०२९ अर्जुनतीर्थयात्रागमनवर्णनम्

॥ ऋषय ऊचुः ॥ ॥
तीर्थानामिह सर्वेषां प्रभावः कथितस्त्वया ॥
नदीनां पर्वतानां च क्षेत्राणां सरसामपि ॥ १ ॥
निदेशात्पद्मगर्भस्य सुवर्णमुखरी नदी ॥
नीता भुवमगस्त्येन व्याख्याता भवतानघ ॥ २ ॥
तदुत्पत्तिप्रभावं च तीर्थौघांस्तत्समाश्रयान् ॥
श्रोतुं सम्प्रीतिरुत्पन्ना तन्नो वक्तुं त्वमर्हसि ॥ ३ ॥
प्रणम्य शम्भुं नन्दीशं षडास्यं व्यासमेव च ॥
मुनिभिः प्रार्थितः सूतस्तदा वक्तुं प्रचक्रमे ॥ ४ ॥
॥ श्रीसूत उवाच ॥ ॥
साधु पृष्टं महाभाग भवद्भिर्मङ्गलावहम् ॥
आख्यानमेतदाम्नाय श्रवणोद्भूतसिद्धिदम् ॥ ५ ॥
शृणुतावहिता दिव्यां कथां कल्मषनाशिनीम् ॥
भरद्वाजेन कथितां पार्थाय कथयामि वः ॥ ६ ॥
अवाप्य द्रुपदात्प्राज्ञाद्याज्ञसेनीं पृथासुताः ॥
धृतराष्ट्रनिदेशेन जग्मुः करिपुरं शुभम् ॥ ७ ॥
भीष्मेण चाम्बिकेयेन तत्र सम्मानितास्तदा ॥
दुर्योधनादिभिः सार्द्धं न्यवसन्पञ्चवत्सरान् ॥ ८ ॥
ततोऽनुशिष्टो भीष्माद्यैर्धृतराष्ट्रो महायशाः ॥
सर्वेषां कुलवृद्धानां वासुदेवस्य चाग्रतः ॥ ९ ॥
प्रददौ पाण्डुपुत्रेभ्यस्तत्सेवाहृष्टमानसः ॥
सार्धराज्यं पुरवरं खाण्डवप्रस्थसञ्ज्ञिकम् ॥ 2.1.29.१० ॥
आमन्त्र्य पाण्डुतनया धृतराष्ट्रादिकान्कुरून् ॥
जग्मुस्तत्खाण्डवप्रस्थं पुरं कृष्णसमन्विताः । ११ ॥
इन्द्रप्रस्थाह्वये तत्र रक्षिते विश्वकर्मणा ॥
वसन्पुरेऽशिषत्पृथ्वीं सानुजो धर्मनन्दनः ॥१२॥
गते कृष्णे निजपुरं नारदस्यानुशासनात्॥
प्रतिज्ञां चक्रिरे पार्था धर्मज्ञा द्रौपदीं प्रति ॥ १३ ॥
॥ अथार्जुनतीर्थयात्रोपोद्धातः ॥ ॥
यथाक्रमेण सा कृष्णा वर्षमेकैकमादरात् ॥
एकैकस्य गृहे तिष्ठेत्प्रतिनिर्णयपूर्वकम् ॥ १४ ॥
यः पश्येत्तां परगृहे स्थितां पाञ्चालनन्दिनीम् ॥
तेनैकहायनमितं विधेयं तीर्थसेवनम् ॥ १५ ॥
एवं कृतप्रतिज्ञास्ते पाण्डुभूपालनन्दनाः ॥
व्यापारैर्लोङ्कसामान्यैर्निन्युः कालमतन्द्रिताः ॥ १६ ॥
अथ जानपदो विप्रो राजगेहाङ्गणे स्थितः ॥
चुक्रोश बहुधा धेनुर्हृता मे तस्करैरिति ॥ १७ ॥
समाश्वास्य च तं विप्रं प्रविवेश धनञ्जयः ॥
आयुधानि समानेतुं त्वरया शस्त्रमन्दिरम् ॥ १८ ॥
तत्रापश्यत्समासीनौ पाञ्चालीधर्मनन्दनौ ॥
जानन्नपि प्रतिज्ञां स धनुर्जग्राह सेषुधि ॥ १९ ॥
स गत्वा तस्करानाजौ निहत्य नृपनन्दनः ॥
निवर्त्य धेनुं तां तस्मै ददौ विप्राय सादरम् ॥ 2.1.29.२० ॥
अथ विज्ञापयामास फाल्गुनो धर्मनन्दनम् ॥
तीर्थयात्रा मया कार्या समयोल्लङ्घनादिति ॥ २१ ॥
अनुजस्य वचः श्रुत्वा सर्वधर्मविदां वरः ॥
उवाच वचनं धीरः सादरं धर्मनन्दनः ॥ २२ ॥
॥ युधिष्ठिर उवाच ॥ ॥
गवार्थं ब्राह्मणार्थं च यद्वदेदनृतं वचः ॥
यदाचरेदसत्कर्म तत्सत्यं तत्समञ्जसम् ॥ २३ ॥
ब्राह्मणार्थं गवार्थं च त्वया कर्मेदृशं कृतम् ॥
तदसद्भावमाप्नोति कथं कथय सुव्रत ॥ २४ ॥
प्रजापालनकृत्यस्य चोरोपेक्षणशिक्षणैः ॥
नूनं फलं भवेद्राज्ञो ब्रह्महत्याश्वमेधजम् ॥ २५ ॥
असाध्यान्वैरिणो ज्ञात्वाऽप्यवनीशो न भद्रभाक् ॥
स्वदेशोपप्लवकरास्तस्करा यद्यशिक्षिताः ॥ २६ ॥
अस्माकं भूभुजां लोकजालस्य च हितं हि यत् ॥
त्वयेदृशं कृतं कर्म नास्ति दोषो ह्यतस्तव ॥ २७ ॥
॥ श्रीसूत उवाच ॥ ॥
धर्मपुत्रस्य वचनमाकर्ण्य रचिताञ्जलिः ॥
पुनर्विज्ञापयामास धर्मनित्यो धनञ्जयः ॥॥ २८ ॥
॥ अर्जुन उवाच ॥ ॥
मैवं भूपाल वादीस्त्वं स्वप्रतिज्ञातिलङ्घनम् ॥
जानता धर्मसर्वस्वमुल्लसद्धर्ममूर्तिना ॥ २९ ॥
कृत्याकृत्यविदा दक्षेणात्मना प्राक्समीरिता ॥
नोल्लङ्घनीया सततं प्रतिज्ञा पुरुषेण हि ॥ 2.1.29.३० ॥
अशक्तानां गतिः सेयं यद्बन्धुगुरुवाक्यतः ॥
धर्मं त्यजन्ति समयं त्यक्ताः प्राक्स्वं समीरितम् ॥ ३१ ॥
कृपया तीर्थगमनादार्यो यदि निवर्तयेत् ॥
हतप्रतिज्ञं मां लोकाञ्जल्पतः को निवारयेत् ॥ ३२ ॥
ममापि तीर्थयात्रायां कौतुकोत्तरलं मनः ॥
कर्तव्यं च स्मृतं राजन्नारदादिष्टशासनम् ॥ ३३ ॥
तत्प्रसीद महाराज यत्तीर्थगमनोद्यमे ॥
सम्माननीयः प्रभुभिः समयो ह्यनुजीविनाम् ॥ ३४ ॥
तथेति भ्रातृभिः सार्द्धं कृतानुमतिरर्जुनः ॥
अग्रजं तोषयामास प्रणामप्रश्रयादिभिः ॥ ३५ ॥
यथार्हं भीमसेनादीन्भ्रातॄनामन्त्र्य पाण्डवः ॥
कृतस्वस्त्ययनो भव्यैर्निर्ययौ धरणीसुरैः ॥ ३६ ॥
पौराणिका ज्यौतिषिका भिषजो धरणीसुराः ॥
अनुजग्मुर्भृत्यगणाः शिल्पिनः सूतमागधाः ॥ ३७ ॥
युधिष्ठिराज्ञया तस्य भोगत्यागक्षमं धनम् ॥
गृहीत्वानुययुः स्निग्धाः सभ्याः कोशाधिकारिणः ॥ ३८ ॥
॥ अथ अर्जुनस्य गङ्गादितीर्थावगाहनपूर्वक सुवर्णमुखर्यागमनम् ॥ ॥
स राजपुत्रः प्रथमं प्राप्य भागीरथीं नदीम् ॥
गङ्गाद्वारं प्रयागं च सिषेवे काशिकामपि ॥ ३९ ॥
पश्यंस्तीर्थानि जाह्नव्यास्तत्तीरोपान्तवर्त्मना ॥
आससाद समुत्तुङ्गकल्लोलं दक्षिणोदधिम् ॥ 2.1.29.४० ॥
महानदीं महापुण्यां प्रसिद्धं पुरुषोत्तमम् ॥
सिंहाचलं च संवीक्ष्य प्राप्तवान्कृतकृत्यताम् ॥ ४१ ॥
ततो ददर्श कौन्तेयः पुण्यां गोदावरीं नदीम् ॥
समस्तदुरितव्रातशातनोत्तीर्णगौरवाम् ॥ ४२ ॥
कृताभिषेकस्तत्तोयैर्विधिवत्पाण्डुनन्दनः ॥
प्रमोदं विविधैर्दानैरकरोद्भूसुवर्णकैः ॥ ४३ ॥
नदीं मलापहाख्यां च दृष्ट्वा मोदं ययौ शुभम् ॥
ततः समाससादासौ कृष्णवेणीं सरिद्वराम् ॥ ४४ ॥
शिवस्य नियतावासं चतुर्द्वारसमन्वितम् ॥
नानातीर्थगणाकीर्णं श्रीपर्वतमवैक्षत ॥ ४५ ॥
नदीं पिनाकिनीं तीर्त्वा गत्वा देवर्षिसेवितम् ॥
नारायणप्रियावासमपश्यद्वेङ्कटाचलम् ॥ ४६ ॥
शृङ्गेऽस्य भूभृतस्तुङ्गे स्थितं लोकैकनायकम् ॥
अपूजयद्धरिं भक्त्या प्रसिद्धं शुभसिद्धये ॥ ४७ ॥
अवरुह्य वेङ्कटमहाद्रिशृङ्गतः स ददर्श सिद्धमुनिसङ्घसेविताम् ॥
कलशोद्भवेन मुनिना समाहृतां तटिनीं सुवर्णमुखरीसमाह्वयाम् ॥ ४८ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे श्रीवेङ्कटाचलमाहात्म्ये सुवर्णमुखरीमाहात्म्ये अर्जुनतीर्थयात्रागमनवर्णनन्नामैकोनत्रिंशोऽध्यायः ॥ २९ ॥