॥ अथ व्यासप्रोक्ताकाशगङ्गास्नानकालनिर्णयः ॥
॥ श्रीसूत उवाच ॥ ॥
अञ्जनापि वरं लब्ध्वा भर्त्रा साकं मुमोद ह ॥
ब्रह्मादीनागतान्दृष्ट्वा विस्मयाविष्टमानसा ॥ १ ॥
पत्या साकं ततः स्वस्था चाञ्जना मञ्जुभाषिणी ॥
ब्रह्मादिभिरनुज्ञातो व्यासो वेदविदां वरः ॥ २ ॥
अञ्जना तामुवाचेदं मेघगम्भीरया गिरा ॥ ३ ॥
॥ व्यास उवाच ॥ ॥
अञ्जने शृणु मद्वाक्यं सर्वलोकोपकारकम् ॥
मतङ्गस्य ऋषेर्वाक्यं श्रुत्वा निर्मलचेतसा ॥ ४ ॥
यस्मात्तु वेङ्कटं गत्वा तपः कृत्वा सुदुष्करम् ॥
प्रसूयते त्वया पुत्रः शूरस्त्रैलोक्यविक्रमः ॥ ५ ॥
इदं तीर्थोत्तमं तस्मात्प्रत्यक्षदिवसे तव ॥
गङ्गाद्यानि च तीर्थानि समायान्ति जगत्त्रये ॥ ६ ॥
वेङ्कटाद्रिसमं तीर्थं ब्रह्माण्डे नास्ति किञ्चन ॥
तत्राप्यत्यन्तपुण्या वै स्वामिपुष्करिणी शुभा ॥ ७ ॥
ततोऽधिकमिदं तीर्थं प्रत्यक्षं दिवसे तव ॥
स्नानार्थं ये समायान्ति चित्राऋक्षसमन्विते ॥ ८ ॥
मेषं पूषणि सम्प्राप्ते पूर्णिमायां शुभे दिने ॥
शृणु तेषां फलं देवि वक्ष्यामि तव सुव्रते ॥ ९ ॥
गङ्गादिसर्वतीर्थेषु द्वादशाब्दं वरानने ॥
यत्फलं विद्यते देवि तत्फलं भवति धुवम् ॥ 2.1.40.१० ॥
दानानि कुर्वतां पुंसां तेषां शृणु फलोन्नतिम् ॥
स्थाने तूक्तं फलं देवि विद्धि तेषां वरानने ॥ ११ ॥
॥ अञ्जनोवाच ॥ ॥
कार्याणि यानि दानानि वेङ्कटाद्रौ नगोत्तमे ॥
तानि सर्वाणि विप्रेन्द्र वद वेदविदां वर ॥ १२ ॥
॥ अथ व्यासप्रोक्तश्रीवेङ्कटाचलकरणीयदानप्रशंसा ॥
॥ व्यास उवाच ॥
अन्नदानं वस्त्रदानं द्वयमेतत्प्रशस्यते ॥
पितुः श्राद्धं विशेषेण वेङ्कटाद्रौ नगोत्तमे ॥ १३ ॥
सुवर्णं ये प्रयच्छन्ति प्रीतये मधुघातिनः ॥
सर्वलोकं समासाद्य मोदन्ते मुनिसत्तमाः ॥ १४ ॥
शालग्रामशिलादानं ये कुर्वन्ति नगोत्तमे ॥
अङ्गभङ्गमवाप्नोति स्वानुभूतिं च विन्दति ॥ १५ ॥
यो ददाति द्विजेन्द्राय गोदानं च कुटुम्बिने ॥
रोमसङ्ख्याप्रमाणेन विष्णुलोके विराजते ॥ १६ ॥
भूमिं ददाति यो देवि ब्राह्मणाय कुटुम्बिने ॥
तस्याश्च पुण्यफलं वक्तुं कः शक्तो दिवि वा भुवि ॥ १७ ॥
कन्यां ददाति यो देवि श्रोत्रियाय द्विजातये ॥
विष्णुलोकं समासाद्य मोदते पितृभिः सह ॥ ॥ १८ ॥
प्रपां कुर्वन्ति ये देवि शीतलोदकसंयुताम् ॥
तेषां पुण्यफलं वक्तुं शेषेणापि न शक्यते ॥ १९ ॥
तिलं ददाति विप्राय श्रोत्रियाय कुटुम्बिने ॥
सर्वपापविनिर्मुक्तो विष्णुलोकं स गच्छति ॥ 2.1.40.२० ॥
धान्यदानं प्रशंसन्ति विप्रा वेदविदां वराः ॥
बहुपुत्रा भविष्यन्ति धान्यदानं प्रकुर्वताम् ॥ २१ ॥
गन्धचम्पकपुष्पादीञ्छत्रव्यजनचामरान् ॥
ताम्बूलघनसारादीन्यो ददाति द्विजातये ॥ २२ ॥
भुक्त्वा भोगं चिरं कालं स्वर्गलोकं ततो व्रजेत् ॥
दिव्यवर्षसहस्रं च भुक्त्वा भोगाननेकशः ॥ २३ ॥
सार्वभौमस्ततो भूत्वा तत्र भुक्त्वा चिरं महीम् ॥
ततो विप्रत्वमासाद्य वेदवेदान्तपारगः ॥ २४ ॥
ततो मुक्तिं समायाति प्रसादाच्चक्रपाणिनः ॥
इत्येतत्कथितं देवि वेङ्कटाचलवैभवम् ॥ २५ ॥
य एतच्छृणुयान्नित्यं यश्चापि परिकीर्तयेत् ॥
सर्वपापविनिर्मुक्तो विष्णुलोकं स गच्छति ॥ २६ ॥
इत्येतत्कथितं पूर्वं व्यासेनैव महात्मना ॥
शृणुयाद्वा पठेद्वापि कृतकृत्यो भविष्यति ॥ २७ ॥
तस्यैव वंशजाः सर्वे मुक्तिं यान्ति न संशयः ॥ २८ ॥ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे श्रीवेङ्कटाचलमाहात्म्येऽञ्जनावरलब्ध्याकाशगङ्गा स्नानकालनिर्णयादिवर्णनन्नाम चत्वारिंशोऽध्यायः ॥ ४० ॥