०३२ सुवर्णमुखर्याविर्भाववर्णनम्

॥ अथ नद्युत्पादनायागस्त्वं प्रति अशरीर्युक्तिः ॥
॥ भरद्वाज उवाच ॥ ॥
स कदाचिन्मुनिवरः कृतपौर्वाह्निकक्रियः ॥
विवेश देवतागारं समाराधयितुं शिवम्॥ १ ॥
अदृश्यरूपा वाग्देवी तत्राश्रावि महात्मना ॥
तेनाद्भुतोपपन्नेन व्यक्तवर्णसमुज्ज्वला ॥ २ ॥
आकाशवाण्युवाचैनमगस्त्यं जपतां वरम् ॥
नदीहीनो ह्ययं देशः प्रसिद्धोऽपि न शोभते ॥ ३ ॥
ज्ञानविज्ञानविमुखः साकार इव भूसुरः ॥
दीक्षेव दक्षिणाहीना ज्योत्स्नाहीनेव शर्वरी ॥ ४ ॥
न विभाति नदीहीना पृथ्वीयं भूसुरोत्तम ॥
प्रवर्तय नदीं काञ्चिल्लोकानां हितकाम्यया ॥ ५ ॥
अगाधदुरितोद्भूतभीतिमोचनशालिनीम् ॥
हितमेतत्सुरौघानामेतन्मुनिवरार्थितम् ॥ ६ ॥
भद्रमेतन्मनुष्याणामेतदाचर सुव्रत ॥
देवानामृषिवर्याणां भूजनानां हितावहाम् ॥ ७ ॥
पापपङ्कप्रशमनीं प्रवर्तय महानदीम् ॥ ८ ॥
॥ श्रीभरद्वाज उवाच ॥ ॥
तदाकर्ण्य वचो विप्रः क्षणं चिन्तापरायणः ॥
समाप्य देवतापूजां बहिर्वेद्यामुपाविशत् ॥ ९ ॥
आनाययामास तदा तदाश्रमगतान्मुनीन् ॥
तेषामकथयच्चासौ दिव्यवाणीरितं वचः ॥ 2.1.32.१० ॥
तदद्भुतमुपश्रुत्य मुनयो हृष्टमानसाः ॥ ११ ॥
अभिवन्द्य मुनिश्रेष्ठं मैत्रावरुणिमब्रुवन् ॥ १२ ॥
॥ अथ सुवर्णमुखर्युत्पादनायागस्त्यं प्रति महर्षिप्रार्थना ॥
॥ मुनय ऊचुः ॥ ॥
आश्चर्याणां महाश्चर्यं मङ्गलानां च मङ्गलम् ॥
तवैव शोभते दिव्यं त्वच्चरित्रं कृपानिधे ॥॥ १३ ॥
तव हुङ्कारमात्रेण भ्रष्टो देवाधिराज्यतः ॥
नहुषः कीटतां प्राप ततश्चित्रं न विद्यते ॥ १४ ॥
समावृतधराचक्रः कल्लोलाताडिताम्बरः ॥
किं न्वतो विद्यते चित्रं यदब्धिश्चुलकीकृतः ॥ १५ ॥
सूर्यमार्गनिरोधार्थं प्रवृत्तो विन्ध्यभूधरः ॥
त्वया प्रशान्तिं गमितः किं न्वतो विद्यते परम् ॥ १६ ॥
तवाद्भुतानि कर्माणि कः स्तोतुं प्रभवेद्भुवि ॥
मन्महाभाग्ययोगात्त्वं प्राप्तोऽसीति शरीरिताम् ॥ १७ ॥
वयं कृतार्थाः सञ्जातास्त्रैलोक्ये यन्महामुने ॥
निवसामोऽत्र भवता सनाथा ह्याश्रमस्थले ॥ १८ ॥
वर्ण्यो हि याम्यतो दूरे विषयोऽयं द्विजोत्तम ॥
समस्तवस्तुपूर्णोपि नदीहीनो न राजते ॥ १९ ॥
किमलब्धनदीस्नानेनाऽमुना हतजन्मना ॥
अनदीके जनपदे वासादजननं वरम् ॥ 2.1.32.२० ॥
परिपाकस्तु भाग्यानामस्माकं समुपस्थितः ॥
यदादिष्टोसि विबुधैः प्रवर्तय महानदीम् ॥ २१ ॥
प्रवर्तितायां देशेस्मिन्महानद्यां तवानघ ॥
कदा नु खलु यास्यामः कृतस्नाना कृतार्थताम् ॥ २२ ॥
किं वितर्केण बहुना प्रयत्नः क्रियतां धुवम् ॥
समानेतुं जगद्वन्द्यां शरण्यां सरिदुत्तमाम् ॥ २३ ॥ ॥
॥ श्रीभरद्वाज उवाच ॥ ॥
स तेषां वचनं हृद्यं मानयित्वा महाद्विजः ॥
समानेष्यामि सरितमिति चक्रे विनिश्चयम् ॥ २४ ॥ ॥
॥ अथ सुवर्णमुखर्याविर्भावायागस्त्यकृततपःप्रकारः ॥ ॥
मुनीश्वरैरनुज्ञातस्तानभ्यर्च्य सुरानपि ॥
विशेषपूजां विधिवद्विधाय पुरविद्विषः॥ २५ ॥
अङ्गीकृत्य व्रतं गाढं बहुलक्लेशदुःसहम् ॥
अनन्यसुलभं यत्नात्स चकार महत्तपः ॥ २६ ॥
घोरेषु घर्मदिवसेष्वन्तरस्थो हविर्भुजाम् ॥
चतुर्णां सवितृन्यस्तदृष्टिर्नापययौ क्लमम् ॥ २७ ॥
वार्षिकेषु दिनेषूग्रवायुसम्पातदुःसहैः ॥
आसारैस्ताड्यमानोऽपि नोद्वेगमगमद्धृदि ॥ २८ ॥
हेमन्ते समये तिष्ठन्कण्ठदघ्नेषु वारिषु ॥
जपध्यानपरो भूत्वा न किञ्चिद्विकृतिं ययौ ॥ २९ ॥
ततः समीहितार्थस्य विलम्बमवलोक्य सः ॥
पुनर्गाढतरां निष्ठां प्रपेदे लोकभीषणाम् ॥ 2.1.32.३० ॥
निगृह्य मानसीं वृत्तिं निराहारो जितेन्द्रियः ॥
अविज्ञातबहिर्वृत्तिस्तस्थौ पाषाणवत्तदा ॥ ३१ ॥
एवं तपस्यतस्तस्य सर्वाङ्गेषु हुताशनः ॥
अभ्रंलिहो ज्वलज्ज्योतिर्निश्चक्राम भयङ्करः ॥३२॥
ततोऽद्भुतशिखाजालैरावृताः सर्वतो दिशः ॥
समुदग्रभयोद्विग्ना जनौघाः परिचुक्रुशुः ॥ ३३ ॥
तदा तथाविधं घोरं जगत्सङ्क्षोभमागतम् ॥
देवा विज्ञापयामासुर्नमस्कृत्याब्जजन्मने ॥ ३४ ॥
॥ अथागस्त्याश्रमं प्रति चतुर्मुखागमनम् ॥ ॥
तानाश्वास्य ततो ब्रह्मा सिद्धगन्धर्वसेवितः ॥
प्रादुरासीत्कुम्भभुवः पुरोभागे तपस्यतः ॥ ३५ ॥
तमागतं समालोक्य ब्रह्माणं परमं द्विजः ॥
प्रणम्य विविधैः स्तोत्रैस्तोषयामास तन्मनाः ॥ ३६ ॥
ततस्तं विनयानम्रमगस्त्यं वीक्ष्य पद्मभूः ॥
प्रसादसुमुखो भूत्वा पूतां गिरमुपाददे ॥ ३७ ॥
॥ ब्रह्मोवाच ॥ ॥
परितुष्टोऽस्मि तपसा दुश्चरेण तवानघ ॥
वृणीष्व यद्यदिष्टं ते तत्तद्दास्यामि सुव्रत ॥ ३८ ॥
॥ अगस्त्य उवाच ॥ ॥
तव प्रसादात्सकलमुपपन्नं मम प्रभो ॥
सम्प्रयच्छसि चेत्कामं याचे निःशङ्कया धिया ॥ ३९ ॥
नदीहीनमिमं देशं दृष्ट्वा खिद्यति मे मनः ॥
अर्थाववोधरहितं श्रुतिपाठमिवाधिकम् ॥ 2.1.32.४० ॥
उर्वीं पावयितुं दक्षां रक्षितुं च महानदीम् ॥
प्रसादं कुरु देवेश ममेष्टमिदमेव हि ॥ ४१ ॥
॥ अथागस्त्यप्रार्थनया गङ्गां प्रति चतुर्मुखचोदना ॥
॥ श्रीभरद्वाज उवाच ॥ ॥
अगस्त्यस्य वचः श्रुत्वा भूयादेवमिति ब्रुवन् ॥
सस्मार मनसा ब्रह्मा सुरवर्त्माश्रयां नदीम् ॥ ४२ ॥
अथोपेत्य वियद्गङ्गा पुरस्तात्परमेष्ठिनः ॥
अतिष्ठन्मुकुटन्यस्तप्रशस्ताञ्जलिभासुरा ॥ ४३ ॥
स्वशासनात्समायातां विनयानतमस्तकाम् ॥
तां सर्वजगतां धात्रीमिदं वचनमब्रवीत् ॥ ४४ ॥ ॥
॥ ब्रह्मोवाच ॥ ॥
गङ्गे मयानुशास्यासि कार्ये लोकोपकारके ॥
तवापि लोकरक्षायां ममेव नियता स्थितिः ॥ ४५ ॥
देशे नदीविहीनेऽत्र प्रवर्तयितुमापगाम् ॥
हितार्थं सर्वलोकानां कुम्भजन्मा समीहते ॥ ४६ ॥
तस्मात्त्वमवतीर्योर्वीं स्वांशेनैकेन भूजनान् ॥
पुनीहि गच्छ वसुधामेतद्दर्शितवर्त्मना॥ ४७ ॥
भूलोके सम्प्रवृत्ते तु प्रवाहे सिद्धिकाङ्क्षिणः ॥
सेविष्यन्ते सुरवरा मुनिवर्याश्च सन्ततम् ॥ ४८ ॥
नदीषूत्तमतां याहि त्राहि त्वत्संश्रयाञ्जनान् ॥
कुरु प्रियमगस्त्यस्य गच्छ भद्रे यथासुखम् ॥ ४९ ॥
॥ भरद्वाज उवाच ॥ ॥
इत्युक्त्वान्तर्दधे ब्रह्मा तया नद्या च तेन च ॥
प्रणामपूजनस्तोत्रैर्विशेषैरभिनन्दितः ॥ 2.1.32.५० ॥
॥ अथागस्त्यसमीपे स्वांशत्वेन गङ्गाकृतनद्युत्पत्त्यभ्युपगमः ॥ ॥
अथ गङ्गा मुनिपतेः पुरस्तात्स्वांशसम्भवाम् ॥
दिव्यतेजोमयीं मूर्तिं दर्शयित्वा वचोऽब्रवीत् ॥ ५१ ॥
॥ गङ्गोवाच ॥ ॥
मदीयांशोऽयमवनीं सम्प्राप्य मुनिवल्लभ ॥
पूरयिष्यति तेऽभीष्टं नदीरूपं समाश्रितः ॥ ५२ ॥
॥ भरद्वाज उवाच ॥ ॥
इत्युक्त्वा सिद्धवाहिन्यां गतायां तत्प्रयुक्तया ॥
गन्तव्यं वर्त्मना केनेत्युक्तो मुनिरुवाच ताम् ॥ ५३ ॥
॥ अगस्त्य उवाच ॥ ॥
गच्छन्पुरस्तात्कल्याणि त्वदीयगमनोचितम् ॥
अहं प्रदर्शयिष्यामि मार्गं त्वं मामनुव्रज ॥ ५४ ॥
इत्युक्ता मुनिना तेन सम्प्रहृष्टा तवानघ ॥
यदिष्टं तत्करिष्येऽहमिति प्रोवाच सा शुभा ॥ ५५ ॥
अथ मुनिरवतार्य तां नगेन्द्राद्धृततटिनीतनुमभ्रसङ्गिशृङ्गात् ॥
मुदिततरमना ययौ पुरस्तात्तदभिमतां पदवीं प्रदर्शयन्सः ॥ ५६ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे श्रीवेङ्कटाचलमाहात्म्ये श्रीसुवर्णमुखरीमाहात्म्यप्रशंसायां सुवर्णमुखर्याविर्भाववर्णनन्नाम द्वात्रिंशोऽध्यायः ॥ ३२ ॥