अथ श्रीवेङ्कटाचलस्य सर्वपुण्यतीर्थाधारत्ववर्णनम् ॥
॥ ऋषय ऊचुः ॥ ॥
वेङ्कटाद्रौ महापुण्ये सर्वसङ्कटनाशने ॥
सन्ति वै कति तीर्थानि सूत पौराणिकोत्तम ॥ १ ॥
तेषां सङ्ख्यां च मे ब्रूहि कति मुख्यानि तत्र वै ॥
तत्राप्यत्यन्तमुख्यानि वद मे मुनिसत्तम ॥ २ ॥
सद्धर्मरतिदान्यत्र कति मुख्यानि तानि च ॥
कानि ज्ञानप्रदान्यत्र भक्तिवेराग्यदानि च ॥ ३ ॥
मुक्तिप्रदानि कान्यत्र तानि मे वद सुव्रत ॥ ४ ॥ ॥
॥ श्रीसूत उवाच ॥ ॥
षट्षष्टिकोटितीर्थानि पुण्यान्यत्र नगोत्तमे ॥
अष्टोत्तरसहस्राणि तेषु मुख्यानि सुव्रत ॥ ५ ॥
सद्धर्मरतिदान्यत्र सन्ति चाष्टोत्तरं शतम् ॥
सहस्रेभ्यश्च मुख्यानि पृथक्तेभ्यश्च तानि च ॥६॥
भक्तिवैराग्यदान्यत्र षष्टिरष्टोत्तरे शते ॥ ७ ॥
॥ अथ स्वामिपुष्करिण्यादिषट्तीर्थस्नानकालनिर्णयः ॥ ॥
मुक्तिदान्यत्र षट् चैव वेङ्कटाचलमूर्धनि ॥
स्वामिपुष्करिणी चैव वियद्गङ्गा ततः परम् ॥ ८ ॥
पश्चात्पापविनाशं च पाण्डुतीर्थमतःपरम् ॥
कुमारधारिकातीर्थं तुम्बोस्तीर्थमतः परम् ॥ ९ ॥
कुम्भमासे पौर्णमास्यां मघायोगो यदा भवेत् ॥
कुमारधारिकां यान्ति सर्वतीर्थानि हे द्विजाः ॥ 2.1.27.१० ॥
तत्र यः स्नाति विप्रेन्द्रा राजसूयफलं लभेत् ॥
मुक्तिश्च भविता तत्र नात्र कार्या विचारणा ॥ ११॥
अन्नदानविधिस्तत्र सार्धं दक्षिणयाऽ द्विजाः ॥
उत्तराफल्गुनीयुक्तशुक्लपक्षीयपर्वणि ॥ १२ ॥
तुम्बोस्तीर्थं मीनसंस्थे रवौ तीर्थानि सर्वशः ॥
अपराह्णे समायान्ति तत्र स्नातो न जायते॥१३॥
मौञ्जीबन्धं विवाहं च कारयेद्द्रव्यदानतः ॥
मेषसङ्क्रमणे भानौ चित्रानक्षत्रसंयुते ॥ ॥ १४ ॥
पौर्णमास्यां समायान्ति वियद्गङ्गां तथैव च ॥
तत्र स्नात्वा नरः सद्यः शतक्रतुफलं लभेत् ॥ १५॥
सुवर्णं तत्र दातव्यं कन्यादानं विशेषतः ॥
वृषभस्थे रवौ विप्रा द्वादश्यां हरिवासरे ॥ १६ ॥
शुक्ले वाप्यथ कृष्णे वा भौमेनापि समन्विते ॥
पाण्डुतीर्थं समायान्ति गङ्गादीनि जगत्त्रये ॥ १७ ॥
तत्र स्नात्वा च गां दत्त्वा मुच्यते प्रतिबन्धकात् ॥
आश्वयुक्छुक्लपक्षे च सप्तम्यां भानुवासरे ॥ १८ ॥
उत्तराषाढयुक्तायां तथा पापविनाशनम् ॥
उत्तराभाद्रयुक्तायां द्वादश्यां वा समागतः ॥ १९ ॥
शालग्रामशिलां दत्त्वा स्नात्वा च विधिपूर्वकम् ॥
मुच्यते सर्वपापैश्च जन्म कोटिशतोद्भवैः ॥ 2.1.27.२० ॥
धनुर्मासे सिते पक्षे द्वादश्यामरुणोदये ॥
आयान्ति सर्वतीर्थानि स्वामिपुष्करिणीजले ॥ २१ ॥
तत्र स्नात्वा नरः सद्यो मुक्तिमेति न संशयः ॥
यस्य जन्मसहस्रेषु पुण्यमेवार्जितं पुरा ॥ २२ ॥
तस्य स्नानं भवेद्विप्रा नान्यस्य त्वकृतात्मनः ॥
विभवानुगुणं दानं कार्यं तत्र यथाविधि॥ २३॥
शालिग्रामशिलादानं गां दद्याच्च विशेषतः॥ २४॥
॥ अथ पुराणश्रवणस्य विशेषतः प्राशस्त्यवर्णनम्॥ ॥
ये शृण्वन्ति कथां विष्णोः सदा भुवनपावनीम् ॥
ते वै मनुष्यलोकेऽस्मिन्विष्णुभक्ता भवन्ति हि॥२५॥
यद्यशक्तः सदा श्रोतुं कथां भुवनपावनीम्॥
मुहूर्तं वा तदर्धं वा क्षणं वा विष्णुसत्कथाम्॥
यः शृणोति नरो भक्त्या दुर्गतिर्नास्ति तस्य हि॥ २६॥
यत्फलं सर्वयज्ञेषु सर्वदानेषु यत्फलम् ॥
सकृतपुराणश्रवणात्तत्फलं विन्दते नरः॥ २७॥
कलौ युगे विशेषेण पुराणश्रवणादृते॥
नास्ति धर्मः परः पुंसां नास्ति मुक्तिप्रदं परम्॥२८ ॥
पुराणश्रवणं विष्णोर्नामसङ्कीर्तनं परम्॥
उभे एव मनुष्याणां पुण्यद्रुममहाफले॥ २९॥
पिबन्नेवामृतं यत्नादेकः स्यादजरामरः॥
विण्णोः कथामृतं कुर्यात्कुलमेवाजरामरम् ॥ 2.1.27.३० ॥
॥ अथ पुराणवक्तुः सर्वपूजनीयत्ववर्णनम् ॥ ॥
बालो युवाथ वृद्धो वा दरिद्रो दुर्भगोऽपि वा ॥
पुराणज्ञः सदा वन्द्यः स पूज्यः सुकृतात्मभिः ॥ ३१ ॥
नीचबुद्धिं न कुर्वीत पुराणज्ञे कदाचन ॥
यस्य वक्त्रोद्गता वाणी कामधेनुः शरीरिणाम् ॥ ३२ ॥
भवकोटिसहस्रेषु भूत्वा भूत्वावसीदताम् ॥
यो ददात्यपुनर्वृत्तिं कोऽन्यस्तस्मात्परो गुरुः ॥ ३३ ॥
व्यासासनसमारूढो यदा पौराणिको द्विजः ॥
आ समाप्तेः प्रसङ्गस्य नमस्कुर्यान्न कस्यचित् ॥ ३४ ॥
न दुर्जनसमाकीर्णे न शूद्रश्वापदावृते ॥
देशे न द्यूतसदने वदेत्पुण्यकथां सुधीः ॥ ३५ ॥
सुग्रामे सुजनाकीर्णे सुक्षेत्रे देवतालये ॥
पुण्ये वाथ नदीतीरे वदेत्पुण्यकथां सुधीः ॥३६॥
श्रद्धाभक्तिसमायुक्ता नान्यकार्येषु लालसा ॥
वाग्यताः शुचयोऽव्यग्राः श्रोतारः पुण्यभागिनः ॥ ३७ ॥
अभक्त्या ये कथां पुण्यां शृण्वन्ति मनुजाधमाः ॥
तेषां पुण्यफलं नास्ति दुःखं जन्मनि जन्मनि ॥ ३८ ॥
पुराणं ये तु सम्पूज्य ताम्बूलाद्यैरुपायनैः ॥
शृण्वन्ति च कथां भक्त्या न दरिद्रा न पापिनः ॥ ३९ ॥
कथायां कथ्यमानायां ये गच्छन्त्यन्यतो नराः॥
भोगान्तरे प्रणश्यन्ति तेषां दाराश्च सम्पदः ॥2.1.27.४०॥
सोष्णीषमस्तका ये च कथां शृण्वन्ति पावनीम् ॥
ते बालकाः प्रजायन्ते पापिनो मनुजाधमाः॥४१॥
ताम्बूलं भक्षयन्तो ये कथां शृण्वन्ति पावनीम् ॥
श्वविष्ठां भक्षयन्त्येते नरके च पतन्ति हि॥४२॥
ये च तुङ्गासनारूढाः कथां शृण्वन्ति दाम्भिकाः ॥
अक्षय्यान्नरकान्भुक्त्वा ते भवन्त्येव वायसाः ॥४३॥
ये च वीरासनारूढा ये च सिंहासनस्थिता॥
शृण्वन्ति सत्कथां ते वै भवन्त्यर्जुनपादपाः ॥४४॥
असम्प्रणम्य शृण्वन्तो विषवृक्षा भवन्ति हि ॥
तथा शयानाः शृण्वन्तो भवन्त्यजगरा हि ते ॥ ४५ ॥
यः शृणोति कथां वक्तुः समानासनसंस्थितः॥
गुरुतल्पसमं पापं सम्प्राप्य नरकं व्रजेत् ॥ ४६ ॥
ये निन्दन्ति पुराणज्ञं सत्कथां पापहारिणीम् ॥
ते वै जन्मशतं मर्त्याः शुनकाश्च भवन्ति हि ॥ ४७ ॥
कथायां कीर्त्यमानायां ये वदन्ति दुरुत्तरम् ॥
ते गर्दभाः प्रजायन्ते कृकलासास्ततःपरम् ॥ ४८ ॥
कदाचिदपि ये पुण्यां न शृण्वन्ति कथां नराः ॥
ते भुक्त्वा नरकान्घोरान्भवन्ति वनसूकराः ॥ ४९ ॥
कथायां कीर्त्यमानायां विघ्नं कुर्वन्ति ये नराः ॥
कोट्यब्दं नरकान्भुक्त्वा भवन्ति ग्रामसूकराः ॥ 2.1.27.५० ॥
ये कथामनुमोदन्ते कीर्त्यमानां नरोत्तमाः ॥
अशृण्वन्तोऽपि ते यान्ति शाश्वतं पदमव्ययम्॥ ॥ ५१ ॥
ये श्रावयन्ति मनुजाः पुण्यां पौराणिकीं कथाम् ॥
कल्पकोटिशतं साग्रं तिष्ठन्ति ब्रह्मणः पदे ॥ ५२ ॥
आसनार्थं प्रयच्छन्ति पुराणज्ञस्य ये नराः ॥
कम्बलाजिनवासांसि तथा मञ्चकमेव वा ॥ ५३ ॥
स्वर्गलोकं समासाद्य भुक्त्वा भोगान्यथेप्सितान् ॥
स्थित्वा ब्रह्मादिलोकेषु पदं यान्ति निरामयम् ॥ ५४ ॥
पुराणस्य प्रयच्छन्ति ये च सूत्रं नवं वरम् ॥
भोगिनो ज्ञानसम्पन्नास्ते भवन्ति भवे भवे ॥ ५५ ॥
ये महापातकैर्युक्ता ह्युपपातकिनश्च ये ॥
पुराणश्रवणादेव ते यान्ति परमं पदम् ॥ ५६ ॥
वेङ्कटाद्रेस्तु माहात्म्यं श्रुत्वा त ऋषयस्ततः ॥
व्यासप्रसादसम्पन्नं सूतं पौराणिकोत्तमम् ॥
पूजयित्वा यथान्यायं प्रहर्षमतुलं गताः ॥ ५७ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे श्रीवेङ्कटाचलमाहात्म्ये सर्वतीर्थमहिमोपसंहारपूर्वकपुराणश्रवणप्रक्रियाद्यनुवर्णनन्नाम सप्तविंशोऽध्यायः ॥ २७ ॥