॥ अथ पुत्रार्थमञ्जनाकृततपःप्रकारः ॥
॥ श्रीसूत उवाच ॥ ॥
पुत्रहीनाञ्जना पूर्वं दुःखिता तपसि स्थिता ॥
तां दृष्ट्वा मुनिशार्दूलो मतङ्गो विष्णुतत्परः ॥ १ ॥
अञ्जनाख्यामुवाचेदमत्युग्रे तपसि स्थिताम् ॥ २ ॥
॥ मतङ्ग उवाच ॥ ॥
समुत्तिष्ठाञ्जने देवि किमर्थं तपसि स्थिता ॥
वद देवि महाभागे कार्यं तव वरानने ॥ ३ ॥
॥ अञ्जनोवाच ॥ ॥
मतङ्ग मुनिशार्दूल वचनं मे शृणुष्व ह ॥
पिता मे केसरी नाम राक्षसः शिवतत्परः ॥ ४ ॥
शैवं घोरं तपश्चक्रे पुत्रार्थं तु सुदुष्करम् ॥
पार्वतीसहितः शम्भुर्वृषभोपरि संस्थितः ॥ ५ ॥
प्रादुरासीत्तदा देवो ददौ तस्मै वरं शुभम् ॥ ६ ॥
॥ शम्भुरुवाच ॥ ॥
शृणु राजन्प्रवक्ष्यामि विधिना निर्मितं तव ॥
अस्मिजन्मन्यपुत्रत्वं तथाप्यन्यद्ददामि ते ॥ ७ ॥
विश्रुता सर्वलोकेषु पुत्री तव भविष्यति ॥
तस्याः पुत्रो महाबुद्धिस्तव प्रीतिं करिष्यति ॥ ८ ॥
इति तस्मै वरं दत्त्वा तत्रैवान्तर्दधे हरः ॥
मां लब्ध्वा मत्पिता विप्रः कृतकृत्यो बभूवू ह ॥ ९ ॥
ततः कालान्तरे विप्रः केसर्याख्यो महाकपिः ॥
ययाचेमां ददस्वेति पितरं मे ततः पिता ॥ ॥ 2.1.39.१० ॥
तस्मै मां दत्तवांश्चैव पारिबर्हं ददौ च सः ॥
गवां लक्षसहस्राणि गजलक्षं महामनाः ॥ ११ ॥
वाजिनामर्बुदं चैव रथानामर्बुदं तथा ॥
वस्त्ररत्नान्यनेकानि दासदासीसहस्रकम् ॥ १२ ॥
अन्तःपुरचरीर्नारीर्नृत्यगीतविशारदाः ॥
ददौ वासः सहस्रं च मया साकं महामते ॥ १३ ॥
पत्या मे रममाणाया भूयान्कालो गतो मुने ॥
अपुत्रा दुःखिता विप्र व्रतानि विविधानि च ॥ १४ ॥
कृतानि च मया तत्र किष्किन्धायां महापुरि ॥
माघे मासि च विप्रेन्द्र वैशाखे कार्तिके तथा ॥ १५ ॥
स्नानदानव्रतादीनि चातुर्मास्यव्रतं तथा ॥
नमस्कारस्तथा विप्र प्रदक्षिणमनुत्तमम् ॥ ॥१६ ॥
शालग्रामान्नदानानि दीपदानं तथैव च ॥
गोदानं तिलदानं च वस्त्रदानं महामुने ॥ १७ ॥
भूदानं वारिदानं च दत्त्वा पुष्पादिकं मुने ॥
यानि यानि च मुख्यानि वैष्णवानि व्रतानि च ॥
मया कृतानि सर्वाणि सत्पुत्रफलकाङ्क्षया ॥ १८ ॥
श्रवणादिषु यत्प्रोक्तं व्रतं विप्रैमहात्मभिः ॥
मया कृतं च विप्रेद्रं तुष्ट्यर्थं मधुविद्विषः ॥ १९ ॥
यानि यानि च मुख्यानि फलानि विविधानि च ॥
मया दत्तानि सर्वाणि सत्पुत्रफलकाङ्क्षया ॥ 2.1.39.२० ॥
मया कृतान्यसङ्ख्यानि व्रतानि विविधानि च ॥
पुत्रं तथाप्यलब्ध्वाहं दुःखिता तपसि स्थिता ॥ २१ ॥
भविष्यति कथं विप्र पुत्रस्त्रैलोक्यविश्रुतः ॥
याचेऽहं तु मुनिश्रेष्ठ प्रणता च तवाग्रतः ॥ २२ ॥
वद त्वं मुनिशार्दूल दीनाहं तपसि स्थिता ॥ २३ ॥
॥ श्रीसूत उवाच ॥ ॥
एवं वदन्तीं तां प्राह मतङ्गो मुनिसत्तमः ॥
शृणु मद्वचनं देवि पुत्रपौत्रप्रदायकम् ॥ २४ ॥
इतो दक्षिणदिग्भागे दशयोजनदूरतः ॥
घनाचल इति ख्यातो नृसिंहस्य निवासभूः ॥ २५ ॥
तस्योपरि महाभागे ब्रह्मतीर्थं मनोहरम् ॥
तस्यापि पूर्वदिग्भागे दशयोजनमात्रतः ॥ २६ ॥
सुवर्णमुखरी नाम नदीनां प्रवरा नदी ॥
तस्या एवोत्तरे भागे वृषभाचलनामतः ॥ २७ ॥
तस्याग्रे सरसी नाम्ना स्वामिपुष्करिणी शुभा ॥
गत्वा दृष्ट्वा शुभं तोयं मनःशुद्धिं गमिष्यसि ॥ २८ ॥
तत्र स्नात्वा विधानेन वराहं तं प्रणम्य च ॥
वेङ्कटेशं नमस्कृत्य ततो गच्छ वरानने ॥ २९ ॥
उत्तरे स्वामितीर्थस्य सिंहशादूलसंयुते ॥
चूतपुन्नागपनसैर्बकुलामलकः शुभैः ॥ 2.1.39.३० ॥
चन्दनागुरुनिम्बैश्च तालहिन्तालकिंशुकैः ॥
कपित्थाश्वत्थबिल्वैश्च इङ्गुदैश्च वरानने ॥ ३१ ॥
एतादृशैर्महापुण्यैर्वृक्षैश्च विविधैः शुभैः ॥
वियद्गङ्गेति विख्यातं तीर्थमेकं विराजते ॥ ३२ ॥
तस्मिंस्तीर्थेऽञ्जने देवि सङ्कल्पविधिपूर्वकम् ॥
स्नात्वा पीत्वा शुभं तीर्थं तीर्थस्याभिमुखी स्थिता ॥ ३३ ॥
वायुमुद्दिश्य हे देवि तपः कुरु वरानने ॥
देवैश्च राक्षसैर्विप्रैर्मनुजैर्मुनिसत्तमैः ॥ ३४ ॥
भृङ्गैः पक्षिभिरस्त्रैश्च शस्त्रैश्च विविधैः शुभैः ॥
अवध्यो भविता पुत्रस्तपसा ते न संशयः ॥ ३५ ॥
॥ श्रीसूत उवाच ॥ ॥
इति प्रोक्ताञ्जना देवी तं प्रणम्य पुनःपुनः ॥
भर्त्रा साकं ययावाशु वेङ्कटाचलसञ्ज्ञकम् ॥ ३६ ॥
कापिलं तीर्थमासाद्य स्नात्वा निर्मलमानसा ॥
वेङ्कटाद्रिं समारुह्य स्वामिपुष्करिणीं ययौ । ३७ ॥
स्नात्वा वराहमानम्य वेङ्कटेशकृतानतिः ॥
मतङ्गस्य ऋषेर्वाक्यं स्मरन्ती च मुहुर्मुहुः ॥ ३८ ॥
वियद्गङ्गां ययावाशु चाञ्जना मञ्जुभाषिणी ॥
स्नात्वा पीत्वा शुभं तोयं तीरं तस्य तदुन्मुखी ॥ ३९ ॥
प्राणवायुं समुद्दिश्य तपश्चक्रे यतव्रता ॥
फलाहारा जलाहारा निराहारा ततः परम् ॥ 2.1.39.४० ॥
सहस्राब्दं तपश्चक्रे न्यस्तनासाग्रदृष्टिका ॥
वयस्या विपुला नाम शुश्रूषामकरोच्छुभा ॥ ४१ ॥
वर्षाणां च सहस्रान्ते वायुर्देवो महामतिः ॥
प्रादुरासीत्तदा तां वै भाषमाणो महामतिः ॥ ४२ ॥
मेषसङ्क्रमणं भानौ सम्प्राप्ते मुनिसत्तमाः ॥
पूर्णिमाख्ये तिथौ पुण्ये चित्रानक्षत्रसंयुते ॥ ४३ ॥
तवेप्सितमहं दास्ये वरं वरय सुव्रते ॥
इति तद्वचनं श्रुत्वा ततः प्राहाञ्जना सती ॥ ४४ ॥
पुत्रं देहि महाभाग वायो देव महामते ॥
तस्यास्तद्वचनं श्रुत्वा मातरिश्वाब्रवीत्ततः ॥ ४५ ॥
पुत्रस्तेऽहं भविष्यामि ख्यातिं दास्ये शुभानने ॥
इति तस्यै वरं दत्त्वा तत्रैवास्ते महाबलः ॥ ४६ ॥
तदा ब्रह्मादयो देवा इन्द्राद्या लोकपालकाः ॥
वसिष्ठाद्या महात्मानः सनकाद्याश्च योगिनः ॥ ४७ ॥
व्यासादयश्च विप्रेन्द्रा लक्ष्म्या साकं जगत्पतिः ॥
मुनिपत्न्यो देवपत्न्य ऋषिपत्न्यस्तथैव च ॥ ४८ ॥
स्वं स्वं वाहनमारुह्य दारभृत्यसुतादिभिः ॥
आगतास्ते महात्मानो द्रष्टुं तां तपसि स्थिताम् ॥ ४९ ॥
आश्चर्यमाश्चर्यमिति ब्रुवाणा ब्रह्मादयो देवगणाश्च सर्वे ॥
आलोकयन्तो दिवि दूरतस्ते स्थितास्तदा ब्रह्ममहेशमुख्याः ॥ 2.1.39.५० ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे श्रीवेङ्कटाचलमाहात्म्ये अञ्जनातपःकरणप्रकारादिवर्णनं नामैकोनचत्वारिंशोऽध्यायः ॥ ३९ ॥