॥ जैमिनिरुवाच ॥ ॥
ततो ब्रह्मागमत्तूर्णं यत्रास्ते भगवान्स्वयम् ॥
स्तवान्तेऽसौ यथा दृष्टस्तथाद्राक्षीत्प्रभुं तदा ॥ १ ॥
प्रत्यभिज्ञानसंहृष्टस्तं दृष्ट्वा परमेश्वरम् ॥
अत्यद्भुतज्ञाननिधिर्बभूवासौ द्विजोत्तमाः ॥ २ ॥
यावत्स्तोतुं समारेभे हर्षसम्फुल्ललोचनः ॥
तावदेव समागत्य कुतश्चिद्वायसोत्तमः ॥ ३ ॥
कारुण्योदकसम्पूर्णे तस्मिन्कुण्डे निमज्य तम् ॥
विलोक्य माधवं नीलरत्नकान्तिं कृपानिधिम् ॥ ४ ॥
काकदेहं समुत्सृज्य लुठमानो मुहुः क्षितौ ॥
शङ्खचक्रगदापाणिस्तस्य पार्श्वे व्यवस्थितः ॥ ५ ॥
तिरश्चस्तां गतिं दृष्ट्वा योगीन्द्राणां सुदुर्लभाम् ॥
मेनेऽसौ मुनयः सृष्टिः क्रमात्क्षीणा भविष्यति ॥ ६ ॥
मनुष्याधिकृते मुक्तौ वेदान्ते संशयोऽभवत्॥
न किञ्चिद्दुर्लभं चेह विष्णुभक्तस्य विद्यते ॥ ७ ॥
प्रत्यक्षोऽभूद्द्विजश्रेष्ठाः पुराणपुरुषोदिते ॥
सङ्कीर्त्य यन्नाम नरः सर्वपापैः प्रमुच्यते ॥ ८ ॥
तस्य सन्दर्शने विप्रा मुक्तिः किं खलु दुर्लभा ॥
मनसा ध्याययन्विष्णुं त्यजन्प्राणान्विमुच्यते ॥ ९ ॥
साक्षात्कृतो भगवतः किं चित्रं मुक्तिमेति यत् ॥
पुरुषोत्तमसञ्ज्ञस्य क्षेत्रस्य महिमाद्भुतः ॥ 2.2.2.१० ॥
यत्र काकोऽपि च हरिं साक्षात्पश्यति भो द्विजाः ॥
सुदुर्लभं क्षेत्रमिदमज्ञानां च विमोचनम् ॥
अहो क्षेत्रस्य माहात्म्यं काकस्यापि विमुक्तिदम् ॥
किं पुनः सततं शान्ति वैराग्यज्ञानसंयुजाम् ॥ ११ ॥
॥ ऋषय ऊचुः ॥ ॥
नीलाख्यं माधवं दृष्ट्वा किं चकार पितामहः ॥ १२ ॥
तद्दर्शने क्षणान्नष्टदेहबन्धं च वायसम् ॥ १३ ॥
॥ जैमिनिरुवाच ॥ ॥
अत्यद्भुतमयं दृष्ट्वा यावद्ध्यायति माधवम् ॥
तावत्पितृपतिः स्वाधिकारसंयमनाकुलः ॥ १४ ॥
दीनाननो निःश्वसन्वै तत्र यातस्त्वरान्वितः ॥
नीलाद्रौ माधवं दृष्ट्वा साऽष्टाङ्गं प्रणिपत्य च ॥ १५ ॥
तुष्टाव स जगन्नाथं स्वाधिकारदृढस्थितौ ॥ ॥
॥ यम उवाच ॥ ॥
नमस्ते देवदेवेश सृष्टिस्थित्यन्तकारण ॥ १६ ॥
त्वयि प्रोतमिदं सर्वं सूत्रे मणिगणा यथा ॥
त्वया धृतं त्वया सृष्टं त्वया चाप्यायितं जगत् ॥ १७ ॥
चन्द्रसूर्यादिरूपेण नित्यं भासयसेऽखिलम् ॥
विश्वेश्वरं जगद्योनिं विश्वावासं जगद्गुरुम् ॥ ॥ १८ ॥
विश्वसाक्षिणमाद्यन्तवर्जितं प्रणमाम्यहम् ॥
नमः परमकारुण्यजलसम्भृतसिन्धवे ॥ १९ ॥
परापरपरातीतविभवे विश्वसम्भवे ॥ ॥ 2.2.2.२० ॥
भवसन्तापनीहारभानवे दीनबन्धवे ॥
स्वमायारचिताशेष भवे गुणरज्जवे ॥ २१ ॥
नमः कमलकिञ्जल्क पीतनिर्मलवाससे ॥
महाहवरिपुस्कन्ध कृन्तचक्राय चक्रिणे ॥ २२ ॥
दंष्ट्रोद्धृत क्षितिभृते त्रयीमूर्तिमते नमः ॥
नमो यज्ञवराहाय चन्द्रसूर्याग्निचक्षुषे ॥ २३ ॥
नरसिंहाय दंष्ट्रोग्रमूर्तिद्रावितशत्रवे ॥
यदपाङ्गविलासैक सृष्टिस्थित्युपसंहृतिः ॥ २४ ॥
उच्चावचात्मको ह्येष भवः सम्भवते मुहुः ॥
तममुं नीलमेघाभं नीलाश्ममणिविग्रहम् ॥ २५ ॥
नीलाचलगुहावासं प्रणमामि कृपानिधिम् ॥
शङ्खचक्रगदापद्मधारिणं शुभदायिनम् ॥ २६ ॥
प्रणताशेषपापौघदारिणं मुरवैरिणम् ॥
नमस्ते कमलापाङ्ग सङ्गसंस्कारचक्षुषे ॥ २७ ॥
श्रीवत्सकौस्तुभोद्भासि मनोहृद्व्यूढवक्षसे ॥
यत्पादपङ्कजद्वन्द्वसंश्रयैश्वर्यभागिनी ॥ ॥ २८ ॥
श्रीः संश्रिता जनैः शश्वत्पृथगैश्वर्यदायिनी ॥
या परापरसम्भिन्ना प्रकृतिस्ते सिसृक्षया ॥ २९ ॥
निर्विकारं परं ब्रह्म विकारि ससृजेंऽजसा॥
सर्वलक्षणसम्पूर्णा लक्षितां शुभलक्षणैः ॥
लक्ष्मीशोरसि नित्यस्था लक्ष्मीं तां प्रणमाम्यहम् ॥ 2.2.2.३० ॥
॥ जैमिनिरुवाच ॥ ॥
तदेवं धर्मराजेन श्रीकान्तः परितोषितः ॥
पार्श्वस्थां वल्लकीहस्तां नेत्रान्तेनादिशच्छ्रियम् ॥ ३१ ॥
तेन सम्भाविता लक्ष्मीर्भवदुःखविनाशिनी ॥
शुभाय सर्वलोकानां यमं प्रोवाच लीलया ३२ ॥
॥ लक्ष्मीरुवाच ॥ ॥
यदर्थमावां संस्तौषि क्षेत्रेस्मिन्दुर्लभं हि तत् ॥
अत्याज्यमावयोरेतत्क्षेत्रं श्रीपुरुषोत्तमम् ॥ ३३ ॥
कल्पावसानेप्यावां वै ध्रियेते परमेष्ठिना ॥
ब्रह्मादिदिक्प्रभूणां हि स्वामित्वं नेह विद्यते ॥ ३४ ॥
नेह कर्मपरीपाकाः सम्भवन्ति कदाचन॥
अत्र प्रवसतां नृणां तिरश्चामपि दुष्कृताम्॥ ३५ ॥
दह्यते ज्वलिताग्नौ हि तूलराशिर्यथा भृशम् ॥
ये बद्धा पापपुण्याभ्यां निगडाभ्यामहर्निशम् ॥ ३६ ॥
तेषां संयमिता त्वं हि यमः पूर्वं विनिर्मितः ॥
अत्र साक्षाद्वपुष्मन्तं नीलेन्द्रमणिमञ्जुलम् ॥ ३७ ॥
दृष्ट्वा नारायणं देवं मुच्यते कर्मबन्धनात् ॥
अतोऽन्यतः कर्मभूमौ प्रभुत्वं सूर्यसम्भव ॥ ३८ ॥
वैक्लव्यं क्षेत्रराजेस्मिन्मा गास्त्वं यम संयमे ॥
तवापि भगवानेष विधाता प्रपितामहः ॥ ३९ ॥
तिर्यञ्चं विष्णुसारूप्यं प्राप्तं पश्यति कौतुकात् ॥
एष कर्मपरीपाकं सर्वेषां वेत्ति कञ्जजः ॥ 2.2.2.४० ॥
ज्ञात्वा क्षेत्रस्य माहात्म्यं स्तौति देवं गदाधरम्॥
त्वद्वशं गन्तुमुचिता नेह तिष्ठन्ति जन्तवः ॥ ४१ ॥
वैवस्वत वसन्त्यत्र जीवन्मुक्ता मुमुक्षवः ॥
तया सम्बोधितस्त्वेवं विष्णुना स्त्रीस्वरूपिणा ॥
ततोऽहङ्कारलज्जाभ्यां विनीतः प्राब्रवीद्यमः ॥ ४२ ॥
॥ यम उवाच ॥ ॥
मातस्त्वया यदाज्ञप्तं पुरा नैतन्मया श्रुतम्॥ ४३ ॥
अज्ञानोपहतो वेद्मि रहस्यं कथमुत्तमम् ॥
यस्य स्वरूपं वेदाश्च न च वेत्ति पितामहः॥४४॥
महिमानं कथं तस्य वेद्म्यहङ्कार मोहितः॥
यदादिष्टं सुरेशानि क्षेत्रमेतद्विमु्क्तिदम्॥४५॥
सान्निध्याद्वासुदेवस्य ईश्वरेच्छा निरङ्कुशा॥
अन्यत्र बन्धदो विष्णुरत्र मोक्षं ददाति यत्॥ ४६॥
ममापि निरयाणां च स्रष्टासौ त्रिदिवस्य च॥
मृतानामत्र मुक्तिश्चेत्तन्मामम्ब सुविस्तरम्॥४७॥
क्षेत्रसंस्थाप्रमाणं हि तत्र स्थिति फलं हि यत् ॥
तीर्थानि कानि सन्त्यत्र किमन्यद्वा रहस्यकम् ॥ ४८ ॥
किमधिष्ठातृकं क्षेत्रं तत्सर्वं कथयस्व मे ॥
तदहं सम्परित्यज्य निर्भयः सञ्चरे यथा॥ ४९ ॥ ॥
इति श्रीस्कान्दे महापुराण एकाशातिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे पुरुषोत्तमक्षेत्रमाहात्म्ये जैमिनिऋषिसंवादे द्वितीयोऽध्यायः ॥ २ ॥