॥ ॥ अथ शङ्खाभिधाननृपवृत्तान्तः ॥
॥ भारद्वाज उवाच ॥ ॥
शृणु पार्थ प्रवक्ष्यामि कथामाश्चर्यकारिणीम् ॥
यथाऽसौ भगवानस्मिञ्छैले प्राप प्रकाशताम् ॥ १ ॥
श्रुताभिधानो नृपतिरस्ति हैहयवंशजः ॥
यः प्रजाः स्वा इव चिरं शशास धरणीं शुभाम् ॥ २ ॥
तस्य पुत्रो गुणनिधिः शङ्खो नाम महीपतिः ॥
पालयामास वसुधां सर्वशास्त्रविशारदः ॥ ३ ॥
तस्य विष्णौ जगन्नाथे पुण्डरीकायतेक्षणे ॥
बभूव निश्चला भक्तिः परित्यक्तान्यसंश्रया ॥ ४ ॥
देवदेवं जगन्नाथमनन्तं पुरुषोत्तमम् ॥
प्रगाढनिश्चयो नित्यं ध्यायन्नद्भुतवैभवम् ॥ ५ ॥
चक्रे व्रतानि दानानि पुण्यानि विविधानि च ॥
वेदवेद्यस्य नियतं प्रीत्यर्थं मधुविद्विषः ॥ ६ ॥
तमुद्दिश्यैव विदधे वाजिमेधादिकान्क्रतून् ॥
यथोक्तदक्षिणायोगात्प्रीणिताशेषभूसुरः ॥ ॥ ७ ॥
इष्टापूर्त्तात्मकं चक्रे कर्मजातमतन्द्रितः ॥
विन्यस्तहृदयो नित्यं केशवे भक्तवत्सले ॥ ८ ॥
स्मरत्यजस्रं गोविन्दं जपत्यच्युतमव्ययम् ॥
पूजयत्यब्जनयनं सङ्कीर्तयति शार्ङ्गिणम् ॥ ९ ॥
शृणोति सततं राजा संसारार्णवतारिणीः ॥
पौराणिकैः समाख्याताः पवित्रा वैष्णवी कथाः ॥2.1.37.१०॥
ब्राह्मणानर्चति स्मायं हरिप्रीत्यर्थमेव च ॥
इत्थं सर्वात्मना युक्तोऽप्यश्रान्तः पृथिवीपतिः ॥ ११ ॥
नापश्यच्छाश्वतैश्वर्यं स्वतन्त्रं पुरुषोत्तमम् ॥
अप्राप्य दर्शनं विष्णोः सर्वयज्ञमयात्मनः ॥ १२ ॥
सशोकाक्रान्तहृदयः परां चिन्तामुपागमत् ॥ १३ ॥
॥ शङ्ख उवाच ॥ ॥
परः सहस्रैर्जनैरतीतदुष्कृतं बहु ॥
कृतं मया यदप्राप्तं हृषीकेशस्य दर्शनम् ॥ १४ ॥
उपार्जितानां तमसामनेकैः पूर्वजन्मभिः ॥
अखण्डं हि फलं विष्णोर्दर्शनं मधुघातिनः ॥ १५ ॥
कथं नु यायाद्भगवान्विषयं मम नेत्रयोः ॥
कदा वा लभ्यते श्रेयस्तद्वाक्याकर्णनात्मकम् ॥ १६ ॥
हा धिङ्मां विहितागस्कं क्रियासाफल्यवर्जितम् ॥
नारायणकृपादूरं संसारक्लेशगोचरम् ॥ १७ ॥
॥ भरद्वाज उवाच ॥ ॥
इति चिन्ताकुले तस्मिन्राज्ञि जीवितनिःस्पृहे ॥
अदृश्यमूर्तिः सर्वेषां शृण्वतामाह केशवः ॥ १८ ॥
॥ श्रीभगवानुवाच ॥ ॥
मा शोकस्य वशं यायाः शृणु वक्ष्याभि ते हितम् ॥
मदेकशरणं साधुं त्वां त्यक्ष्यामि कथं नृप ॥ १९ ॥
अयं वेङ्कटनामाद्रिस्त्रिषु लोकेषु विश्रुतः ॥
वैकुण्ठादपि मे राजन्नावासोऽतिप्रियावहः ॥ ॥2.1.37.२०॥
तं गत्वा भूधरवरं तव भक्त्या तपस्यतः ॥
गते सहस्रे वर्षाणां यास्याम्यालोकनीयताम् ॥२१॥
भवानिवोद्यतोऽगस्त्यो मम दर्शनमञ्जसा ॥
क्व वा सन्दृश्यते विष्णुरेवमाह चतुर्मुखम् ॥ २२ ॥
वृषभाद्रौ हरिर्द्रष्टुं लभ्यते नियतात्मभिः ॥
गच्छ तत्रेति मुनये कथयामास पद्मभूः ॥ २३॥
अम्भोजसम्भवेनेत्थमादिष्टः कुम्भसम्भवः ॥
अञ्जनाद्रौ महावासे तपस्तप्तुं समेष्यति ॥ २४ ॥
तस्मिन्महीधरे पुण्ये कृतवासो भवानपि ॥
आराध्य मां तपोनिष्ठो मम दर्शनमाप्स्यसि ॥ २५ ॥
॥ अथ भगवदुक्त्या शङ्खनृपस्य श्रीवेङ्कटाचलागमनम् ॥
॥ भरद्वाज उवाच ॥ ॥
इत्याज्ञप्तो भगवता शङ्खो दानववैरिणा ॥
जगाम प्रीतिमतुलां धन्योस्मीति स्वचेतसि ॥ २६ ॥
विन्यस्य तनयं वज्रं प्रजापालनकर्मणि ॥
गोविन्ददर्शनापेक्षी नारायणगिरिं ययौ ॥ २७ ॥
तस्य शृङ्गे समुत्तुङ्गे स्वामिपुष्करिणीं शुभाम् ॥
दिव्यैः पयोभिरापूर्णामपश्यदमृतोपमैः ॥ २८ ॥
अनेकसिद्धगन्धर्वदेवर्षिगणसेविताम् ॥
भवतापप्रशमनी सर्वतीर्थसमाश्रयाम् ॥ २९ ॥
जलकाकबकक्रौञ्चहंसकारण्डवाकुलाम् ॥
कुमुदोत्पलराजीवसौगन्धिकमनोहराम् ॥ 2.1.37.३० ॥
तां दृष्ट्वा पद्मिनीं दिव्यां तत्तीरे विहितोटजः ॥
तोषितः स्नानपानाद्यैर्निर्विकल्पमनोगतिः ॥ ३१ ॥
सर्वकर्माणि विन्यस्य जगदीशे जनार्दने ॥ ३२ ॥
॥ अथ भगवद्दर्शनार्थमगस्त्यस्य वेङ्कटाचलागमनम् ॥ ॥
जपध्यानपरो नित्यं तपस्तेपे सुदारुणम् ॥
तस्मिन्नेव मुनिः काले शासनात्परमेष्ठिनः ॥ ३३ ॥
अगस्त्योऽप्याससादाद्यं शैलं मुनिशतावृतः ॥
प्रतीचीं दिशमारभ्य कृतयत्नः प्रदक्षिणे ॥ ३४ ॥
पश्यंस्तीर्थानि पुण्यानि बभ्राम सुचिरं गिरौ ॥
तत्र तत्र ददर्शासौ हरिदर्शनलालसान् ॥ ३५ ॥
विरिञ्चिगुहशक्रेशविष्वक्सेनादिकान्क्रमात् ॥
सनकाद्यांश्च योगीन्द्रान्नारदप्रमुखानृषीन् ॥ ३६ ॥
सिद्धगन्धर्वदैतेययक्षराक्षसपन्नगान् ॥
तैस्तैः सम्मान्यमानोऽसौ प्रश्रयप्रियभाषणैः ॥ ३७ ॥
पश्यन्नाश्चर्यभूतानि सर्वाणि विचचार ह ॥
स्नात्वा तीर्थेषु सर्वेषु स्कन्दधारादिकेषु च ॥ ३८ ॥
तत्र तत्रार्चयामास गोविन्दं जगतां पतिम् ॥
एवं भ्रान्त्वा गतेऽब्दानां सहस्रे मुनिसत्तमः ॥ ३९ ॥
नापश्यत्पुण्डरीकाक्षं चिन्ताशोकपरोऽभवत् ॥ 2.1.37.४० ॥
॥ अथागस्त्यं प्रति गुरुवस्वाद्युक्तिः ॥ ॥
तस्मिन्काले समाजग्मुर्धिषणोशनसौ पुनः ॥
राजोपरिचरो नाम वसुश्च तमृषीश्वरम् ॥ ४१ ॥
अस्माकं सफलं जातं जीवितं मुनिसत्तम ॥
दृष्टो भवान्यदस्माभिर्नारायण इवापरः ॥ ४२ ॥
ब्रह्मणा लोकनाथेन यदादिष्टा वयं मुने ॥
अच्युतालोकनपरास्तदिदं कथ्यते तव ॥ ४३ ॥
अस्ति दक्षिणदिग्भागे वेङ्कटोनाम भूधरः ॥
श्वेतद्वीपादपि हरेरावासोऽयमभीप्सितः ॥ ४४ ॥
तस्मिन्गिरावगस्त्यस्य शङ्खस्य च महीपतेः ॥
दर्शयिष्यति गोविन्दो निजरूपं जगद्गुरुः ॥ ४५ ॥
तदानीं सर्वदेवानामृषीणां यक्षरक्षसाम् ॥
अस्माकं देवदेवस्य दर्शनं सम्भविष्यति ॥ ४६ ॥
अचिरेणैव तद्भावि ततः सन्त्यक्तकल्मषाः ॥
अन्वेष्टुं गच्छतागस्त्यं तस्मिन्नारायणाचले ॥ ४७ ॥
इत्याज्ञप्ता वयं धात्रा समागम्यात्र भाग्यतः ॥
दृष्टवन्तो महाभागं भवन्तं भूरितेजसम् ॥ ४८ ॥
भवता सहिता गत्वा स्वामिपुष्करिणीतटे ॥
तमप्यालोकयिष्यामः शङ्खं भागवतोत्तमम् ॥ ४९ ॥ ॥
अथागस्त्यादिकृतश्रीवेङ्कटाचलस्थरम्यवस्तुदर्शनम् ॥
॥ ॥ भरद्वाज उवाच ॥ ॥
गीष्पतिप्रमुखैरित्थमादिष्टः कुम्भसम्भवः ॥
शोकजालं परित्यज्य ययौ तैः सहितो द्रुतम् ॥ 2.1.37.५० ॥
स ददर्श महावृक्षान्फलपुष्पभरानतात् ॥
प्ररूढशाखानिकरच्छायाच्छादितदिक्तटान् ॥ ५१ ॥
सिंहदन्तावलव्याघ्रवराहमहिषादिकान् ॥
मृगानालोकयामास पन्थानं चान्तरान्तरा ॥ ५२ ॥
तैस्तदानीं ददृशिरे सानवोऽप्यम्बुभृद्भृतः ॥
सुवर्णरौप्यताम्रादिशोभितास्तत्र तत्र तु ॥ ५३ ॥
उच्चलच्छीकरासारनिर्वाहितदिवौकसः ॥
वेगोद्धृतशिला दृष्टाः शतशो गिरिनिर्झराः ॥ ५४ ॥
तेषामापादयामास प्रमोदं मन्दमारुतः ॥
कमलामोदसंवाही विचरन्गिरिसानुषु ॥ ५५ ॥
शुकानां कोकिलानां च तदा शुश्रुविरे गिरः ॥ ५६ ॥
तत्र तत्र समासीनान्विस्तीर्णासु दृषत्सु ते ॥
सिद्धानपश्यन्कृष्णस्य गायतो गुणवैभवम् ॥ ५७ ॥
अगस्त्यप्रमुखाः सर्वे परिक्रम्य मुनीश्वराः ॥
स्वामिपुष्करिणीं दिव्यां ददृशुर्विमलोदकाम् ॥ ५८ ॥
तत्तीरे विहितावासमपश्यच्छङ्खभूपतिम् ॥
वाङ्मनःकायजं कर्म सन्निवेश्य स्थितं हरौ ॥ ५९ ॥
स तानालोक्य सहसा मुनीन्द्रान्संशितव्रतान् ॥
यथोक्तमकरोत्पूजां प्रणामस्तुतिपूर्विकाम् ॥ 2.1.37.६० ॥
आसीनास्तत्र ते सर्वे सम्भाव्यान्योऽन्यमुत्सुकाः ॥
गोविन्दकीर्तनपराः कृतार्थत्वं प्रपेदिरे ॥ ६१ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे श्रीवेङ्कटाचलमाहात्म्ये सुवर्णमुखरीमाहात्म्यप्रशंसायां श्रीवेङ्कटाचलं प्रति शङ्खागस्त्याद्यागमनवर्णनन्नाम सप्तत्रिंशोऽध्यायः ॥ ३७ ॥