०३० भरद्वाजाश्रमवर्णनम्

॥ अथ सुवर्णमुखरीवर्णनम् ॥
॥ सूत उवाच ॥ ॥
तथा सर्वाणि तीर्थानि समालोक्यागतस्य च ॥
मुदं प्रगुणयाञ्चके सा पार्थस्य महापगा ॥ १ ॥
यस्यास्तटनिकुञ्जेषु मोदन्ते वनिताः सुखाः ॥
सिद्धाः संसेविता वातैः शीकरासारशीतलैः ॥॥ २ ॥
या समुद्यतहस्तेव गङ्गामाकाशवाहिनीम् ॥
आलिङ्गितुं समुत्तुङ्गैः कल्लोलैरभ्रसङ्गिभिः ॥ ३ ॥
धूमैराहुतिसम्भूतैस्तरुशाखोपलम्भिभिः ॥
वल्कलैश्च विराजन्ते यत्तटाश्रमभूमयः ॥ ४ ॥
मुनीन्द्रैः सुरवर्यैश्च स्थापितानि समन्ततः ॥
यत्तटद्वितये भान्ति दिव्यलिङ्गानि शूलिनः ॥ ५ ॥
यदीयसैकतावासविश्रान्ता मानसं सरः ॥
न स्मरन्ति निजावासं मराला विहगोत्तमाः ॥ ६ ॥
शमितावग्रहातङ्कैः कुल्यामुखविनिर्गतैः ॥
पुष्णाति तोयैः सस्यानि लोकरक्षाक्षमाणि या ॥ ७ ॥
चक्रवाककुचोत्तुङ्गवीचिवल्लीविभूषिता ॥
आवर्तनाभिविलसत्सैकतश्रोणि मण्डला ॥ ८ ॥
प्रफुल्लपद्मवदना चलन्मीनयुगेक्षणा ॥
विलसत्फेनवसना हंसयानमनोहरा ॥ ९ ॥
जलपक्षिरवालापा नयनानन्दकारिणी ॥
अपूर्वकामिनीरूपा या विभात्यम्बुधिप्रिया ॥ 2.1.30.१० ॥
रोधस्यन्तरवाहिन्या नद्याः प्राच्यां धनञ्जयः ॥
ददर्श शैलमुत्तुङ्गं कालहस्तिसमाहयम् ॥११॥
उदग्रशिखराभोगोल्लिखिताकाशमण्डलम् ॥
सप्तपातालमूलाधोरूढमूलोपलाञ्चितम् ॥ १२ ॥
॥ अथ अर्जुनस्य स्वर्णमुखरीतीरस्थकालहस्तीश्वरादिसेवाप्राप्तिः ॥ ॥
स्नात्वा तस्यां महानद्यां तस्मिञ्छैले सुरार्चितम् ॥
अपश्यदर्जुनो देवं कालहस्तीशनामकम् ॥ १३ ॥
सम्पूज्य च महादेवं नगेन्द्रतनयासखम् ॥
मनसा भक्तियुक्तेन कृतार्थत्वमुपेयिवान् ॥ १४ ॥
ततो महागिरौ तस्मिन्नद्भुतैकनिकेतने ॥
चचाराभूतपूर्वाणां विशेषाणां दिदृक्षया ॥ १५ ॥
सिद्धानालोकयामास वसतो गिरिसानुषु ॥
गायतो देवदेवस्य चरित्राण्यबलायुतान् ॥ १६ ॥
अप्सरोललनाजुष्टान्पुष्पासवमदाकुलान् ॥
निकुञ्जेषु समासीनान्गन्धर्वानैक्षतादरात् ॥ १७ ॥
विविक्तेषु प्रदेशेषु शिवध्यानपरायणान् ॥
अपश्यद्योगिनो दिव्यानादरानन्दशालिनः ॥ १८ ॥
प्रशान्तान्याश्रमपदान्यवैक्षत समन्ततः ॥
बलिनीवारविलसद्द्वारभूमीश्च पाण्डवः ॥ १९ ॥
निराहारान्वायुभुजः पर्णादानातपाशनान् ॥
शान्तानालोकयामास मुनीन्नियमितेन्द्रियान् ॥ 2.1.30.२० ॥
मुदं वितेनिरे तस्य नेत्रयोः कमलाकराः॥
फुल्लसौगन्धिकामोदसंवासितदिगन्तराः ॥ २१ ॥
मृगयासम्भृतधियश्चरतोऽधिज्यकार्मुकान् ॥ २२ ॥
॥ अथाऽर्जुनस्य सुवर्णमुखरीतीरस्थभरद्वाजाश्रमगमनम् ॥ ॥
ददर्शान्वेषितमृगान्किरातान्वनितायुतान् ॥
ततो दक्षिणदिग्भागे चरन्नद्रेर्मनोहरे ॥ २३ ॥
पुण्यमाश्रममद्राक्षीद्भरद्वाजस्य कौरवः ॥
कदलीनारिकेलाम्रकोलचम्पकचन्दनैः ॥ २४ ॥
तक्कोलाशोकहिन्तालतालकेतकिदाडिमैः ॥
जम्बूकदम्वकतकखदिरार्जुनपाटलैः ॥॥ २५ ॥
नागपुन्नागसरलदेवदारुकरञ्जकैः ॥
लवङ्गलुङ्गलवलीप्रियङ्गुतिलकैरपि ॥ २६ ॥
बिभीतश्रीफलाश्वत्थमधूकप्लक्षकेसरैः ॥
पूगजम्बीरनारङ्गनिम्बामलककौशिकैः ॥ २७ ॥
अन्यैश्च फलपुष्पाढ्यैः शोभितं धरणीरुहैः ॥
वासन्तीकुन्दजात्यादिलताभिः परिवेष्टितम् ॥ २८ ॥
अपूर्वसौरभाकृष्टभ्रमरीभिः समन्ततः ॥
चक्रवाकबकक्रौञ्चहंसकारण्डवाश्रयैः ॥ २९ ॥
सौगन्धिकोत्पलाम्भोजकैरवौघविराजितैः ॥
सरोभिरमृतस्यन्दिमधुरस्फारवारिभिः ॥ 2.1.30.३० ॥
समापादितलक्ष्मीकं कौतुकैकनिकेतनम् ॥
सिंहदन्तावलव्याघ्रतरक्षुरुरुरङ्कुभिः ॥ ३१ ॥
मृगैरन्यैः समाकीर्णमन्योऽन्यहितकारिभिः ॥
जितचैत्ररथोद्यानमधरीकृतनन्दनम् ॥ ३२ ॥
अतिवाङ्मनसोदारं परमानन्दकारणम् ॥
शिवागमानां दिव्यानामर्थजातमनुत्तमम् ॥ ३३ ॥
प्रकाशयन्ति शावानां यत्र मञ्जुगिरः शुकाः ॥
यस्मिन्हुताशनो दारधूमश्यामलितं नभः ॥ ३४ ॥
अकालजलदभ्रान्तिमातनोति शिखण्डिनाम् ॥
यस्मिन्विहारश्रान्तानां सिंहानां स्वेच्छयागताः ॥ ३५ ॥
निर्वापयन्ति गात्राणि करिणः करशीकरैः ॥
तदाश्रमपदं पश्यन्विस्मयाक्रान्तमानसः ॥ ३६ ॥
प्रभावं पाण्डुतनयः प्रशशम्स तपस्विनाम् ॥
निवार्य तत्र तत्रैव सकलाननुजीविनः ॥ ३७ ॥
॥ अथार्जुनकृतभरद्वाजसेवाक्रमः ॥ ॥
मित्रैर्विप्रवरैः सार्धं प्रविवेश तमाश्रमम् ॥
अग्रे ददर्श कौन्तेयः स्फुरत्पावकतेजसम् ॥ ३८ ॥
भरद्वाजं मुनिवरैरनेकैः परिवारितम् ॥
भस्मानुलिप्तसर्वाङ्गं मृगचर्मोत्तरीयकम् ॥ ३९ ॥
नववारिदसंवीतं कैलासमिव भास्वरम् ॥
जटाभिर्लम्बमानाभिर्भास्वन्तं स्वर्णकान्तिभिः ॥ 2.1.30.४० ॥
स्थिरविद्युल्लताकीर्णमिव शारदनीरदम् ॥
श्रुतिस्मृति पुराणार्थैरेकीभूय समागतैः ॥ ४१ ॥
अङ्गीकृतमिवाकारं दिव्यज्ञानशुभास्पदम् ॥
धृतिक्षान्तिदयातुष्टिशान्तिभिर्नित्यसेवितम् ॥ ४२ ॥
प्रियाभिरिव रक्ताभिरखण्डब्रह्मवर्चसम् ॥
उपगम्य शनैः पार्थस्तत्पादाम्बुजयोः पुरः ॥ ४३ ॥
चक्रे प्रणामं साष्टाङ्गं समालिङ्गितभूतलम् ॥ ४४ ॥
॥ अथार्जुनं प्रति भरद्वाजकृतातिथ्यप्रकारः॥
तमागतं पृथापुत्रमुत्थाप्य मुनिपुङ्गवः॥
आशीर्भिरेधयाञ्चक्रे प्रहर्षोत्फुल्लमानसः॥ ४५॥
सम्पूज्य च यथान्यायं तमर्घ्याद्यैः प्रियातिथिम्॥
विनिर्दिष्टासनासीनं समपृच्छदनामयम्॥४६॥
सम्माननमवाप्यास्मान्मुनेः पाण्डवमध्यमः॥
प्रियैर्वाक्यैर्मुनिपतेरकरोन्मनसो मुदम् ॥ ४७ ॥
सस्माराथ भरद्वाजः स्वर्धेनुं कामदोहिनीम् ॥
सा वितेनेऽतिमहतीं भक्ष्यभोज्यादिकल्पनाम् ॥ ४८ ॥
भुक्त्वा पार्थः सानुचरस्तमुपास्य तपोनिधिम् ॥
दिनशेषं कथालापकौतुकेनात्यवाहयत् ॥ ४९ ॥
ततः सायन्तनीं सन्ध्यामुपास्य हुतपावकः ॥
विप्रैरमात्यैः सहितो ययौ तस्य कुटीगृहान् ॥ 2.1.30.५० ॥
तत्रासीनो मुनिपतेराशीर्भिरभिनन्दितः ॥
आनन्द्यमानो मुमुदे तन्नदीशीतलानिलैः ॥ ५१ ॥
सम्प्रापिता केन भुवः प्रभूता कस्मान्महीध्रादधिकप्रभावा ॥
इति प्रभावं परिपृच्छ्य नद्याः श्रोतुं मुनीन्द्रान्मतिरस्य जज्ञे ॥ ५२ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे श्रीवेङ्कटाचलमाहात्म्ये सुवर्णमुखरीमाहात्म्यप्रशंसायां भरद्वाजाश्रमवर्णनन्नाम त्रिंशोऽध्यायः ॥ ३० ॥