सुदर्शनेन चक्रेण दारुणा निर्मितेन च ॥
सहितः प्रणतार्तीनां नाशनः करुणार्णवः ॥ ६७ ॥
यं दृष्ट्वा पापबन्धेन सुदृढेन विमुच्यते ॥ ॥
सुकर्मौघपरीपाको युगपत्समुपस्थितः ॥ ६८ ॥
पश्यतां भो मुनिश्रेष्ठास्तापत्रयसुधानिधिम् ॥
बहवो ह्यवतारा हि विष्णोर्दिव्याश्च मानुषाः ॥ ॥ ६९ ॥
अत्यद्भुतानि कर्माणि माहात्म्यं चापि वर्णितम् ॥
पारिचित्यान्मनुष्यांस्तु न मन्यन्ते सुरा अपि ॥ 2.2.4.७० ॥
देवासुरमनुष्याणां गन्धर्वोरगरक्षसाम् ॥
तिरश्चामपि भो विप्रास्तस्मिन्दारुमये हरौ ॥ ७१ ॥
सर्वात्मभूते वसति चित्तं सर्वसुखावहे ॥
उपजीवन्त्यस्य सुखं यस्यानन्यस्वरूपिणः ॥ ७२ ॥
ब्रह्मणः श्रुतिवागाहेत्येतदत्रानुभूयते ॥
द्यति संसारदुःखानि ददाति सुखमव्ययम् ॥ ७३ ॥
तस्माद्दारुमयं ब्रह्म वेदान्तेषु प्रगीयते ॥
न हि काष्ठमयी मोक्षं ददाति प्रतिमा क्वचित् ॥ ७४ ॥
कृतेनाकृतता विप्राः कदाचिन्नोपलभ्यते ॥
अकृतो ह्यपवर्गस्तु कृताद्वा दारुणः कथम् ॥ ७५ ॥
अधिष्ठानं विना ब्राह्म्यमैश्वर्यं नोपलभ्यते ॥
रहस्यमेतत्परमं विष्णोः स्थानमनुत्तमम् ॥ ७६ ॥
अलौकिकी सा प्रतिमा लौकिकीति प्रकाशिता ॥
कुत्र श्रुता वा दृष्टा वा प्रतिमा व्याहरेदिति ॥ ७७ ॥
इन्द्रद्युम्नाय स वरं तदा दारुवपुर्ददौ ॥
दीनानाथैकशरणं तरणं भववारिधेः ॥ ७८ ॥
चराचर सदावन्द्य चरणं तं परायणम् ॥
नारायणं जगद्योनिं सृष्टिसंहृतिकारणम् ॥ ७९ ॥
मोक्षणं सर्वपापानां दारणं सकलापदाम् ॥
विभूतीनां विसरणं वरणं सर्वयोगिनाम् ॥ 2.2.4.८० ॥
भरणं सर्वजन्तूनां धरणं जगतामपि ॥
भाषणं सर्वभाषाणां दूषणं सर्वदुष्कृताम् ॥ ८१ ॥
शोषणं सर्वपङ्कानां नीलाद्रिशरणं हरिम् ॥
शरणं प्रयात मुनयो ह्यनन्यशरणं विभुम् ॥ ८२ ॥
निश्चेष्टो दारुवर्ष्मापि दिव्यलीलाविलासकृत् ॥
क्षमते स्वल्पभक्त्यापि सोपराधशतं नृणाम् ॥ ८३ ॥
अत्र वः कथयिष्यामि चरितं पापनाशनम् ॥
लीलया दारुदेहस्य मुनयः परमात्मनः ॥ ८४ ॥
कुरुक्षेत्रे समुद्भूतौ ब्राह्मणक्षत्रियावुभौ ॥
सखायौ जग्मतुः प्रीत्या एकाहारविहारिणौ ॥ ८५ ॥
वृत्तच्युतौ निषिद्धानामाहर्त्तारौ विमोहितौ ॥
अस्वाध्यायवषट्कारौ स्वधास्वाहाविवर्जितौ ॥ ६६ ॥
अपात्रभूतौ धर्मस्य महापातकदूषितौ ॥
मधुभक्षौ पण्ययोषित्सहवासौ मुदान्वितौ ॥ ८७ ॥
पारलौकिकचिन्ता तु तयोः स्वप्नेपि नागता ॥
एवं प्रवर्तमानौ तावायुषोऽर्द्धं च निन्यतुः ॥ ८८ ॥
एकदा भ्रममाणौ तौ यज्ञवाटमगच्छताम् ॥
शृण्वन्तो दूरतः स्तोत्रं शास्त्रशब्दं मनोहरम् ॥ ८९ ॥
दृष्ट्वा तास्ताः क्रियाः सर्वाः श्रुतिसञ्चोदिता द्विजाः ॥
तौ तदा चक्रतुः श्रद्धां धर्मे वर्त्मन्यधार्मिकौ ॥ 2.2.4.९० ॥
संस्मरन्तौ स्वजातिं तौ पुण्डरीकाम्बरीषकौ ॥
निन्दन्तौ दुश्चरित्रं स्वं परस्परमभाषताम् ॥ ९१ ॥।
कथमावां तरिष्यावो दुष्कृतार्णवमुल्बणम् ॥
इहैव जन्मन्यजरं बुद्धिपूर्वमुपार्ज्जितम् ॥ ९२ ॥
न तच्छास्त्रं हि जानाति यदावाभ्यां च दुष्कृतम् ॥।
सञ्चितं तस्य घोरस्य प्रायश्चित्तं सुदुर्ल्लभम् ॥ ९३ ॥
तथापि ब्राह्मणानेतान्ब्रह्मिष्ठान्वै सदोगतान् ॥
प्रणिपातप्रपन्नान्वै पृच्छावोऽत्र च निष्कृतिम् ॥ ॥ ९४ ॥
इति निश्चित्य तौ विप्रानभिवाद्याभ्यपृच्छताम् ॥
यथावत्कल्मषं स्वंस्वं विज्ञाप्य च मुहुर्मुहुः ॥ ९५ ॥
ते तयोर्वचनं श्रुत्वा मीलिताक्षा द्विजोत्तमाः॥
नाब्रुवन्किंस्विदन्योन्यं वीक्षन्तो विस्मिताननाः ॥ ९६ ॥
अहो सुघोरकर्माणि सञ्चितानि दुरात्मनोः ॥
येषु शास्त्रं पदं दातुं प्रायश्चित्ताय न ह्यलम् ॥ ९७ ॥
शक्नुमो न वयं तस्मादनयोर्निष्कृताविति ॥
तेषां मध्ये सदोमुख्यः कश्चिद्वैष्णवपुङ्गवः ॥ ९८ ॥
भगवद्भक्तिमाहात्म्य क्षपिताशेषकल्मषः ॥
तानुवाच विहस्येदं वाक्यं वाक्यविदां वरः ॥ ९९ ॥
॥ वैष्णव उवाच ॥ ॥
भो द्विज क्षत्रदायाद पापराशेः सुदारुणात् ॥
मुक्तिं चेद्वाञ्च्छतस्तूर्णं गच्छतं पुरुषोत्तमम् ॥ 2.2.4.१०० ॥
क्षेत्रोत्तमं दारुमयो यत्रास्ते पुरुषोत्तमः ॥
इन्द्रद्युम्नस्य राजर्षेर्भक्त्यानुग्रहकृद्विभुः ॥ १०१ ॥
तमाराध्य जगन्नाथं शङ्खचक्रगदाधरम् ॥
पापक्षयं वा मुक्तिं वा स्वेच्छया प्राप्स्यथ धुवम् ॥ १०२ ॥
घोरदुष्कृततूलौघ दावाग्निसदृशस्तु सः ॥
तपसे तत्क्षयं नेतुं न शक्यं जन्मकोटिभिः ॥ १०३ ॥
युगपत्सङ्क्षयं याति यं दृष्ट्वा सर्वकिल्बिषम् ॥
तन्मा विलम्बं कुरुतं प्रयातं तत्र सत्वरं ॥ १०४ ॥
सुपुण्ये चोत्कले देशे दक्षिणार्णवतीरगे ॥
नीलाद्रिशिखरावासं व्रजतं शरणं विभुम् ॥ १०५ ॥
सोऽभीष्टसिद्धिं वां देवः प्रदास्यति कृपानिधिः ॥
इत्यादिष्टौ ततो विप्रक्षत्रियौ हर्षसंयुतौ ॥ १०६ ॥
तेनैव वर्त्मना विप्राः प्रयातौ पुरुषोत्तमे ॥ १०७ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे पुरुषोत्तमक्षेत्रमाहात्म्ये जैमिनिऋषिसंवादे चतुर्थोऽध्यायः ॥ ४ ॥