॥ श्रीरुवाच ॥ ॥
साधु ते बुद्धिरुत्पन्ना विष्णोः सन्निधिमाश्रिता ॥
अद्भुतं कथयाम्येतत्क्षेत्रस्य रविनन्दन ॥ १ ॥
यथाहं भगवद्वक्षः स्थलस्था ददृशे पुरा ॥
चराचरे जगत्यस्मिन्प्रलीने प्रलये यम ॥ २ ॥
एतत्क्षेत्रमहं चैव द्वे एवोपस्थिते तदा॥
स तदा सप्तकल्पायुर्मृकण्डोरात्मजो मुनिः॥३॥
प्रणष्टे स्थावरचरे निमग्नः प्रलयार्णवे॥
नावस्थानमवाप्यैव शर्म लेभे न कुत्रचित्॥४॥
जलार्णवे भ्राम्यमाणः प्रलये स इतस्ततः॥
पुरुषोत्तमसादृश्ये क्षेत्रे स वटमैक्षत॥ ५॥
उत्प्लुत्योत्प्लुत्य मूलं तु न्यग्रोधस्य समीपतः॥
शुश्राव बाल वचनं मार्कण्डेय ममान्तिकम् ॥ ६ ॥
प्रविश्य दुःखमतुलं जहीहि खलु मा शुचः ॥
तच्छ्रुत्वा चित्रवचनमप्रतर्क्यं तदा मुनिः ॥ ७ ॥
विस्मयं परमं लेभे स्वदुःखं नाप्यचिन्तयत् ॥
वारिभिः शीर्यते नैतद्दह्यते कालवह्निना ॥ ८ ॥
संवर्तकादिभिर्नैतच्छोष्यते नापि चाल्यते ॥
एकार्णवे महाघोरे नौरिव क्षेत्रमीक्ष्यते ॥ ९ ॥
तत्रायं यूपसदृशो न्यग्रोधस्तिष्ठते महान् ॥
यं गृहीत्वा क्षेत्रमिदं न्यग्रोध ईशितुस्तनुः ॥ 2.2.3.१० ॥
महाप्रलय वातेन शाखा नास्य हि कम्पते ॥
तस्याधस्तात्स हि मुनिः स्थित्वा चैतदचिन्तयत् ॥ ११ ॥
एकार्णवेऽस्मिन्प्रलये नष्टे स्थावरजङ्गमे ॥
भूप्रदेशः स्थिरतरः कथमेष विभाव्यते ॥ १२ ॥
यत्रायं शाखिप्रवरः कोमलः परिदृश्यते ॥
मार्कण्डेयागच्छ मुहुरिति सप्रश्रयं वचः ॥ १३ ॥
कुतो निराश्रमियदं चिन्तयन्निति स प्लवन् ॥
शङ्खचक्रगदापाणिं नारायणमलोकयत् ॥ १४ ॥
तदङ्गपद्मासनगां मां च वैवस्वतैक्षत ॥
विवशो जलवाताभ्यां तदा सुस्थो व्यवस्थितः ॥ १५ ॥
हृष्टान्तरात्मा स मुनिरावां साष्टाङ्गमानतः ॥
प्रसादनाय देवस्य स्तोत्रमेतदुदाहरत् ॥ १६ ॥
॥ मार्कण्डेय उवाच ॥ ॥
त्वत्पादपद्मानुसरानुषङ्गं रुद्रेन्द्रपद्मासनसम्पदाढ्यम् ॥
त्वद्भक्तिहीनं परितः प्रतप्तं दीनं परित्राहि कृपाम्बुधे माम् ॥ १७ ॥
ब्रह्मादिभिर्यत्परिचर्यमाणं पदाम्बुजद्वन्द्वमचिन्त्यशक्ति ॥
श्वः श्रेयसप्राप्तिनिदानतत्त्वं दीनं परित्राहि कृपाम्बुधे माम् ॥ १८ ॥
यदङ्गभूतं जगदण्डमेतदनेककोटि प्रगुणं विभाति ॥
लीलाविलासस्थितिसृष्टिलीनं तन्मां सुदीनं परिरक्ष विष्णो ॥ १९ ॥
एकं सुवर्णं कटकादिभेदैर्नाना यथा वा नभसोदितोऽर्कः ॥
आधारवैषम्यजलेषु तादृग्विभाव्यसे निर्गुण एक एव ॥ 2.2.3.२० ॥
अशेषसम्पूर्णरुचिप्रहीणोपादानसङ्कल्पविवर्जितोऽपि ॥
दीनानुकम्पानुगुणं बिभर्षि युगे युगे देहमपारशक्ते ॥ २१ ॥
त्वत्पादपद्मं जगदीश पूर्वमसेव्यतानात्मधिया मया यत् ॥
तत्कर्मणा दारुणपाकभाजं दीनं परित्राहि कृपाम्बुधे माम् ॥ २२ ॥
अशेषलोकस्थितिसृष्टिलीनविलासि यत्ते त्रिगुणं विभाति ॥
वपुर्महात्मन्महदादिहेतुर्हेतोर्नमस्ते प्रकृतेः परस्य ॥ ॥ २३ ॥
सर्वत्र गत्वा बृहदप्रमेयं प्रवर्द्धमानं त्वयि बृंहितं च ॥
तद्बह्मरूपं परिणामहेतुं स्वाध्यात्मविश्वात्मकमाश्रयामि ॥ २४ ॥
एकार्णवे महाघोरे नावस्थातुं प्रदेशभूः ॥
अस्ति लक्ष्मीपते मेघवारिवातप्रकम्पनात् ॥ २५ ॥
त्राहि विष्णो जगन्नाथ मग्नं संसारसागरे ॥
मामुद्धरास्माद्गोविन्द कृपापाङ्गविलोकनात ॥ २६ ॥
॥ श्रीरुवाच ॥ ॥
स्तुवन्तमेवं ब्रह्मर्षि साक्षान्नारायणो विभुः ॥
विलोक्यानुग्रहदृशा वाक्यं चेदमुवाच ह ॥ २७ ॥
॥ श्रीभगवानुवाच ॥ ॥
मार्कण्डेय सुदीनोऽसि मामज्ञाय द्विजोत्तम ॥
दुश्चरं तु तपस्तप्तं दीर्घायुस्तेन केवलम् ॥ २८ ॥
शयानं पत्रपुटके पश्य कल्पवटोर्ध्वगम ॥
बालस्वरूपं सर्वेषां कालात्मानं महामुने ॥
प्रविश्य विस्तृतं वक्त्रं तत्रावस्थातुमर्हसि ॥ २९ ॥
॥ ॥ श्रीरुवाच ॥ ॥
एवमुक्तो भगवता स मुनिर्विस्मिताननः ॥ 2.2.3.३० ॥
आरुह्य ददृशे बालरूपं तस्याविशन्मुखे ॥
प्रविष्टः कण्ठमार्गेण महायामं महोदरम् ॥ ३१ ॥
तत्रासौ ददृशे विप्रो भुवनानि चतुर्दश ॥
ब्रह्मादिदिक्पालसुरान्सिद्धगन्धर्वराक्षसान् ॥ ३२ ॥
ऋषीन्दिव्यऋषींश्चैव भूतलं सागराङ्कितम् ॥
नानातीर्थैर्नदीभिश्च पर्वतैः काननैस्तथा ॥ ३३ ॥
लक्षितं पत्तनपुरं ग्रामखर्वटकैर्युतम् ॥
पातालानि तथा सप्त नागकन्याः सहस्रशः ॥ ३४ ॥
महार्घ्यमणिसौधैश्च सुधापात्रैः समुज्ज्वलैः ॥
अनर्घ्यमणिभिर्नागैः सेवितं परमाद्भुतम् ॥ ॥ ३५ ॥
जगतां धारिणं शेषं सहस्रफणमण्डितम् ॥
व्याकर्तारमशेषाणां शास्त्राणां शिष्यमध्यगम् ॥ ३६ ॥
ब्रह्माण्डोदरगं वस्तु यत्किञ्चित्परमेष्ठिना ॥
सृष्टं सर्वं ददृशेऽसौ तत्कुक्षौ स महामुनिः ॥ ३७ ॥
नापश्यदन्तं कुक्षेस्तु भ्रममाण इतस्ततः ॥
ततो विनिष्क्रम्य पुनर्ददृशे च मया सह ॥ ३८ ॥
पूर्वमालक्षितं यद्वदास्थितं पुरुषोत्तमम् ॥
विस्मयोत्फुल्लनयनः प्रणिपत्येदमब्रवीत् ॥ ३९ ॥
॥ मार्कण्डेय उवाच ॥ ॥
भगवन्देवदेवेश किमद्भुतमिदं प्रभो ॥
महाप्रलयसंरोधे सृष्टिरत्र विभाव्यते ॥ 2.2.3.४० ॥
त्वन्माया दुरवच्छेद्या कथं वै ज्ञायते मया ॥ ॥ ४१ ॥
॥ श्रीभगवानुवाच ॥ ॥
मुने क्षेत्रमिदं चित्रं शाश्वतं मे विभावय ॥
न सृष्टिप्रलयावत्र विद्येते न च संसृतिः ॥ ४२ ॥
सदैकरूपं पुरुषोत्तमाख्यं मुक्तिप्रदं मामिह सम्प्रबुध्य ॥
अत्र प्रविष्टो न पुनः प्रयाति गर्भस्थितिं सान्द्रसुखस्वरूपः ॥ ४३ ॥
इत्याज्ञप्तो भगवता मार्कण्डेयो महामुनिः ॥
अत्र वासं करिष्यामीत्यन्यतीर्थपराङ्मुखः ॥
प्रहृष्टवदनः प्राह प्रणिपत्य जगद्गुरुम् ॥ ४४ ॥
॥ मार्कण्डेय उवाच ॥ ॥
उवाच स तथा विष्णुं भक्तिश्रद्धासमन्वितः ॥
अनुगृह्णीष्व भगवन्क्षेत्रेस्मिन्पुरुषोत्तमे ॥
यथा स्थितो मृत्युवशं न व्रजे पुरुषोत्तम ॥ ४५ ॥
॥ श्रीभगवानुवाच ॥ ॥
अत्र स्थितिं मे विप्रर्षे क्षेत्रे मोक्षप्रसाधके ॥ ४६ ॥
करिष्यामि न सन्देहो यावदाभूतसम्प्लवम् ॥
प्रलयावसाने तीर्थं ते रचयिष्यामि शाश्वतम् ॥ ४७ ॥
यत्तीरे तप आस्थाय मद्द्वितीयतनुं शिवम् ॥
आराध्य मदनुक्रोशान्मृत्युं जेष्यसि निश्चितम् ॥ ४८ ॥
॥ जैमिनिरुवाच ॥ ॥
एवं पुरा दत्तवरो मार्कण्डेयो महामुनिः ॥
न्यग्रोधवायव्यकोणे खातं चक्रेण वै हरेः ॥ ४९ ॥
पावनं गर्तमास्थाय पूजयित्वा महेश्वरम् ॥
महता तपसा विप्रो जितवान्मृत्युमञ्जसा ॥ 2.2.3.५० ॥
मुनेस्तस्यैव नाम्नायं प्रख्यातो गर्त उत्तमः ॥
यत्र स्नात्वा शिवं दृष्ट्वा वाजिमेधफलं लभेत् ॥ ५१ ॥ ॥
॥ श्रीरुवाच ॥ ॥
पञ्चक्रोशमिदं क्षेत्रं समुद्रान्तर्व्यवस्थितम् ॥
द्विक्रोशं तीर्थराजस्य तटभूमौ सुनिर्मलम् ॥ ५२ ॥
सुवर्णवालुकाकीर्णं नीलपर्वतशोभितम् ॥
योऽसौ विश्वेश्वरो देवः साक्षान्नारायणात्मकः ॥ ५३ ॥
संयम्य विषयग्रामं समुद्रतटमास्थितः ॥
उपासितुं जगन्नाथं चतुःषष्टितमः प्रभुः ॥ ५४ ॥
यमेश्वर इति ख्यातो यमसंयमनाशनः ॥
यं दृष्ट्वा पूजयित्वा तु कोटिलिङ्गफलं लभेत् ॥ ५५ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे पुरुषोत्तमक्षेत्रमाहात्म्ये जैमिनिऋषिसंवादे तृतीयोऽध्यायः ॥ ३ ॥