॥ अथ वराहकृतधरण्युद्धरणक्रमः॥
॥ भरद्वाज उवाच ॥ ॥
पुरा निशात्यये धातुः प्रबुद्धो मधुसूदनः ॥
पुनः प्रवृत्तिं भूतानामन्वियेष धिया भृशम् ॥१॥
विना वसुमतीमन्ये भूतौघधरणक्षमाः ॥
न भवन्तीति हृदये तर्कस्तस्याजनिष्ट च ॥ २ ॥
अपश्यत्प्रणिधानेन महीं पातालगोचराम्॥
अतिमात्रभयोद्विग्नां परीतां महताम्बुना ॥ ३ ॥
प्रतिपेदे तदा रूपं भूसमुद्धरणोचितम् ॥
उपकर्मोष्ठमनलजिह्वं प्रणवघोषणम् ॥४॥
चतुराम्नायचरणं प्रायश्चित्तखुराञ्चितम् ॥
प्राग्वंशकायं विलसद्दर्भरोमावलीयुतम् ॥ ५ ॥
प्रवर्ग्यावर्तसम्पन्नं दक्षिणाग्न्युदरान्वितम् ॥
स्रुक्तुण्डमखिलैः सर्वैः संविभक्ताङ्गसन्धिकम् ॥ ६ ॥
दिव्यसूक्तसटाजालं परत्रह्मशिरस्तथा ॥
हव्यकव्यरयोपेतं विशुद्धपशुजानुकम् ॥ ७ ॥
उक्तात्युक्तादिकच्छन्दोमार्गमन्त्र बलान्वितम् ॥
सर्वयज्ञमयं दिव्यं वाराहं रूपमास्थितः ॥ ८ ॥
अन्वेष्टुं धरणीमब्धेर्विवेश सलिलान्तरम् ॥
दंष्ट्राबालशशाङ्कोत्थलसत्कान्तिचयैर्हठात्॥ ॥ ९ ॥
कल्पान्तसमयस्फीतं तमिस्रमपसारयन् ॥
अभिभूताम्बुभृद्घोषैर्मुहुर्ब्रह्माण्डकन्दराम् ॥ 2.1.36.१० ॥
निनादमुखरां कुर्वन्गाढैर्घुरुघुरुस्वनैः ॥
खुरप्रखुरविन्यासैर्जर्जरीकृतविग्रहम् ॥ ११ ॥
इतस्ततो विलुठयन्नुरगाणामधीश्वरम् ॥
तीव्रैर्निःश्वासपवनैरापातालं सरित्पतेः ॥ १२ ॥
प्रापयन्नतलस्पर्शमन्तरं दर्शनीयताम् ॥
अतिदीर्घेण पात्रेण मग्नोन्मग्नेन वारिधेः ॥ १३ ॥
सङ्क्षोभितानि पाथांसि कुर्वन्नन्तर्ययौ तदा ॥
सप्तपातालमूलाधः स्थितां तोये भयाकुलाम् ॥ १४ ॥
वेपमानां समालोक्य धरणीं हृष्टमानसः ॥
तामारोप्य स्वदंष्ट्राग्रमुन्ममज्ज सरित्पतेः ॥ १५ ॥
संस्तूयमानो मुनिभिर्जनलोकनिवासिभिः ॥
तस्मिन्नुद्वहति प्रेम्णा देवे वसुमतीं क्षणम् ॥ १६ ॥
प्रतिसारा बभूवाधो वारिधेमर्ङ्गलोचिता ॥
तदुत्तारणवेलायां वराहवपुषोऽर्जुन ॥ १७ ॥
गम्भीरघोषैरम्भोधिः प्राप मङ्गलतूर्यताम् ॥
उद्वृत्तवीचिविक्षिप्तशीकरासारसङ्गतः ॥ १८ ॥
भेजे मुक्ताफलचयो मङ्गलाक्षतविभ्रमम्॥
उदूढा तेन देवेन सा बभौ सलिलाप्लुता ॥ १९ ॥
गाढरागसमुत्पन्नस्वेदक्लिन्नतनूरिव ॥
इत्थमुद्धृत्य भगवान्महीं पातालमूलतः ॥ 2.1.36.२० ॥
सुदृढं स्थापयामास मध्येऽम्बुनिधिपाथसाम् ॥
तेनोद्धृतायां मेदिन्यां पूर्णं तद्भूनभोन्तरे ॥ २१ ॥
जलं तत्कृतमर्यादाऽव्यवच्छिन्नमभूत्तदा ॥
संस्थाप्य पृथिवीमित्थं तदीयाधारसिद्धये ॥ २२ ॥
दिग्गजानहिराजं च कमठं च न्यवेशयत् ॥
तेषामपि च सर्वेषामाधारत्वेन सादरम् ॥ २३ ॥
अव्यक्तरूपां स्वां शक्तिं युयोज च दयानिधिः ॥
ततो धरां समुद्धृत्य स्थितं किटितनुं हरिम् ॥ २४ ॥
तुष्टुवुः सनकाद्यास्तं जनलोकनिवासिनः ॥
तदा वराहवपुषमाराध्य पुरुषोत्तमम् ॥ २५ ॥
तदाज्ञया जगद्ब्रह्मा यथापूर्वमकल्पयत् ॥ २६ ॥
॥ अर्जुन उवाच ॥ ॥
कल्पान्तसलिले मग्ना कथं तिष्ठति भूरियम् ॥
सप्तपाताललोकाधः किमाधारा महामुने ॥ २७ ॥
कल्पकालः कियानेष स्यात्तद्वृत्तिश्च कीदृशी ॥ २८ ॥
॥ अथ कल्पवृत्तान्तवर्णनपूर्वकं श्वेतवराहावतारवर्णनम् ॥ ॥
एतद्विस्तार्य सकलं मम ब्रह्मन्मुने वद ॥ २९ ॥
॥ भरद्वाज उवाच ॥ ॥
विनाडिकानां षष्ट्या स्यान्नाडिकैका दिनं भवेत् ॥
तत्षष्ट्या दिवसास्त्रिंशन्मासः पक्षद्वयात्मकः ॥ 2.1.36.३० ॥
मासौ द्वावृतुरित्युक्तस्तैः षङ्भिर्वत्सरो भवेत् ॥
अयनद्वितयाकारः शीतवर्षोष्णसंश्रयः ॥ ३१ ॥
देवासुराणामन्योयमहोरात्रं विपर्ययात् ॥
उत्तरं दक्षिणे भानोरयने ते यथाक्रमम् ॥ ३२ ॥
मानुषाब्दैः खखव्योमखाक्षिपावकसागरैः ॥
महायुगं भवेत्पार्थ कृताद्याकारसंयुतम् ॥ ॥ ३३ ॥
सप्तत्या सैकया कालो युगानामन्तरं मनोः ॥
अस्मिञ्छ्वेतवराहाख्ये कल्पे जातान्मनूञ्छृणु ॥ ३४ ॥
स्वायम्भुवः स्यात्प्रथमस्ततः स्वारोचिषो मनुः ॥
उत्तमस्तामसाख्यश्च रैवतश्चाक्षुषाह्वयः ॥ ३५ ॥
एते गताः प्राङ्मनवः षट्सेन्द्रसुरतापसाः ॥
वैवस्वतो वर्ततेऽद्य सप्तमो मनुरर्जुन ॥ ३६ ॥
आदित्यवसुरुद्राद्यास्तत्काले देवतागणाः ॥
इष्ट्वाश्वमेधशतकं तेजस्वी प्राप शक्रताम् ॥ ३७ ॥
विश्वामित्रोऽहमत्रिश्च जमदग्निश्च कश्यपः ॥
वसिष्ठो गौतमश्चैव ते वै सप्तर्षयोऽर्जुन ॥ ३८ ॥
इक्ष्वाकुप्रमुखाः शूरा मनुपुत्रा महाबलाः ॥
अवनिं पालयामासुर्नित्यं धर्मपरायणाः ॥ ३९ ॥
सूर्यदक्षब्रह्मधर्मरुद्राणां पञ्च सूनवः ॥
सावर्णिरौच्यभौमाद्या भविष्यन्मनुसप्तकम् ॥ 2.1.36.४० ॥
चतुर्दश विधातुस्ते भवन्ति मनवोऽहनि ॥
तत्कल्पसञ्ज्ञं तस्यान्ते निशा स्यात्तत्समा शृणु ॥ ४१ ॥
दिनावसानसमये ब्रह्मणः पाण्डुनन्दन ॥
जायतेऽवग्रहो घोरः पृथिव्यां शतवार्षिकः ॥ ४२॥
तस्मिन्नवग्रहे पृथ्व्यां नीरसायां धनञ्जय ॥
चतुर्विधानि भूतानि समायान्ति परिक्षयम् ॥ ४३ ॥
तदा तप्तशिखाकारैरुपेतो घर्मदीधितिः ॥
मयूखैरग्निसदृशैर्वमद्भिः पावकच्छटाः ॥ ४४ ॥
विनष्टग्रामनगरशैलवृक्षादिकानना ॥
कूर्मपृष्ठोपमोर्वी स्यात्तप्तायःपिण्डसन्निभा ॥ ४५ ॥
ततो विधातुर्गात्रेभ्यः समुत्पन्ना महाघनाः ॥
आच्छादयन्तो गगनं गर्जितध्वानबन्धुराः ॥ ४६ ॥
सितपीतारुणश्यामाश्चित्रवर्णाश्च भीषणाः ॥
शैलेभसौधवृक्षादिनानारूपसमन्विताः ॥ ४७ ॥
ते शताब्दमितं कालं महावृष्टिं वितन्वते ॥
तेनाम्भसा शमं याति सूर्योद्भूतो महानलः ॥ ४८ ॥
भूयश्च शतवर्षाणि वर्षन्त्युग्रं महाघनाः ॥
तदम्भसा समुद्वेला विकृतिं यान्ति वार्द्धयः ॥ ४९ ॥
कल्पान्ताम्बुदनिर्मुक्तं लोकान्व्याप्नोति तज्जलम् ॥
भूर्भुवःस्वर्महर्लोकानावृणोति तमो महत् ॥
तदा निमग्ना सलिले मही पातालमूलगा ॥ 2.1.36.५० ॥
अनष्टा कथमप्यास्ते ब्रह्मशक्त्यवलम्बिता ॥
अथ निःश्वाससम्भूतो मारुतो ब्रह्मणोऽर्जुन ॥ ५१ ॥
उत्सारयति तान्सर्वान्कल्पान्तोत्थान्महाघनान् ॥
एवं प्रवृद्धः पवनः शतसंवत्सरात्मकम् ॥ ५२ ॥
कालं निरन्तरं वाति दुर्निवाररयोत्थितः ॥
तमुग्रमनिलं हित्वा हरेर्नाभिसरोरुहे ॥ ५३ ॥
योगनिद्रामवाप्नोति तस्मिन्पाथसि पद्मभूः ॥
योगनिद्रानुषक्तस्य याति तस्य जगद्विभोः ॥ ५४ ॥
तावती शर्वरी पार्थ दिनं यावत्प्रमाणकम् ॥
निशायां समतीतायामुत्थितो वेगवान्पुनः ॥ ५५ ॥
सृजप्यखिलजन्तून्वै पूर्ववच्छासनाद्धरेः ॥
कल्पेकल्पे समुचितै रूपैः पाति जगद्धरिः । ५६ ॥
अस्मिन्कल्पे श्वेतवर्णां प्राप्तवान्यज्ञपोत्रिताम्॥
वराहवपुषा देवो विहरन्नवनीतले ॥५७॥
स्वपूर्वनियतावासं प्रपेदे वेङ्कटाचलम् ॥
स्वामिपुष्करिणीतीरे चरंश्चिरमधोक्षजः॥५८॥
भक्त्या परमया युक्तमपश्यज्जलजासनम् ॥
सम्पूज्य प्रार्थयामास ब्रह्मा तं भूतभावनम् ॥ ५९ ॥
पुरातनीं निजां स्वामिन्भज दिव्यां तनूमिति ॥
गृहीत्वानुनयं तस्य त्यक्त्वा तां सूकराकृतिम् ॥ 2.1.36.६० ॥
अनन्यभजनीयां स्वां प्राप विश्वात्मिकां तनुम् ॥
तथास्थितं गिरौ तत्र कृत्वाप्युत्साहमूर्जितम् ॥॥ ६१ ॥
द्रष्टुं न शेकुः सर्वेऽपि कालेन बहुनापि च ॥ ६२ ॥
॥ अर्जुन उवाच ॥ ॥
दर्शनस्मरणादीनां हरिरित्थमगोचरः ॥
कथं प्रत्यक्षतां प्राप मानुषाणां महामुने ॥ ६३ ॥
भाग्यभूतोऽथ जगतां यः को वाऽऽराध्य तं विभुम् ॥
इह प्रकाशयामास कथामेतां निवेदय ॥ ६४ ॥
हरिकथाश्रवणं दुरितापहं कथयतां सकलागमविद्भवान् ॥
सुकृतिनां ननु सम्प्रति धुर्यता मुनिवरेण्य ममाद्य समागता ॥ ६५ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे श्रीवेङ्कटाचलमाहात्म्ये सुवर्णमुखरीमाहात्म्यप्रशंसायां वराहावतारकीर्तनं नाम षट्त्रिंशोऽध्यायः ॥ ३६ ॥