॥ अथ सुवर्णमुखरीं प्रति शक्रादिस्तुतिः ॥
॥ भरद्वाज उवाच ॥
तदा दिव्यविमानस्थाः शक्रमुख्या दिवौकसः ॥
अगस्त्यमनुयान्तीं तामनुजग्मुर्महापगाम् ॥ १ ॥
नवावतारां तां दिव्यां सर्वे च मुनिपुङ्गवाः ॥
कृताञ्जलिपुटाः स्तोत्रैरनुयाताः सिषेविरे ॥ २ ॥
सिद्धचारणगन्धर्वाः सम्भृताश्च सहस्रश ॥
तां नदीं तं मुनीन्द्रं च प्रशशंसुः शुभैःस्तवैः ॥ ३ ॥
सुधोपमानममलं दिष्ट्या लब्धमिदं जलम् ॥
इत्यौत्सुक्यरसायत्ता ननन्दुर्धरणीजनाः ॥ ४ ॥
तदा निदेशाद्देवस्य पद्मयोनेः समीरणः ॥
शृण्वतां सर्वदेवानामिदं वचनमब्रवीत् ॥ ५ ॥
॥ अथ वायुकथितसुवर्णमुखरीनामनिष्पत्तिः ॥
॥ वायुरुवाच ॥ ॥
सुवर्णमिव लोकानां भागधेयादियं नदी ॥
नीता भुवमगस्त्येन मुखरीकृतदिङ्मुखा ॥ ६ ॥
तस्माद्यास्यति विख्यातिं सर्वलोकाभिनन्दिताम् ॥
सुवर्णमुखरी नाम्ना धाम्नि कैवल्यसम्पदः ॥ ७ ॥
एषा सुवर्णमुखरी सरित्सु सकलास्वपि ॥
विशिष्टा सेवनीया च ब्रह्मणो वचनं त्विदम् ॥ ८ ॥ ॥
अथागस्त्यकृतस्वानीतसुवर्णमुखरीमहिमानुवर्णनम् ॥
॥ भरद्वाज उवाच ॥ ॥
श्रुत्वेत्थं पवनेनोक्तं वचनं कुम्भसम्भवः ॥
तुतोष विस्मयाक्रान्तः स्वान्तःपुलकिताङ्गकः ॥ ९ ॥
एवमेषा दिव्यनदी स्नानपानादिकल्पनैः ॥
सौख्यावहा मनुष्याणां प्रतिष्ठामगमद्भुवि ॥॥ 2.1.33.१० ॥
आज्ञया पद्मगर्भस्य तटिन्याकाशवाहिनी। ॥
सुवर्णमुखरीनाम्ना पुनात्यात्मैकसंश्रयान् ॥ ११ ॥
बहून्गिरीन्द्रान्वनमण्डलं च देशाननेकान्सररिदुत्तमेयम् ॥
क्रमादतिक्रम्य निषेव्यमाणा महानदीभिर्गिरिसम्भवाभिः ॥ १२ ॥
रोगाहतानामधिकातुराणामनामयैकप्रतिपादकानि ॥
अन्तर्बहिः सम्भृतभूरितापनिवारणानि प्रियकारणानि ॥ १३ ॥
विहारलोलद्विरदप्रकाण्डशुण्डामहाघातरयोत्थितेन ॥
पुष्पोपहारं पृषतोत्करेण हर्षाद्ददातीव दिवाकरस्य ॥ १४ ॥
सौगन्धिकाम्भोरुहकैरवाणां सौरभ्यसंवासितदिङ्मुखानाम् ॥
द्विरेफभाग्यैकनिकेतनानामाधारभूतान्प्रतिनिर्मलानि ॥ १५ ॥
लीलावगाहोत्सुकनाकनारीसीमन्तसिन्दूररजोऽरुणानि ॥
तत्केशपाशच्युतपारिजातप्रसूनगन्धैरधिवासितानि ॥ १६ ॥
सा बिभ्रती सम्भृतमङ्गलानि स्वादून्यपङ्कान्यतिनिर्मलानि ॥
सुधोपमानानि सुरेन्द्रसूनोः पयांसि पापप्रतिघातुकानि ॥ १७ ॥
अगस्त्यशैलात्समवाप्तजन्मा नीता भुवं कुम्भसमुद्भवेन ॥
प्रशस्ततीर्थौघविराजमाना समाययौ दक्षिणवारिराशिम् ॥ १८ ॥
शीकराक्षतविन्यासै रत्नदीपार्पणैरपि ॥
प्रत्युद्ययुस्तामम्भोधेर्वीचयोऽभिमुखागताः ॥ १९ ॥
तरङ्गहस्तैरालिङ्ग्य सम्भाव्यैनां समागताम् ॥
चकार सरितां नाथः प्रियमाघोषभाषणैः ॥॥ 2.1.33.२० ॥
प्राप्तायामनुकूलायां तदा तस्यामपान्निधेः ॥
प्रहृष्टेन तरङ्गेण जीवनं ववृधेतराम् ॥ २१ ॥
इत्थं संसृज्य सरितमगस्त्यस्तामुदन्वता ॥
स्तुत्वा ययौ समामन्त्र्य कृतकृत्यो यदृच्छया ॥ २२ ॥
॥ अर्जुन उवाच ॥ ॥
त्वयैष कथितो ब्रह्मन्महानद्याः समुद्भवः ॥
अस्याः प्रभावं भगवन्निदानीं श्रोतुमुत्सहे ॥ २३ ॥
॥ अथ भरद्वाजवर्णितसुवर्णमुखरीमाहात्म्यम् ॥
॥ भरद्वाज उवाच ॥ ॥
अहो निवर्हणं सर्वश्रेयसामेककारणम् ॥
शृणु माहात्म्यमस्यास्ते कथयिष्यामि पाण्डव ॥ २४ ॥
पाश्चात्त्यं जन्म सम्प्राप्य ज्ञानिनां कर्मणः क्षये ॥
सुवर्णमुखरीस्नानं सिद्ध्येद्ब्रह्मत्वकारणम् ॥ २५ ॥
एतां सुवर्णमुखरीं योजनानां शतैरपि ॥
स्मृत्वा मनुष्यः पापेभ्यो मुच्यते नात्र संशयः ॥॥ २६ ॥
निःक्षिप्तमस्थि जन्तूनां सुवर्णमुखरीजले ॥
सोपानतां समायाति ब्रह्मलोकाधिरोहणे ॥ २७ ॥
स्मरन्तः स्वर्णमुखरीं यत्र कुत्रापि मानवाः ॥
तोयान्तरेषु स्नात्वापि लभन्ते फलमुत्तमम् ॥ २८ ॥
तावदेवाभिभूयन्ते नराः पातककोटिभिः॥
सुवर्णमुखरीस्नानं यावत्तल्लभ्यते शुभम् ॥ २९ ॥
दिव्यान्तरिक्षभौमानि तीर्थानि निजसिद्धये ॥
स्मरन्त्यहरहः प्रातः सुवर्णमुखरीं नदीम् ॥ 2.1.33.३० ॥
अगस्त्याचलसम्भूता दक्षिणोदधिगामिनी ॥
पापानि स्वर्णमुखरी स्मरणादेव नाशयेत् ॥ ३१ ॥
सुवर्णमुखरीस्नानलोलुपेनान्तरात्मना ॥
वाञ्छन्ति मर्त्यतामेव देवाः शक्रपुरोगमाः ॥ ३२ ॥
सुवर्णमुखरीतोयपुष्टसस्यान्नभोजिनः ॥
न लिप्यन्ते महापापैर्दुर्भोजनशतोद्भवैः ॥ ४३ ॥
अपि निष्कमितं पीतं सुवर्णमुखरीजलम् ॥
नाशयेदद्रितुल्यानि ह्याशु पापानि देहिनाम् ॥ ३४ ॥
प्राप्याऽपि मानुषं जन्म सुवणमुखरीजले ॥
ये वा स्नानं न कुर्वन्ति तेषां जन्म निरर्थकम् ॥ ३५ ॥
सुवर्णमुखरीस्नानं यदेकं विधिना कृतम् ॥
जाह्नवीस्नानकोटीनां समं भवति पर्वसु ॥ ३६ ॥
गोविन्द इव देवेषु नक्षत्रेष्विव चन्द्रमाः ॥
नरेष्विव महीपालो भूरुहेष्विव कल्पकः ॥ ३७ ॥
महाभूतेष्विव वियन्मायेवाखिलशक्तिषु ॥
गायत्रीव च मन्त्रेषु वज्रं देवायुधेष्विव ॥ ३८ ॥
तत्त्वेष्विवात्मनस्तत्त्वं रुद्राध्यायो यजुष्ष्विव ॥
अनन्त इव नागेषु हिमाचल इवाद्रिषु ॥ ३९ ॥
पोत्रिक्षेत्रमिव क्षेत्रेष्विन्द्रियेष्विव मानसम् ॥
नदीष्वपि च सर्वासु सुवर्णमुखरी वरा ॥ 2.1.33.४० ॥
नित्यं स्मरेन्नमस्कुर्यात्कीर्तयेन्मनसार्चयेत् ॥
शुद्धिक्षेम शिवापेक्षी सुवर्णमुखरीं शुभाम् ॥ ४१ ॥
अगस्त्याचलसम्भूतां दक्षिणोदधिगामिनीम् ॥
समस्तपापहन्त्रीं त्वां सुवर्णमुखरीं श्रये ॥ ४२ ॥
महापातकविप्लुष्टं गात्रं मम तवोदकैः ॥
क्षालयामि जगद्धात्रि श्रेयसा योजयस्व माम् ॥ ४३ ॥
इति सूक्तद्वयं सम्यगुच्चार्य नियतो नरः ॥
सुवर्णमुखरीतोये स्नात्वा शुद्धः प्रमोदते ॥ ४४ ॥
ब्रह्मणा निर्मिता पूर्वमगस्त्येन समाहृता ॥
स्वयं मन्दाकिनी मूर्ता सुवर्णमुखरी वरा ॥ ४५ ॥
एवम्प्रभावा दिव्येयं कीर्तनीया शुभार्थिभिः ॥
मनसा भक्तियुक्तेन स्नातव्या शुभकाङ्क्षिभिः ॥ ४६ ॥
सोमसूर्योपरागेषु स्नानदानादिकं कृतम् ॥
स्यादमेयफलं पार्थ सुवर्णमुखरीतटे ॥ ४७ ॥
सङ्क्रान्तावयने पुण्ये व्यतीपातेऽथ वासरे ॥
सुवर्णमुखरीस्नानं कुलकोटिं समुद्धरेत् ॥ ४८ ॥
जन्मर्क्षे जन्मदिवसे सुवर्णमुखरीजले ॥
स्नात्वा विधिवदाप्नोति क्षेमारोग्यसुखश्रियः ॥ ४९ ॥
दुःस्वप्नविघ्नजं भूतग्रहदुःस्थानजं तथा ॥
सुवर्णमुखरीतोये स्नात्वा तरति किल्बिषम् ॥ 2.1.33.५० ॥
सुवर्णमुखरीतीरे गोपादप्रमितां भुवम् ॥
दत्त्वा सर्वमहीदानाद्यत्फलं तदवाप्नुयात् ॥ ५१ ॥
धेनुं सवस्त्रालङ्कारां सुवर्णमुखरीतटे ॥
दत्त्वा विप्राय विधिवद्याति ब्रह्म सनातनम् ॥ ५२ ॥
पुण्यकालेषु दानानि विधेयान्यखिलान्यपि ॥
इहामुत्र फलप्राप्त्यै सुवर्णमुखरीतटे ॥ ५३ ॥
जपो होमस्तपो दानं पितृकर्म सुरार्चनम् ॥
कृतं भवेच्छतगुणं सुवर्णमुखरीतटे ॥ ५४ ॥
अन्यत्ते कथयिष्यामि विधेयं व्रतमुत्तमम् ॥
सुवर्णमुखरीतीरे प्रतिवर्षं सुखार्थिभिः ॥ ५५ ॥
मेघकाले रविकरैस्तिरोधानमुपागतः ॥
यदोदेति मुनिः श्रीमान्मित्रावरुणनन्दनः॥ ५६ ॥
तस्मिन्दिने ये नियताः स्नानमस्यां प्रकुर्वते ॥
तैः कल्पं च सुरावासे स्थीयते कुरुनन्दन ॥ ५७ ॥
तदागस्त्यस्य यद्रूपं सुवर्णेन विनिर्मितम् ॥
विधिना ददते पार्थ ते यान्ति ब्रह्म शाश्वतम् ॥ ५८ ॥
॥ अर्जुन उवाच ॥ ॥
विधिना केन कर्तव्यं व्रतमेतन्महामुने ॥
तन्ममाचक्ष्व सकलं जिज्ञासोस्तु महात्मनः ॥ ५९ ॥
॥ अथागस्त्यप्रतिमादानविधिः ॥
॥ भरद्वाज उवाच ॥ ॥
अगस्त्यस्योदयदिनं ज्ञात्वा नियतमानसः ॥
स्वशक्त्या कारयेद्रूपं तस्य हेम्ना महामुनेः ॥ 2.1.33.६० ॥
सुवर्णभास्वरच्छायं जटाबन्धमनोहरम् ॥
दधानं करपद्माभ्यामक्षमालां कमण्डलुम् ॥ ६१ ॥
वसानं मृदुलं वल्कं मृगचर्मोत्तरीयकम् ॥
सौम्यं भस्माङ्करुचिरं रुद्राक्षकृतभूषणम् ॥ ६२ ॥
एवं विधाय तद्रूपं स्नात्वा नियतमानसः ॥
आचार्यं गन्धपुष्पाद्यैरलङ्कृत्य यथाविधि ॥ ६३ ॥
शालेयतण्डुलानां तामाढकस्योपरि स्थिताम् ॥
वस्त्रद्वयसमायुक्तां प्रतिमां प्रतिपूजयेत् ॥ ६४ ॥
विन्ध्यसंस्तम्भनो वार्धिचुलकीकृतिपेशलः ॥
ब्रह्मादिसर्वदेवानां तेजसा सुप्रकाशितः ॥ ६५ ॥
अगस्त्यः कुम्भसम्भूतो देवासुरनमस्कृतः ॥
प्रीतिमाप्नोतु महतीं दानेनानेन मे प्रभुः ॥ ६६ ॥
इमं मन्त्रं समुच्चार्य धारापूर्वं सदक्षिणम् ॥
दत्त्वा विमुक्तः पापेभ्यो याति ब्रह्म सनातनम् ॥ ६७ ॥
जन्मान्तरकृतैर्नूनमिह जन्मकृतैरपि ॥
महापापोपपापौघैर्मुच्यते नात्र संशयः ॥ ६८ ॥
ब्रह्माद्याः सकला देवाः सनकाद्या महर्षयः ॥
चराचराणि भूतानि प्रीतिं यान्ति न संशयः ॥ ६९ ॥
कृत्वा व्रतमिदं पुण्यमगस्त्यस्य च सन्मुनेः ॥
प्रीत्यर्थं भोजयेद्विप्रान्यथाशक्ति सदक्षिणम् ॥ 2.1.33.७० ॥
तस्मिन्कर्मणि चाशक्तो यथाशक्ति महीसुरान् ॥
स्वर्णधान्यादिदानेन तोषयेद्भक्तिसंयुतः ॥ ७१ ॥
तिथिं न वितथीकुर्यात्तां यत्नेन समाचरेत् ॥
यत्किञ्चिदपि चावश्यं कर्म कुर्याच्च पूरुषः ॥ ७२ ॥
महामुनेरगस्त्यस्य परिपक्वं तपःफलम् ॥
नदी सुवर्णमुखरी कीर्तनीया सुरासुरैः ॥ ७३ ॥
एवं ते कथितः सम्यङ्महानद्याः समुद्भवः ॥
प्रभावश्च तदाचक्ष्व यद्भूयः श्रोतुमिच्छसि ॥ ७४ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे वेङ्कटाचलमाहात्म्ये सुवर्णमुखरीप्रभावप्रशंसानाम त्रयस्त्रिंशोऽध्यायः ॥ ३३ ॥