०३५ सृष्ट्यादिवर्णनम्

॥ अथ सुवर्णमुखर्या कल्यानदीसङ्गमः ॥
॥ भरद्वाज उवाच ॥ ॥
सुवर्णमुखरी तत्र सङ्गता मङ्गलप्रदा ॥
कल्यानाम नदी पुण्या कालिन्दी जाह्नवीमिव ॥ १ ॥
वृषभाचलसम्भूता तीर्थराजविराजिता ॥
नदीनामुत्तमा कल्या कलुषौघविनाशिनी ॥ २ ॥
नानातरुलताव्रातविभूषिततटद्वया ॥
मुनिसङ्घसुखावासा पुण्याश्रमसमुत्कटा ॥ ३ ॥
द्विजदत्तार्ध्यविलसत्कुशाक्षतलसत्तटा ॥
अप्सरःकुचकस्तूरीपङ्कक्षालनपङ्किला ॥ ४ ॥
दन्तावलकटच्योतन्मदाम्बुसुरभीकृता ॥
विप्रभूपालविततमखयूप शतावृता ॥ ५ ॥
अनाविलजलापूरतोषिताशेषमानवा ॥
एकैवालं परा कर्तुं महानद्योस्तु पातकम् ॥ ६ ॥
तयोः सङ्गतयोः स्तोतुं महिमानं क ईशते ॥
यत्र ब्रह्मशिलानाम सरिन्मध्ये च वर्तते ॥ ७ ॥
अगस्त्यतपसा पश्चाद्गया सान्निध्यमेति च ॥
नदीद्वयजले तत्र स्नाताः पुण्ये कुरूद्वह ॥८॥
मखानां पौण्डरीकाणां शतस्य फलमाप्नुयुः ॥
ब्रह्महत्यादिपापानि समायान्ति परिक्षयम् ॥ ९ ॥
तत्राभिषेकपूतानां नदीद्वितयसङ्गमे ॥
सङ्गता भवनाशिन्या कृष्णवेणीव पावनी ॥ 2.1.35.१० ॥
॥ अथ सुवर्णमुखरीतीरस्थितश्रीवेङ्कटाचलवर्णनम् ॥ ॥
राजते स्वर्णमुखरी कल्यया सङ्गता तदा ॥ ११ ॥
अथोदीच्यां महानद्या योजनार्द्धे विराजते ॥
योजनोत्सेधसहितो विख्यातो वेङ्कटाचलः ॥ १२ ॥
सर्वेषामेव तीर्थानामाश्रयोऽयं नगोत्तमः ॥
अञ्जनानन्तवृषभनीलकेसरिपोत्रिणः ॥ १३ ॥
एतान्युपवनान्यद्रेः स्युर्नारायणवेङ्कटौ॥
वराहवपुषा पूर्वं स्वीकृतत्वान्मधुद्विषा ॥॥ १४ ॥
वराहक्षेत्रमित्यार्यैः कीर्तितोऽयं महीधरः ॥
सुवर्णमुखरीतीरे विख्याते वेङ्कटाचले ॥ १५ ॥
निवसत्यच्युतो नित्यमब्धीन्द्रतनयान्वितः॥
तस्मिन्गिरौ श्रिया सार्द्धं वसन्ते वेङ्कटाधिपम्॥ १६॥
सेवन्ते सिद्धगन्धर्वमुनिमानवदानवाः॥
तस्मिन्विन्यस्तचित्तानां भक्तानां पुरुषोत्तमे॥ १७॥
वाञ्छितान्याशु सिध्यन्ति नश्यन्ति विपदोऽर्जुन ॥
ये स्मरन्ति जगन्नाथं वेङ्कटाद्रिनिवासिनम् ॥१८॥
निरस्तदोषास्ते यान्ति शाश्वतं पदमव्ययम् ॥१९॥
॥ ॥ अर्जुन उवाच ॥ ॥
वेङ्कटाद्रौ महापुण्ये सुरासुरनमस्कृतः ॥
कथं प्रादुरभूद्देवो भगवान्कमलापतिः ॥ 2.1.35.२० ॥
कस्य वा कृतिनस्तत्र प्रसन्नो निजमद्भुतम् ॥
रूपं प्रकाशयाञ्चक्रे भुक्तिमुक्तिफलप्रदम् ॥ २१ ॥
विष्णोर्देवादिदेवस्य महिमानं महामुने ॥
श्रोतुमिच्छामि तत्त्वेन तन्मे कथय विस्तरात् ॥ २२ ॥
॥ अथ श्रीवेङ्कटाचलवासिभगवद्वैभववर्णनम् ॥
॥ भरद्वाज उवाच ॥ ॥
शृणु वेङ्कटनाथस्य महिमानं समाहितः ॥
विस्तरेण समाख्यातुं ब्रह्मणापि न शक्यते ॥ २३ ॥
धन्योऽसि देवदेवस्य माहात्म्यं मधुविद्विषः ॥
यद्भक्तियुक्ताभूत्तात श्रोतुं मतिररिन्दम ॥ २४ ॥
कृतपुण्योऽस्म्यहं पार्थ सर्वभूतपतेर्हरेः ॥
पवित्राणि चरित्राणि स्तोष्यन्ते यन्मयाऽधुना ॥ २५ ॥
पुरा भागीरथीतीरे जनकाय महात्मने ॥
क्रतुदीक्षाप्रसक्ताय विशुद्धज्ञानशालिने ॥ २६ ॥
वामदेवेन कथितां कथां पापप्रणाशिनीम् ॥
कथयिष्यामि ते पार्थ विष्णुकीर्तनपावनीम् ॥ २७ ॥
सर्वेषामेव भूतानामाद्यो नारायणः प्रभुः ॥
जगन्मयो जगत्कर्ता चित्स्वरूपो निरञ्जनः ॥ ॥ २८ ॥
सहस्रशीर्षा भगवान्सहस्राक्षः सहस्रपात् ॥
यस्य भासा जगदिदं विभाति सचराचरम् ॥ २९ ॥
तस्मात्परतरं तेजस्तस्मात्परतरं तपः ॥
तस्मात्परतरं ज्ञानं योगस्तस्मात्परो न च ॥ 2.1.35.३० ॥
विद्या तस्मादपि परा नास्ति पार्थ नरर्षभ ॥
सर्वेष्वपि च भूतेषु सदा सन्निहितः प्रभुः ॥ ३१ ॥
सर्वाण्यपि च भूतानि तस्मिन्नेवासते सुखम् ॥
स एव यज्ञो यज्वा च साधनं स्रुक्स्रुवादिकम् ॥ ३२ ॥
फलं फलप्रदाता च तत्सम्प्राप्या गतिस्तथा ॥
वह्नौ प्रणीते पशुना प्रोक्षितेन प्रजुह्वति ॥
ये तं प्रयान्ति ते यान्ति गतिं तत्प्रतिपादिताम् ॥ ३३ ॥
कर्मबन्धं पशुं कृत्वा ज्ञानाग्नौ सम्प्रवर्तिते ॥
ये जुह्वते तमुद्दिश्य ते तत्सायुज्यभागिनः ॥ ३४ ॥
हरिः सदाशिवो ब्रह्मा महेन्द्रः परमः स्वराट् ॥
सर्वेश्वरस्य तस्यैते पर्यायाः परिकीर्तिताः ॥ ३५ ॥
ममाहितोऽनुसन्धत्ते य इदं परमात्मनः ॥
नारायणस्य माहात्म्यं स न याति पुनर्भवम् ॥ ३६ ॥
चिदानन्दमयः साक्षी निर्गुणो निरुपाधिकः ॥
नित्योऽपि भजते तान्तामवस्थां स यदृच्छया ॥ ३७ ॥
पवित्राणां पवित्रं यो ह्यगतीनां परा गतिः ॥
दैवतं देवतानां च श्रेयसां श्रेय उत्तमम् ॥ ३८ ॥
बोध्यानां बोध्य एकोऽसौ ध्येयानां ध्येय उत्तमः ॥
विनयानां समधिको विनयो नयसंयुतः ॥ ३९ ॥
तेजसां जनकं तेजः प्रकृष्टं तपसां तपः ॥
आधारः सर्वभूतानामनाद्यन्तो जनार्दनः ॥ 2.1.35.४० ॥
तस्येदं भावविज्ञाने मूढा ब्रह्मादयोऽपि च ॥
अजो गृह्णाति जननं सर्वात्मा हन्ति विद्विषः ॥ ४१ ॥
स्वतन्त्रोऽपि स्वभक्तानां परतन्त्रः प्रवर्तते ॥
स साक्षी कर्मणां देवः सर्वज्ञो गरुडध्वजः ॥ ४२ ॥
तस्य स्वरूपं मुनयो मृगयन्ते समाहिताः ॥
सङ्कर्षणो वासुदेवः प्रद्युम्नश्च तथा पुनः ॥ ४३ ॥
अनिरुद्ध इति ख्यातं तन्मूर्तीनां चतुष्टयम् ॥
कीर्तितः प्रणवः पश्चाद्धृदयं तस्य भास्वरम् ॥ ४४ ॥
भगवान्वासुदेवश्च मन्त्रोऽयं तत्प्रकाशकः ॥ ४५ ॥
मन्त्रराजमिमं नित्यं प्रजपेद्यः समाहितः ॥
स विष्णोः करुणायोगात्सिद्धीनां भाजनं भवेत् ॥ ४६ ॥
॥ अथ भगवत्कृतभूतसृष्ट्यादिवर्णनम् ॥ ॥
आपन्निवारकः सम्पत्प्रापको भुक्तिमुक्तिदः ॥
यथा ससर्ज भूतानि कल्पादावेव माधवः ॥ ४७ ॥
तत्सर्वं कथयिष्यामि समाहितमनाः शृणु ॥
तस्य चिन्तयतः सर्गं तेजोरूपं परं हरेः ॥ ४८ ॥
विरिञ्च इति विख्यातं राजसं गुणमाश्रितम् ॥
तस्य देवस्य वदनाच्छक्रो देवः सपावकः ॥
जज्ञे यश्च त्रिलोकेशः पाककर्मणि यः प्रभुः ॥ ४९ ॥
मनसश्चाभवच्चन्द्रः करुणानित्यशीतलात् ॥
अपां सर्वौषधीनां च विप्राणां रक्षकः सदा ॥ ॥ 2.1.35.५० ॥
नेत्राभ्यामुदभूत्सूर्यस्तस्य विश्वप्रकाशकः ॥
शीतोष्णवर्षकृत्कालकारणं तेजसां निधिः ॥ ५१ ॥
प्राणेभ्योऽस्य जगत्प्राणः समीरः समजायत ॥
धर्ता ग्रहर्क्षस्वर्गङ्गा विमानानां महाबलः ॥ ५२ ॥
नाभिदेशात्समुत्पन्नमन्तरिक्षं महात्मनः ॥
तस्यासीच्छिरसो व्योम भूतसम्भवकारणम् ॥ ५३ ॥
पादाम्बुजाभ्यामुदभूद्भूमिर्भूतगणाश्रया ॥
विनिःसृता दिशः सर्वाः श्रोत्राभ्यां परमात्मनः ॥ ५४ ॥
भूर्भुवाद्यास्तथा लोकाः स्मरणात्तस्य जज्ञिरे ॥
रसातलादिलोकाश्च यक्षरक्षोगणादयः ॥ ५५ ॥
मुखबाहूरुपादेभ्यो जनयामास स क्रमात् ॥
ब्राह्मणान्क्षत्त्रियान्वैश्याञ्छूद्रादींश्च कुरूद्वह ॥ ५६ ॥
छन्दांसि यज्ञस्तुरगा गावो मेषाविकादयः ॥
अतर्क्यप्रभवां तस्मादुत्पत्तिं प्रतिपेदिरे ॥ ५७ ॥
सङ्कल्पाद्देवदेवस्य तस्य स्थावरजङ्गमम् ॥
भूतजातमभूत्कालो भूतो भावी भवंस्तथा ॥ ५८ ॥
पिबत्यम्बु समुद्राणां बडवानलरूपधृक ॥
कल्पान्तकाले तत्सर्वं विसृजत्यात्मनि स्थितम् ॥ ५९ ॥
सञ्चारयति भूतानां वृत्तिं सूर्येन्दुरूपधृक् ॥
तमोनिरसनाच्चापि कालधर्मप्रवर्तनात् ॥ 2.1.35.६० ॥
जगन्ति कल्पविरमे विन्यस्य स्वोदरान्तरे ॥
लीलाबालाकृतिः शेते वटपत्रे महाम्बुधौ ॥ ६१ ॥
अथ चोदग्रभोगीन्द्रभोगतल्पे सुखोचिते ॥
योगनिद्रामवाप्नोति सद्वितीयोऽब्जवासया ॥ ६२ ॥
नाभिकासारसम्भूताज्जनयामास पङ्कजात् ॥ ६३ ॥
सर्वेषां जगतां नाथो विधातारं चतुर्मुखम् ॥ ६४ ॥
लीला ह्येषा मुकुन्दस्य स्वेच्छायोगप्रवर्तिनः ॥
विज्ञायते न केनाऽपि याथार्थ्येन स ईश्वरः ॥ ६४ ॥
यदा धर्मस्य हानिः स्यादधर्मो वर्धते यदा ॥
यदा वा महतीं पीडां भजन्ते देवतागणाः ॥ ६५ ॥
यदावलेपदुर्वारा यान्ति वृद्धिं सुरद्रुहः ॥
भूमेर्भूमिजनानां च यदोदेति महद्भयम् ॥ ६६ ॥
यदा वा निजभक्तानां साधूनामनिवारिता ॥
दुरन्तातङ्कजननी विपत्समुपजायते ॥ ६७ ॥
तदा तदनुरूपाणि रूपाण्यास्थाय कौतुकात् ॥
अधर्ममवधूयाशु कुरुते जगतो हितम् ॥ ६८ ॥
सृजति विधिसमाख्यो राजसेनात्मनाऽसौ वहति हरिसमाख्यः सत्त्वनिष्ठः प्रपञ्चम् ॥
हरति हरसमाख्यस्तामसीमेत्य वृत्तिं मधुमथनमहिम्नामस्ति वेत्ता न कोऽपि ॥ ६९ ॥
यज्ञाङ्गैः कृतसकलाङ्गसन्धिबन्धं वाराहं वपुरधिगम्य लोकनाथः ॥
शैलेऽस्मिन्नभजदसौ यथा निवासं तद्वक्ष्ये शृणु विबुधाधिनाथसूनो ॥ 2.1.35.७० ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे श्रीवेङ्कटाचलमाहात्म्ये सुवर्णमुखरीमाहात्म्ये विष्णुमाहात्म्यप्रस्तावे सृष्ट्यादिवर्णनन्नाम पञ्चत्रिंशोऽध्यायः ॥ ३५ ॥ ॥