॥ अथागस्त्यतीर्थागस्त्येश्वरयोः प्रभावः ॥
॥ अर्जुन उवाच ॥ ॥
श्रोत्राञ्जलिभ्यां पीत्वापि भवद्वाक्यामृतं मुहुः ॥
मनो नोपैति मे तृप्तिं भूयः श्रवणकाङ्क्षया ॥ १ ॥
क्रियासमभिहारो मे त्वद्वाक्याकर्णनैषिणः ॥
मनः खेदाय मा भूत्ते करुणाभरितात्मनः ॥ २ ॥
इदानीं श्रोतुमिच्छामि नद्यामस्यां महामुने ॥
कुत्र कुत्र समर्थानि तीर्थान्यघनिबर्हणे ॥ ३ ॥
काः काः पुण्यतरङ्गिण्यः सङ्गता अनया मुने ॥
कुत्र स्नानेन कृत्ताघा नोपयान्ति यमाद्भयम् ॥ ४ ॥
हराच्युतादिदेवानां पुण्यान्यायतनानि च ॥
यानियानि च पुण्यानि तिष्ठन्त्यस्यास्तटद्वये ॥॥ ५ ॥
तेषु क्षेत्रेषु मनुजैर्यत्फलं समवाप्यते ॥
विहितैर्विधिवत्स्नानदानादिशुभकर्मभिः ॥ ६ ॥
सोपाख्यानमिदं सर्वं वेदितं वेदवित्तम ॥
सञ्जाता महती प्रीतिर्विस्तार्याचक्ष्व मे क्रमात् ॥ ७ ॥
॥ भरद्वाज उवाच ॥ ॥
यत्पृष्टं भवता पार्थ क्रमाद्विस्तार्य कथ्यते ॥
आरभ्यागस्त्यतीर्थेन्द्रादस्यास्तीर्थौघवैभवम् ॥ ८ ॥
अखण्डज्ञानरूपेण सर्वलोकहितैषिणा ॥
सुरासुराणां सम्भाव्येनागस्त्येन महात्मना ॥ ९ ॥
वसुधामवतीर्णायां प्रथमं तद्धराधरात् ॥
स्नात्वा यत्र महानद्यां सम्प्राप्नोति कृतार्थताम् ॥ 2.1.34.१० ॥
अगस्त्यतीर्थमित्युक्तं पावनं तज्जगत्त्रये ॥
तत्र स्नानेन शुद्धिः स्यान्महापातकिनामपि ॥ ११ ॥
अनेकजन्माचरितमहापातकसंहतिम्म् ॥
निर दिवि मोदन्ते तत्र स्नानरता जनाः ॥ १२ ॥
ये तत्र तीर्थे यतिनः कृतस्नाना यतेन्द्रियाः ॥
गोभूतिलहिरण्यादिमहादानानि कुर्वते ॥ १३ ॥
ते प्राप्नुवन्ति सम्पूर्णं गङ्गाद्वारे समाहितैः ॥
विहितानां शतगुणं दानानां फलमर्जुन॥ ॥ १४ ॥
अत्रास्ति भगवानीशः ख्यातोऽगस्त्येशसञ्ज्ञया ॥
स्थापितोऽगस्त्यमुनिना लोकानन्दविधायिना ॥ १५ ॥
स्नात्वा तस्यां महानद्यां तल्लिङ्गं पूजयन्ति ये ॥
दशानामश्वमेधानां फलं सम्प्राप्नुवन्ति ते ॥ १६ ॥
॥ अथ सुवर्णमुखरीस्नानकालनिर्णयः ॥ ॥
धनूराशिं परित्यज्य यदा मकरमंशुमान्॥
विशेत्तदयनं पुण्यमुत्तरं परिकीर्तितम् ॥ १७ ॥
तस्मिन्दिने ये नियता नद्यां स्नात्वा समाहिताः ॥
पश्यन्ति पार्वतीनाथमगस्त्येशं सुरार्चितम् ॥ १८ ॥
अग्निष्टोमसहस्रस्य वाजपेयशतस्य च ॥
फलं सम्प्राप्य मोदन्ते दिवि देवगणार्चिताः ॥ १९ ॥
मृगसङ्क्रमवेलायां पुरुषैर्मङ्गलार्थिभिः ॥
अवश्यमेव कर्तव्यमगस्त्येशस्य दर्शनम् ॥ 2.1.34.२० ॥
॥ अथ देवर्षिपितृतीर्थमाहात्म्यम् ॥ ॥
ऐशान्यां तस्य तीर्थस्य देशे क्रोशमितेऽर्जुन ॥
अस्ति तीर्थत्रयं ख्यातं देवर्षिपितृनामभिः ॥ २१ ॥
देवर्षिपितरस्तत्र मुनिना तेन पूजिताः ॥
प्रददुर्हृष्टमनसः सर्वान्समभिवाञ्छितान्॥ २२ ॥
तदा देवर्षिपितृभिरिदं तीर्थत्रयं क्रमात् ॥
अस्मन्नामभिरीड्यं स्यादित्युक्तं तस्य सन्निधौ ॥ २३ ॥
तस्मिंस्तीर्थत्रये ये तु स्नात्वा विहिततर्पणाः ॥
ऋणत्रयविनिर्मुक्तास्ते यान्ति दिवमक्षयाम् ॥ २४ ॥
॥ अथ वेणासुवर्णमुखरीसङ्गमवर्णनम् ॥ ॥
ततः प्रागुत्तरक्षोण्यां योजनद्वयसीमनि ॥
प्राप्ता सुवर्णमुखरी वेणानाम महानदी ॥ २५ ॥
समुदग्ररयाघातनिपातिततटद्रुमा ॥
कुल्यानिर्गतवाःपूरसमाप्लावितकानना ॥ २६ ॥
उत्तुङ्गपुलिनोत्सङ्गखेलत्कोककुलाकुला ॥
अम्बुजामोदलोलालिमालालीलारवान्विता ॥ २७ ॥
अतिक्रम्य समुत्तुङ्गाननेकान्धरणीधरान्॥
प्रभूततोयरुचिरा सुवर्णमुखरीं गता ॥ २८ ॥
नदीद्वयव्यतिकरे कृतस्नाना यथाविधि ॥
दशानामश्वमेधानामखण्डं प्राप्नुयुः फलम् ॥ २९ ॥
सङ्गता वेणया पुण्या सुवर्णमुखरी नदी ॥
गिरिदुर्गममार्गेण ययावुत्तरवाहिनी ॥ 2.1.34.३० ॥
मध्यगेन महीध्राणां मार्गेण विषमेण सा ॥
गत्वा विरेजे तटिनी योजनानां चतुष्टयम्॥ ३१ ॥
पूर्वतस्तस्य देशस्य विषये सार्धयोजने ॥
उदक्कूले महानद्याः प्राग्वाहिन्या मनोहरे ॥ ३२ ॥
अगस्त्येश्वर नामास्ते ख्यातं लिङ्गं पुरद्विषः ॥
स्मरणं देवमर्त्यानां समस्ताघनिवारणम् ॥ ३३ ॥
तत्र स्नात्वा महानद्यां ये नरा नियतेन्द्रियाः ॥
पश्यन्ति पार्वतीनाथमगस्त्येन प्रतिष्ठितम् ॥ ३४ ॥
अनेकैः पूर्वजननैरर्जितं पापसञ्चयम् ॥
ते निरस्य सुरावासे मोदन्ते कालमक्षयम् ॥ ॥ ३५ ॥
ततः सोदङ्मुखी भूत्वा सुवर्णमुखरी ययौ ॥
योजनार्धमिदं देशं तीर्थसङ्घसमन्विता ॥ ३६ ॥
॥ अथ सुवर्णमुखर्या व्याघ्रपदाह्वय नदीसङ्गमः ॥ ॥
तस्मिन्देशे तु हिन्तालतालसालमनोरमे ॥
गता सुवर्णमुखरी नदी व्याघ्रपदाह्वया ॥ ३७ ॥
दुर्वारभूरिदुरितविनिवारणपेशला ॥
नीरन्धतीरवानीरवनमण्डलमण्डिता ॥ ३८ ॥
सिद्धगन्धर्वललना लीलागाहनशालिनी ॥
तपस्विकन्यानिःक्षिप्त बलिपुष्पविराजिता ॥ ॥ ३९ ॥
हंसकारण्डवक्रौञ्चकुलकोलाहलाकुला ॥
प्राक्प्रवाहा समागत्य शैलान्तरगताध्वना ॥ 2.1.34.४० ॥
सङ्गमे सरितोस्तत्र कृतस्नाना नरोत्तमाः ॥
समग्रमश्वमेधानां दशानाप्राप्नुयुः फलम् ॥ ४१ ॥
॥ अथ शङ्खतीर्थवर्णनम् ॥ ॥
तत्र व्याघ्रपदाख्यायास्तटे लोकमलापहे ॥
अनघं सर्वपापघ्नं शङ्खतीर्थं विराजते ॥ ४२ ॥
ब्रह्मर्षिनियतावासं सुरगन्धर्वसेवितम् ॥
दर्शनस्नानपानाद्यैरमितानन्ददायकम्॥ ४३ ॥
तत्रास्ते भगवानीशः शङ्खेशोनाम फाल्गुन ॥
शङ्खनाम्ना मुनीन्द्रेण लिङ्गरूपं प्रतिष्ठितम् ॥ ४४ ॥
ये तत्र तीर्थे सुस्नाताः पश्यन्ति वृषवाहनम् ॥
दशाश्वमेधजं पुण्यं लब्ध्वा यान्ति सुरालयम् ॥ ४५ ॥
युक्ता तया व्याघ्रपदाभिधानया गत्वा ततो योजनसम्मितां भुवम् ॥
ययौ मुनीन्द्रैर्वृषभाचलान्तिकं संसेव्यमाना शुभनिर्मलोदका ॥ ४६ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे श्रीवेङ्कटाचलमाहात्म्येऽगस्त्यतीर्थादिविविधतीर्थमाहात्म्यवर्णनन्नाम चतुस्त्रिंशोऽध्यायः ॥ ३४ ॥