॥ अथ कटाहतीर्थमाहात्म्यम् ॥
॥ ऋषय ऊचुः ॥ ॥
सूत सर्वार्थतत्त्वज्ञ वेदवेदान्तपारग ॥
श्रीवेङ्कटाचले तीर्थं कटाहाख्यं सुपावनम् ॥ ॥१॥
श्रूयते तस्य माहात्म्यं घुष्यते च जगत्त्रये ॥
अस्माकमेतद्ब्रूहि त्वं कृपया व्यासशासित ॥ २ ॥
पुरा वै नारदः श्रीमान्ब्रह्मपुत्रो महानृषिः ॥
दृष्ट्वा वै नैमिषारण्यं सम्प्राप्तो द्विजसत्तमः ॥ ३ ॥
तदानीं ब्रह्मपुत्रं तमर्घ्यपाद्यादिभिः शुभैः ॥
पूजयित्वा यथान्यायं पवित्रे च कुशासने ॥ ॥ ४ ॥
सन्निवेश्य महाभक्त्या विनयानतकन्धराः ॥
प्रणम्य प्रार्थयामासुरिमे सर्वे महर्षयः ॥ ५ ॥
त्वां विना नारद श्रीमन्नस्माकं भुवनत्रये ॥
धर्मोपदेशकः कश्चिन्नास्ति नास्ति महर्षिषु ॥ ६ ॥
वेङ्कटाद्रौ महापुण्ये सर्वदेवनिषेविते॥
वैकुण्डादागते दिव्ये सिद्धगन्धर्वसेविते ॥ ७ ॥
कटाहतीर्थमाहात्म्यं वर्णयाद्य वनौकसाम् ॥ ८ ॥
॥ श्रीनारद उवाच ॥ ॥
शृणुध्वमृषयः सर्वे शौनकाद्या महौजसः ॥
कटाहतीर्थमाहात्म्यं को वेत्ति भुवनत्रये ॥ ९ ॥
महादेवो विजानाति तस्य तीर्थस्य वैभवम् ॥
यानि कानि च पुण्यानि ब्रह्माण्डान्तर्गतानि वै ॥ 2.1.28.१० ॥
तानि गङ्गादितीर्थानि स्वपापपरिशुद्धये ॥
कटाहतीर्थसेवां च कुर्वन्ति द्विजसत्तमाः ॥ ११ ॥
ब्राह्मणाः क्षत्त्रिया वैश्याः शूद्राश्चेतरजातयः ॥
स्पृशन्ति तज्जलमिति न पिबेद्यो विमूढधीः ॥ १२ ॥
स हि चण्डालतां प्राप्य कुम्भीपाके पतिष्यति ॥
ब्रह्मचारी गृहस्थो वा वानप्रस्थो यतीश्वरः ॥ १३ ॥
सेवया तस्य तीर्थस्य प्राप्नोति परमं पदम् ॥
श्रुतिस्मृतिपुराणेषु तत्तीर्थस्य प्रशंसनम् ॥ १४ ॥
बहुधा वर्ण्यते पञ्चमहापातकनाशनम् ॥
अत्यद्भुततरं विप्राः सर्वलोकैकपावनम् ॥ १५ ॥
ब्रह्महत्यायुतं चापि सुरापानायुतं तथा ॥
अयुतं गुरुदाराणां गमनं पापकारणम् ॥ १६ ॥
स्तेयायुतं सुवर्णानां तत्संसर्गाश्च कोटयः ॥
शीघ्रं विलयमायान्ति तस्य तीर्थस्य सेवया ॥ १७ ॥
यानि निष्कृतिहीनानि पापानि विविधानि च ॥
तानि सर्वाणि नश्यन्ति तीर्थस्यास्य निषेवणात् ॥ १८ ॥
इदं तीर्थं महापुण्यं भगवत्पादनिस्सृतम् ॥
कुष्ठादिरोगयुक्तो यः प्रत्यहं च पिबेदिदम् ॥ १९ ॥ ॥
॥ अथ कटाहतीर्थमहिमश्रद्धाशून्यानां महानरकप्राप्तिः ॥ ॥
सोऽपि रोगविहीनः सन्विष्णुलोकं च गच्छति ॥
भगवाञ्छङ्करो देवो रहस्यानुभवे पुरा ॥ 2.1.28.२० ॥
पार्वत्यै कथयामास तस्य तीर्थस्य वैभवम् ॥
उक्तेष्वेतेषु सन्देहो न कर्तव्यः कदाचन ॥ २१ ॥
अर्थवादोऽयमिति च न वक्तव्यं कदाचन ॥
येऽर्थवादमिदं ब्रूयुस्तेषां वै नास्तिकात्मनाम् ॥ २२ ॥
जिह्वाग्रे परशुं तप्तं प्रक्षिपन्ति च किङ्कराः ॥
तस्मात्कटाहतीर्थं तु सेवनीयं प्रयत्नतः ॥२३॥
सर्वदुःखप्रशमनमपवर्गफलप्रदम् ॥
यत्र पीत्वा नरो भक्त्या सर्वान्कामानवाप्नुयात्॥२४॥
एवमुक्त्वा महाभागः काशीं त्रैलोक्यपावनीम् ॥
सम्प्राप्तो नारदः श्रीमान्सूत पौराणिकोत्तम ॥ २५ ॥
सङ्क्षेपतश्च भगवान्नैमिषे ह्युक्तवान्खलु ॥
इदानीं श्रोतुमिच्छामः कटाहस्य च वैभवम् ॥ २६ ॥
सुविस्तरेण चास्माकं वद सूत कृपावशात् ॥ २७ ॥
॥ अथ कटाहतीर्थपानक्रमः ॥
॥ श्रीसूत उवाच ॥ ॥
भोभोस्तपोधनाः सर्वे नैमिषारण्यवासिनः ॥
कटाहतीर्थमाहात्म्यं शृणुध्वं द्विजसत्तमाः ॥ २८ ॥
कटाहतीर्थं भो विप्राः सर्व लोकेषु विश्रुतम् ॥
सर्वसम्पत्करं शुद्धं सर्वपापप्रणाशनम् ॥ २९ ॥
दुःस्वप्ननाशनं ह्येतन्महापातकनाशनम् ॥
महाविघ्नप्रशमनं महाशान्तिकरं नृणाम् ॥ 2.1.28.३० ॥
स्मृतिमात्रेण यत्पुंसां सर्वपापनिषूदनम् ॥
मन्त्रेणाष्टाक्षरेणैव पिबेत्तीर्थं मनोहरम् ॥ ३१ ॥
अथवा केशवाद्यैश्च नामभिर्वा पिबेज्जलम् ॥
यद्वा नामत्रयेणाऽपि पिबेत्तीर्थं शुभप्रदम् ॥ ३२ ॥
आहोस्विद्वेङ्कटेशस्य मन्त्रेणाष्टाक्षरेण वै ॥
पिबेत्कटाहतीर्थं तद्भुक्तिमुक्तिप्रदायकम् ॥ ३३ ॥
विना मन्त्रेण यो विप्रः सम्पिबेत्तीर्थमुत्तमम् ॥
पापं मे नाशय क्षिप्रं जन्मान्तरकृतं महत् ॥ ३४ ॥
इत्युक्त्वा स पिबेन्नित्यं मोक्षमार्गैकसाधनम् ॥
स्वामिपुष्करिणीस्नानं वराहश्रीशदर्शनम् ॥ ३५ ॥
कटाहतीर्थपानं च त्रयं त्रैलोक्यदुर्लभम् ॥
बहुना किमिहोक्तेन ब्रह्महत्यादिनाशनम् ॥ ३६ ॥
॥ अथ केशवाख्यद्विजवृत्तान्तः ॥ ॥
पुरा कश्चिद्द्विजो मोहात्केशवाख्यो बहुश्रुतम् ॥
हत्वा खड्गेन दुर्बुद्ध्या ब्रह्महत्यामवाप्तवान् ॥ ३७ ॥
सोऽपि तस्मिन्महातीर्थे पीत्वा जलमनुत्तमम् ॥
केशवाख्यो महापापी विमुक्तो ब्रह्महत्यया ॥ ३८ ॥
॥ ऋषय ऊचुः ॥ ॥
कस्य पुत्रः केशवाख्यः कथं प्राप्तो भयङ्करीम् ॥
ब्रह्महत्यामतिक्रूरामस्माकं वक्तुमर्हसि ॥ ३९ ॥
॥ श्रीसूत उवाच ॥ ॥
तुङ्गभद्रातटे रम्ये गन्धर्वैरुपसेविते ॥
अग्रहारो महानासीद्वेदाढ्य इति नामतः ॥ 2.1.28.४० ॥
तस्मिन्वेदपुरे रम्ये ब्राह्मणा वेदपारगाः ॥
शब्दशास्त्रपराः सर्वे ज्योतिःशास्त्रप्रवर्तकाः ॥ ४१ ॥
मीमांसातर्कशास्त्रज्ञाः सर्वे वेदान्तवादिनः ॥
धर्मशास्त्रेषु निरता अन्नदानपराः सदा ॥ ४२ ॥
पुत्रवन्तश्च ते सर्वे ह्यग्रहारे महाजनाः ॥
वेदाढयेऽप्यग्रहारे वै पद्मनाभ इति श्रुतः ॥ ४३ ॥
॥ अथ गणिकालम्पटस्य केशवद्विजस्य ब्रह्महत्याप्राप्तिक्रमः ॥ ॥
तस्य पुत्रः केशवाख्यः सर्वकर्मबहिष्कृतः ॥
मातरं पितरं त्यक्त्वा भार्यामपि पतिव्रताम् ॥ ४४ ॥
सर्वदा गणिकासक्तो वेश्यागारं विवेश ह ॥
दिनद्वये च तां वेश्यामनुभूय द्विजस्ततः ॥ ४५ ॥
निष्कद्वयं प्रदातव्यं हस्ते दत्त्वा गतः सुखम् ॥
वेश्यया चाधनस्त्यक्तस्तत्संयोगैकतत्परः ॥ ४६ ॥
इतस्ततश्चोरयित्वा बहुद्रव्याणि सन्ततम् ॥
दत्त्वा तया चिरं रेमे तद्गृहे बुभुजे च सः ॥ ४७ ॥
एकेन चषकेणासौ तया सह सुरां पपौ ॥
स कदाचित्किरातैस्तु द्रव्यं हर्तुं ययौ द्विजः ॥॥ ४८ ॥
विप्रस्य कस्यचिद्गेहे सोऽपि कैरातवेषधृक् ॥
केशवो विप्रबन्धुर्वै साहसी खङ्गहस्तवान् ॥ ४९ ॥
तद्गृहस्वामिनं विप्रं हत्वा खड्गेन साहसात् ॥
समादाय बहु द्रव्यं वेश्यागारं विवेश ह ॥ 2.1.28.५० ॥
तं यान्तमनुयाति स्म ब्रह्महत्या भयङ्करी ॥
नीलवस्त्रधरा भीमा भृशं रक्तशिरोरुहा ॥॥ ५१ ॥
गर्जन्ती साट्टहासं सा कम्पयन्ती च रोदसी ॥
अनुद्रुतस्तया विप्रो बभ्राम जगतीतले ॥ ५२ ॥
एवं भ्रमन्धरां सर्वां विप्रबन्धुर्दुरात्मवान् ॥
स्वग्रामं प्रययौ भीत्या शौनकाद्या महौजसः ॥ ५३ ॥
अनुद्रुतस्तया भीतः प्रययौ स्वनिकेतनम्॥
ब्रह्महत्याप्यनुद्रुत्य तेन साकं गृहं ययौ ॥५४॥
जनकं रक्ष रक्षेति केशवः शरणं ययौ ॥
मा भैषीरिति स प्रोच्य पिता रक्षितुमुद्यतः ॥ ५५ ॥
॥ अथ स्वसुतरक्षणोद्युक्ते पद्मनाभे ब्रह्महत्योक्तिः ॥
क्रूरैनं ब्रह्महत्या सा जनकं प्रत्यभाषत ॥ ५६ ॥
॥ ब्रह्महत्योवाच ॥ ॥
मैनं त्वं प्रतिगृह्णीष्व पद्मनाभ द्विजोत्तम ॥
अयं सुरापी स्तेयी च ब्रह्महा चातिपातकी ॥ ५७ ॥
मातृद्रोही पितृद्रोही भार्यात्यागी च दुष्टधीः ॥
गणिकासक्तचित्तश्च ह्येनं मुञ्च दुरात्मकम् ॥ ५८ ॥
गृह्णासि चेत्सुतं विप्र महापातकिनं वृथा ॥
त्वद्भार्यामस्य भार्यां च त्वां च पुत्रमिमं द्विज ॥ ५९ ॥
भक्षयिष्यामि वंशं च तस्मान्मुञ्च दुरात्मकम् ॥
इमं त्यजसि चेत्पुत्रं युष्मान्मुञ्चामि साम्प्रतम् ॥ 2.1.28.६० ॥
नैकस्यार्थे कुलं हन्तुमर्हसि त्वं महामते ॥
इत्युक्तः स तया तत्र पद्मनाभोऽब्रवीच्च ताम् ॥ ६१ ॥ ॥
॥ पद्मनाभ उवाच ॥ ॥
बाधते मां सुतस्नेहः कथं पुत्रं परित्यजे ॥
ब्रह्महत्या तदाकर्ण्य पद्मनाभं तमब्रवीत् ॥ ६२ ॥
॥ ब्रह्महत्योवाच ॥ ॥
पुत्रोऽयं पतितोऽभूत्ते वर्णाश्रमबहिष्कृतः ॥
पुत्रेस्मिन्मा कुरु स्नेहं निन्दितं तस्य दर्शनम् ॥ ६३ ॥
इत्युक्त्वा ब्रह्महत्या सा पद्मनाभस्य पश्यतः ॥
हस्तेन प्रजहारास्य सुतं केशवनामकम् ॥ ६४ ॥
रुरोद ताततातेति जनकं प्रब्रुवन्मुहुः ॥
रुरुदुर्जनको माता भार्या तस्य दुरात्मनः ॥ ६५ ॥
॥ अथ पद्मनाभं प्रति भरद्वाजकथितो ब्रह्महत्याविमुक्त्युपायः ॥ ॥
तस्मिन्काले महाभागो भरद्वाजो महामुनिः ॥
दिष्ट्या समाययौ योगी शौनकाद्या महौजसः ॥ ६६ ॥
पद्मनाभोऽथ तं दृष्ट्वा भरद्वाजं महामुनिम् ॥
स्तुत्वा प्रणम्य शरणं ययाचे पुत्रकारणात् ॥ ६७ ॥
भरद्वाज महाभाग साक्षाद्विष्ण्वंशको भवान् ॥
त्वद्दर्शनमपुण्यानां भविता न कदाचन ॥ ६८ ॥
ब्रह्महा च सुरापी च स्तेयी चाभूत्सुतो मम ॥
पुत्रं प्रहर्तुमा याता ब्रह्महत्या भयङ्करी ॥ ६९ ॥
भूयाद्यथा मे पुत्रोयं महापातकमोचितः ॥
घोरेयं ब्रह्महत्या च यथा शीघ्रं लयं व्रजेत् ॥ 2.1.28.७० ॥
तमुपायं वदस्वाद्य मम पुत्रे दयां कुरु ॥
एक एव हि पुत्रो मे नान्योऽस्ति तनयो मुने ॥ ७१ ॥
सुते मृते तु वंशो मे समुच्छिद्येत मूलतः ॥
ततः पितृभ्यः पिण्डानां दाताऽपि न भवेद्ध्रुवम् ॥ ७२ ॥
ततः कृपां कुरुष्व त्वमस्मासु भगवन्मुने ॥
इत्युक्तः स भरद्वाजः साक्षान्नारायणांशकः ॥ ७३ ॥
ध्यात्वा तु सुचिरं कालं पद्मनाभं वचोऽब्रवीत् ॥ ७४ ॥
॥ भरद्वाज उवाच ॥ ॥
पद्मनाभ कृतं पापमतिक्रूरं सुतेन ते ॥
नास्य पापस्य शान्तिः स्यात्प्रायश्चित्तायुतैरपि ॥ ७५ ॥
तथाऽपि ते सुतस्याहमस्य पापस्य शान्तये ॥
प्रायश्चित्तं वदिष्यामि पद्मनाभ शृणु द्विज ॥ ७६ ॥
गङ्गाया दक्षिणे भागे द्विशतीयोजने द्विज ॥
पूर्वाम्भोधेः पश्चिमे तु पञ्चभिर्योजनैर्मिते ॥ ७७ ॥
सुवर्णमुखरीतीरे चोत्तरे क्रोशमात्रके ॥
वेङ्कटाद्रिति ख्यातः सर्वलोकनमस्कृतः ॥ ७८ ॥
मेरुपुत्रो महापुण्यः सर्वदेवाभिवन्दितः ॥
वैकुण्ठलोकादानीतो विष्णोः क्रीडाचलो महान् ॥ ७९ ॥
गरुत्मता वेगवता स्वर्णमुख्यास्तटे शुभे ॥
वर्तते देवसङ्घैश्च ऋषिसङ्घैश्च पूजितः ॥ 2.1.28.८० ॥
तस्मिन्वेङ्कटशैलेन्द्रे साक्षान्नारायणः स्वयम् ॥
लक्ष्मीदेव्या च भूदेव्या नीलादेव्या समागतः ॥ ८१ ॥
वर्तते वेङ्कटेशः स साक्षान्मोक्षप्रदायकः ॥
तस्य वेङ्कटनाथस्य ह्यालयस्य तथोत्तरे ॥ ८२ ॥
कटाहतीर्थं विप्रेन्द्र वर्तते मङ्गलप्रदम् ॥
ब्रह्महत्यादिपापघ्नं वाञ्छितार्थप्रदायकम् ॥ ८३ ॥
सुतेन साकं विप्रेन्द्र पिब तीर्थं मनोहरम् ॥
भरद्वाजस्य वाक्यं तच्छ्रुत्वा वै वेदसम्मितम् ॥ ८४ ॥
शिरसा तं प्रणम्याथ ययौ वेङ्कटपर्वतम् ॥ ॥ ८५ ॥
॥ अथ भरद्वाजोक्त्या कटाहतीर्थपानेन केशवस्य ब्रह्महत्याविमुक्तिः ॥ ॥
तं गत्वा वेङ्कटं शैलं स्वामिपुष्करिणीजले ॥
सुतेन साकं विप्रेन्द्रः सस्नौ नियमपूर्वकम् ॥ ८६ ॥
वराहस्वामिनं नत्वा श्रीनिवासालयं गतः ॥
प्रदक्षिणं ततः कृत्वा विमानं सम्प्रणम्य च ॥ ८७ ॥
पद्मनाभोऽथ पुत्रेण केशवेन दुरात्मना ॥
पपौ कटाहतीर्थं तद्ब्रह्महत्याविनाशकम् ॥ ८८ ॥
तदानीं ब्रह्महत्या सा शीघ्रमेव लयं गता ॥
अनन्तरं ततो गत्वा वेङ्कटेशं कृपानिधिम् ॥ ८९ ॥
पुत्रेण सह विप्रेन्द्रः पद्मनाभो ददर्श सः ॥
तदा प्रादुरभूद्देवो वेङ्कटेशो दयानिधिः ॥ 2.1.28.९० ॥
कटाहतीर्थपानेन तोषितो वाक्यमब्रवीत् ॥ ९१ ॥
॥ अथ ब्रह्महत्याविमुक्तसुतेन सहितं पद्मनाभं प्रति भगवदुक्तिः ॥
॥ श्रीभगवानुवाच ॥ ॥
पद्मनाभ महाबुद्धे वेदवेदान्तपारग ॥
भरद्वाजस्य वाक्येन प्राप्य वेङ्कटपर्वतम् ॥ ९२ ॥
कटाहतीर्थं त्वं पीत्वा कृतार्थोऽसि न संशयः ॥
तव पुत्रः केशवाख्यो विमुक्तो ब्रह्महत्यया ॥ ९३ ॥
तस्मात्कटाहतीर्थं तु सेवनीयं प्रयत्नतः ॥
तस्मिंस्तीर्थे महाभाग पीत्वा जलमनुत्तमम् ॥ ९४ ॥
पापिनोऽपि कृतार्थाः स्युः सत्यं सत्यं न संशयः ॥
मामकं लोकमागत्य सुखी भव महामते ॥ ९५ ॥
इत्युक्त्वा वेङ्कटेशोऽसावन्तर्धानं गतस्ततः ॥ ९६ ॥
॥ श्रीसूत उवाच ॥ ॥
तस्मात्तपोधनाः सर्वे शौनकाद्या महौजसः ॥
कटाहतीर्थमाहात्म्यमितिहाससमन्वितम् ॥ ९७ ॥
यथाश्रुतं मया सम्यक्तथोक्तं भवतां द्विजाः ॥ ९८ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे श्रीवेङ्कटाचलमाहात्म्ये सूतशौनक संवादे कटाहतीर्थप्रशंसनन्नामाष्टाविंशोऽध्यायः ॥ २८ ॥