०२६ तुम्बुरुतीर्थमाहात्म्यवर्णनम्

॥ अथ तुम्बुरु(घोण)तीर्थमाहात्म्यम् ॥
॥ श्रीसूत उवाच ॥ ॥
अत्राहं सम्प्रवक्ष्यामि शौनकाद्या महौजसः ॥
घोणतीर्थस्य माहात्म्यं सर्वपातकनाशनम् ॥ १ ॥
तत्र स्नानं जनानां तु जन्मान्तरतपःफलम् ॥
उत्तराफल्गुनीयुक्तशुक्लपक्षीयपर्वणि ॥ २ ॥
तुम्बोस्तीर्थं मीनसंस्थे रवौ तीर्थानि सर्वशः ॥
अपराह्ने समायान्ति गङ्गादीनि जगत्त्रये ॥ ३ ॥
॥ ऋषय ऊचुः ॥॥ भगवन्सूत सर्वज्ञ सर्वशास्त्रार्थपारग ॥
गङ्गायाः सरितः सर्वा घोणतीर्थेऽतिपावने ॥ ४ ॥
किमर्थं स्नान्ति वै तत्र मीनसंस्थे प्रभाकरे ॥ ५ ॥
॥ ॥ श्रीसूत उवाच ॥ ॥
पापिनो मनुजाः सर्वे ह्यस्मासु स्नान्ति यत्नतः ॥
विसृज्य पापजालानि कृतार्था यान्ति वै जनाः ॥ ६ ॥
अस्माकं पापजालं तत्कथं नश्यति सर्वतः ॥
एवमालोच्य तीर्थानि गङ्गादीनि प्रयत्नतः ॥ ७ ॥
संस्मृत्य ब्रह्मपुत्रस्य नारदस्य महात्मनः ॥
वाक्यं मनोहरं दिव्यं सर्वपापनिषूदनम् ॥ ८ ॥
गत्वा श्रीवेङ्कटं शैलं ब्रह्महत्यादिशोषकम् ॥
तत्र स्नात्वा तीर्थवर्ये स्वामिपुष्करिणीजले ॥ ९ ॥
अनन्तरं ततो विप्रा घोणतीर्थेऽतिपावने ॥
उत्तराफल्गुनीयुक्तशुक्त्यपक्षीयपर्वणि ॥ 2.1.26.१० ॥
स्नान्ति तीर्थानि सर्वाणि मीनसंस्थे प्रभाकरे ॥
तस्य तीर्थस्य माहात्म्यं को वेत्ति भुवनत्रये ॥ ११ ॥
॥ अथ घोणतीर्थस्नानविमुखानां महादोषवर्णनम् ॥ ॥
तस्मात्पुण्यतमं तीर्थं घोणतीर्थं द्विजोत्तमाः ॥१२॥
आरामोच्छेदकं क्रूरं कन्यातुरगविक्रयम्॥
घोणस्नानपरित्यक्तं तमाहुर्ब्रह्मघातुकम् ॥ १३ ॥
देवद्रव्यापहन्तारं तथा दत्तापहारकम् ॥
घोणस्नानपरित्यक्तं तमाहुर्ब्रह्मघातुकम् ॥ १४ ॥
तटाकसेतुभेत्तारं परस्त्रीसङ्गलोलुपम् ॥
घोणस्नानपरित्यक्तं तमाहुः स्तेयिनं बुधाः ॥ १५ ॥
ददामीति द्विजायोक्त्वा पश्चाद्यो नास्तिकोऽधमः ॥
घोणस्नानपरित्यक्तं सुरापं तं विदुर्बुधाः ॥ १६ ॥
गुरुविप्रजनद्वेष्यमात्मस्तुतिपरायणम् ॥
घोणस्नानपरित्यक्तं तमाहुः स्तेयिनं बुधाः ॥ १७ ॥
असंस्कृतान्नभोक्तारं पितृशेषान्नभोजिनम्॥
घोणस्नानपरित्यक्तं तमाहुः स्तेयिनं द्विजाः ॥ १८ ॥
पितृशेषान्नदातारं मातापितृविरोधिनम्॥
घोणस्नानपरित्यक्तं तमाहुः स्तेयिनं बुधाः ॥ १९ ॥
परस्त्रीसङ्गनिरतं भ्रातृभार्यारतिप्रियम् ॥
घोणस्नानपरित्यक्तं तमाहुर्गुरुतल्पगम् ॥ 2.1.26.२० ॥
चण्डालभाषिणं विप्रं सदैवादर्भपाणिकम् ॥
घोणस्नानपरित्यक्तं तत्संसर्गं तु पञ्चमम् ॥ २१ ॥
रजस्वलाश्वचण्डालध्वनि श्रुत्वान्नभोजिनम् ॥
घोणस्नानपरित्यक्तं तत्संसर्गं तु पञ्चमम् ॥ २२ ॥
पुराणोद्वाहमौञ्ज्यादिधर्माणां विघ्नकारकम् ॥
घोणस्नानपरित्यक्तं तमाहुः पशुघातुकम्॥ २३ ॥
शरणागतहन्तारं सर्वतीर्थपराङ्मुखम्॥
घोणस्नानपरित्यक्तं तमाहुर्भ्रूणहं बुधाः ॥२४ ॥
पितृयज्ञ परित्यक्तं त्यक्तभार्यं कुलाधमम् ॥
घोणस्नानपरित्यक्तं तमाहुर्गोविघातुकम् ॥ २५ ॥
महापापसमानानि क्षुद्रपापानि यानि च ॥
घोणस्नानपरित्यक्तमाश्रयन्ति द्विजोत्तमाः ॥ २६ ॥
॥ अथ घोणस्नानस्यसर्वपापापनोदकत्ववर्णनम् ॥ ॥
महापापरतं विप्राः श्वपचं वा कुलाधमम् ॥
क्रूरं कुलान्तकं कष्टमदत्तं कर्मवर्जितम् ॥ २७ ॥
पशुघ्नं च परद्रोहमाश्रितं पिशुनं तथा ॥
असत्यभाषिणं दम्भपरदाररतं तथा ॥ २८ ॥
मित्रद्रोहं कृतघ्नं च भ्रूणह चातिपातकम् ॥
परदाररतं पापं पराणामर्थसूचकम् ॥ २९ ॥
अनृतं कृषिकर्माणं स्वामिद्रोहं च वञ्चकम् ॥
सलोभं पितृहन्तारं सर्वदेवपराङ्मुखम् ॥ 2.1.26.३० ॥
आत्मप्रशंसां कुर्वाणं धर्मविघ्नकरं शठम् ॥
अपात्रव्ययकर्तारं सानुकूल्यविभेदकम् ॥ ३१ ॥
सुपल्लवफलोपेतवृक्षविच्छेदकारकम्॥
विश्वासघातुकं चैव वीरहत्यापरायणम् ॥ ३२ ॥
अनग्निकमपुत्रं च विषकर्मप्रयोगिणम् ॥
गुरुद्वेषकरं पापं दम्पत्योर्विरसावहम् ॥ ३३ ॥
ग्रामाधिपत्यं कुर्वाणं तथा देवालयस्य च ॥
भृतकख्यापकं विप्रं कूरकर्मपरायणम् ॥ ३४ ॥
प्रकृतीकृत पापौघं गुह्याघौघपरायणम् ॥
अज्ञानादघकर्तारं ज्ञानाद्दुष्कर्मकारकम् ॥ ३५ ॥
एतान्सर्वांश्च विप्रेन्द्रा घोणतीर्थं मनोहरम्॥
पुनाति स्नानपानाद्यैरहो तीर्थस्य वैभवम् ॥ ३६ ॥
॥ अथ तुम्बुर्वाख्यगन्धर्वचरितम् ॥
॥ श्रीसूत उवाच ॥ ॥
अत्रेतिहासं वक्ष्यामि पुराणं पापनाशनम् ॥
सर्वपापप्रशमनमपवर्गफलप्रदम् ॥ ३७ ॥
पुरा गार्ग्यो महातेजाः सर्वविद्याविशारदः ॥
सर्वज्ञो नीतिमान्विप्रः प्राह चेत्थं जितेन्द्रियः ॥ ३८ ॥
देवलं च महात्मानं नमस्कृत्य प्रसन्नधीः ॥
कथयस्व महाभाग मयि कारुणिको भव ॥
घोणतीर्थस्य माहात्म्यं सर्वपापहरं शुभम् ॥॥ ३९ ॥
॥ देवल उवाच ॥ ॥
तुम्बुरुर्नाम गन्धर्वो भार्यां शप्त्वा पतिव्रताम् ॥
अत्र स्नात्वा समभ्यर्च्य वेङ्कटेशं दयानिधिम् ॥ 2.1.26.४० ॥
प्राप्तवान्विष्णुलोकं वै पुनरावृत्तिवर्जितम्॥ ४१ ॥
॥ गार्ग्य उवाच ॥ ॥
किमर्थं देवल ऋषे भार्यां रूपवतीं स्त्रियम् ॥
तुम्बुरुर्नाम गन्धर्वः सर्वविद्याविशारदः ॥४२ ॥
शप्तवान्केन दोषेण भार्यां सर्वगुणान्विताम् ॥
तद्वदस्व महाभाग श्रोतुं कौतूहलं हि मे ॥ ४३ ॥
॥ अथ स्वभार्यायै तुम्बुरूपदिष्टमाघस्नानविधिप्रकारः ॥ ॥
तुम्बुरुर्नाम गन्धर्वो भार्यां प्रीत्या ह्युवाच ह ॥
माघत्रये मया साकं स्नानं कुरु मलापहम् ॥ ॥ ४४ ॥
माघमास्युदिते सूर्ये सर्वकल्मषनाशने ॥
तीरेऽस्मिन्विष्णुपूजार्थं गोमयालेपनं कुरु ॥ ४५ ॥
रङ्गवल्ल्यादिभिः शुभ्रपद्मस्वस्तिक धातुभिः ॥
शुश्रूषां कुरु मे विष्णोर्मासेऽस्मिन्मङ्गलप्रदे ॥ ४६ ॥
माघेऽस्मिन्माधवस्यास्य कुरु त्वं दीपवर्तिकाम् ॥
सधूपं पावकं भक्त्या समर्पय हरेः पुरः ॥ ४७ ॥
कुरु पाकं शुचिर्भूत्वा माधवाय महात्मने ॥
प्रदक्षिणानमस्कारैर्भक्त्या माघे मया सह ॥ ४८ ॥
कुरुष्व देवदेवस्य सपर्यां विष्णवेऽन्वहम् ॥
पुराणश्रवणं विष्णोः कुरु नित्यमतन्द्रिता ॥ ४९ ॥
नित्यं स्नात्वा प्रयत्नेन पिब पादोदकं हरेः ॥
कृष्ण विष्णो मुकुन्देति नारायण जनार्दन ॥ 2.1.26.५० ॥
अच्युतानन्त विश्वात्मन्निति कीर्तय सन्ततम् ॥
क्रोधमात्सर्यलोभादींस्त्यक्त्वा त्वं व्रतमाचर ॥ ५१ ॥
तेन ते जायते मुक्तिर्विष्णुलोकश्च शाश्वतः ॥
॥ अथ भार्यां प्रति तुम्बुरुदत्तशापतद्विमुक्तिप्रकारौ ॥ ॥
इत्थं सा भर्तृगदितं श्रुत्वा गन्धर्ववल्लभा ॥
भर्तारमब्रवीत्कोपादसह्यं दुर्गतिप्रदम् ॥ ५२ ॥
माघे चोद्भूतशीते तु प्रातर्मन्दोदिते रवौ ॥
कथं निमज्जयेदस्मिन्माघे शीतार्तिकेऽनघ ॥ ५३ ॥
यत्त्वयोक्तानि कर्माणि न शक्यानि मयाऽसकृत्॥
न करोमि पते स्नानं प्रातःकाले त्वया सह ॥ ५४ ॥
मृतौ शीतातिपातेन न च मे रक्षको भवान् ॥
इत्येवमुदितं श्रुत्वा पतिर्गन्धर्ववल्लभः ॥ ५५ ॥
सशान्तोऽपि शशापाथ भार्यां चाप्रियवादिनीम् ॥
पुत्रं च धर्मविमुखं भार्यां चाप्रियभाषिणीम् ॥५६॥
अब्रह्मण्यं च राजानं सद्यः शापेन दण्डयेत् ॥
इति न्यायं विचिन्त्यासौ शशापेत्थं सतीं तदा ॥ ५७ ॥
वेङ्कटाद्रौ महापुण्ये सर्वपातकनाशने ॥
घोणतीर्थसमीपे च पिप्पलद्रुमकोटरे ॥ ५८ ॥
तत्राम्बुरहिते मूढे मण्डूका भव केवलम् ॥
इत्येवं भर्तृवाक्यं तच्छ्रुत्वा गन्धर्ववल्लभा ॥ ५९ ॥
पतित्वा पादयोस्तस्य तुम्बरुं प्रार्थयत्सती ॥
विशापमवदत्पश्चाद्भर्ता वै तुम्बुरुस्तदा ॥ 2.1.26.६० ॥
अगस्त्यो वै महाभागस्तपस्वी विजितेन्द्रियः ॥
घोणतीर्थवरे स्नात्वा पौर्णमास्यां महातिथौ ॥ ६१ ॥
शिष्येभ्यो वै यदा तस्मिन्नश्वत्थद्रुमसन्निधौ ॥
घोणतीर्थस्य माहात्म्यं वक्ति वै ब्राह्मणोत्तमः ॥ ६२ ॥
तदा पिप्पलवृक्षस्य कोटरे त्वं समाहिता ॥
श्रुत्वा वै घोणतीर्थस्य माहात्म्यं मोक्षदायकम् ॥ ६३ ॥
विधूय सर्वपापानि मया साकं रमिष्यसि ॥
इत्युक्ता विररामाथ धर्मपत्नी पतिव्रता ॥ ६४ ॥
भर्तृशापान्महाघोरां मण्डूकतनुमाश्रिता ॥
शेषाद्रिशिखरे तस्मिन्घोणतीर्थस्य दक्षिणे ॥ ॥ ६५ ॥
शनैःशनैर्गता नारी पिप्पलद्रुमकोटरम् ॥
अब्दायुतं गतं तस्या अश्वत्थद्रुमकोटरे ॥ ६६ ॥
ततः कालान्तरेऽगस्त्यो वेङ्कटाद्रिं मनोहरम् ॥
गत्वा श्रीस्वामितीर्थे च स्नात्वा नियमपूर्वकम् ॥ ६७ ॥
वराहस्वामिनं देवं नत्वा तीर्थस्य दक्षिणे ॥
वेङ्कटेशालयं गत्वा श्रीनिवासं कृपानिधिम्॥ ६८ ॥
वेदवेद्यं विशालाक्षं देवदेवं सनातनम् ॥
नत्वाऽगस्त्यो महाभागो घोणतीर्थं ततो ययौ ॥ ६९ ॥
तत्र स्नात्वा तीर्थवर्ये स्वशिष्यै योगिनां वरः ॥
पिप्पलद्रुमच्छायायां शिष्येभ्यो भक्तिपूर्वकम् ॥ 2.1.26.७० ॥
घोणतीर्थस्य माहात्म्यं ब्रह्महत्याविनाशकम् ॥
सर्वमङ्गलदं पुण्यं सर्वसम्पत्प्रदायकम्॥ ७१ ॥
उक्तवान्योगिनां श्रेष्ठो ह्यगस्त्यो भगवानृषिः ॥ ७२ ॥
॥ अथ घोणतीर्थे अगस्त्यदर्शनेन तुम्बुरुपत्न्या वर्षाभूत्व निवृत्तिः ॥ ॥
तदा श्रुत्वा तु वर्षाभूः पादयोस्तस्य योगिनः ॥
पतित्वा ज्ञानदीपेन विदित्वा वैभवं मुनेः ॥ ७३ ॥
पूर्वरूपं समासाद्य नारी रूपं मनोहरम् ॥
अगस्त्य योगिनां श्रेष्ठ रक्षरक्ष दयानिधे ॥ ७४ ॥
मां रक्ष दयया ब्रह्मन्पतिवाक्यविरोधिनीम् ॥
इत्युक्त्वा तं विक्षालाक्षी विरराम ततः परम् ॥ ७५ ॥
॥ अगस्त्य उवाच ॥ ॥
का त्वं सुश्रोणि भद्रं ते भेकजन्मप्रदायकम् ॥
पापं पूर्वभवे चासीत्तद्वदस्व च मा चिरम् ॥७६॥
॥ ॥ नार्युवाच ॥ ॥
तुम्बुरुर्नाम गन्धर्वः सर्वविद्याविशारदः ॥
तस्य भार्यास्म्यहं विप्र ह्यगस्त्य मुनिसेवित ॥ ७७ ॥
भर्ता मे सर्वधर्मज्ञस्तुम्बुरुर्मुनिसत्तमः ॥
सर्वधर्मान्मनोज्ञा त्वं कुरु नित्यं मया सह ॥ ७८ ॥
पतिवाक्यं तदा श्रुत्वा परलोकोपकारकम् ॥
असह्यं वाक्यमत्युग्रं दुर्गतिप्रदमेव हि ॥ ७९ ॥
मया चोक्तं हि दुर्बुद्ध्या हे तात मुनिसत्तम ॥ 2.1.26.८० ॥
॥ अथागस्त्यकथितपतिव्रताधर्माः ॥
॥ अगस्त्य उवाच ॥ ॥
कुशाग्रबुद्धिस्ते भर्ता शशाप त्वां रुषान्वितः ॥
एवं शापो युक्त एव पतिवाक्यविरोधिनीम् ॥ ८१ ॥
पतिवाक्यमनादृत्य स्वेच्छया वर्तते तु या ॥
सा नारी निरये घोरे पतत्याचन्द्रतारकम् ॥ ८२ ॥
न स्वातन्त्र्यं तु नारीणां नोल्लङ्घ्यं पतिभाषणम् ॥
पातिव्रत्येन पुण्येन पतिशुश्रूषणेन च ॥ ८३ ॥
स्त्रियो विष्णुपदं यान्ति न चान्यैरपि सुव्रतैः ॥
पतिर्माता पतिर्विष्णुः पतिर्ब्रह्मा पतिः शिवः ॥ ८४ ॥
पतिर्गुरुः पतिस्तीर्थमिति स्त्रीणां विदुर्बुधाः ॥
पतिवाक्यमपाकृत्य या नारी सुकृतैः परैः ॥ ८५ ॥
सदैव युज्यते सापि नैव शुद्धा भवेत्सकृत् ॥
पतिहीना तु या नारी गुरुभिर्धर्मवित्तमैः ॥ ८६ ॥
सा कृतज्ञा विदध्यात्तु व्रतं धर्मफलप्रदम् ॥
पतिना प्रेरिता सैव पतिबुद्धिपरायणा ॥ ८७ ॥
पतिपादाब्जतीर्थेन या स्नाता सा हरिप्रिया ॥
सा स्नाता सर्वतीर्थेषु गङ्गादिषु न संशयः ॥ ८८ ॥
तस्मात्त्वत्कृतदोषस्तु त्वामायातीति तत्फलम् ॥
भुञ्जन्त्यास्तेऽत्र शृण्वन्त्या घोणतीर्थस्य वैभवम् ॥ ८९ ॥
मुक्तिरासीच्छुभाङ्गं तन्नारीरूपं पुनर्यथा ॥ ॥
तस्माद्घोणस्य तीर्थस्य तुम्बुतीर्थमितीह वै ॥ 2.1.26.९० ॥
लोके प्रसिद्धिरभवदहो तीर्थस्य वैभवम् ॥ ९१ ॥ ॥
अथ घोणतीर्थस्नातॄणां नानाविधफलप्राप्तिः ॥
॥ श्रीसूत उवाच ॥ ॥
घोणतीर्थे महापुण्ये सर्वपापविनाशिनि ॥
स्नान्ति ये पौर्णमास्यां वै शौनकाद्या महौजसः ॥ ९२ ॥
तेषां क्रतुफलं पुण्यं तीर्थायुतफलं भवेत् ॥
कपिलागोसहस्रं तु यो ददाति दिनेदिने ॥ ९३ ॥
तत्फलं समवाप्नोति स्नानात्तुम्बुरुतीर्थके ॥
रत्नकोटिसहस्राणि यो ददाति दिनेदिने ॥ ९४ ॥
मत्तेभानां सहस्राणि तथैवाश्वायुतान्यपि ॥
तत्फलं समवाप्नोति घोणतीर्थावगाहनात् ॥ ९५ ॥
कन्याकोटिप्रदानेन यत्फलं चर्षिभिः स्मृतम् ॥
तत्फलं समवाप्नोति घोणतीर्थाच्च पावनात् ॥ ९६ ॥
हेमाम्बरसहस्रं यः कुरुक्षेत्रे प्रयच्छति ॥
तत्फलं समवाप्नोति घोणतीर्थस्य वैभवात् ॥ ९७ ॥
गुर्वर्थे ब्राह्मणार्थे च स्वाम्यर्थे यस्त्यजेत्तनुम् ॥
तत्फलं समवाप्नोति घोणतीर्थस्य वैभवात् ॥ ९८ ॥
आपन्नार्तिहराणां च तीर्थसेवापरात्मनाम् ॥
सत्यव्रतानां यत्पुण्यं घोणतीर्थाच्च तद्भवेत् ॥ ९९ ॥
यत्फलं श्राद्धकर्तॄणां पितृणामिन्दुसङ्क्षये ॥
तत्फलं समवाप्नोति घोणतीर्थाद्धि पावनात् ॥ 2.1.26.१०० ॥
गङ्गायां नर्मदायां च सरयूचन्द्रभागयोः ॥
सर्वेषु पुण्यतीर्थेषु यः स्नानं कुरुते नरः ॥
तत्फलं समवाप्नोति घोणतीर्थाद्धि पावनात् ॥ १०१ ॥
तस्मात्पुण्यतमं तीर्थं घोणतीर्थं विदुर्बुधाः ॥ १०२ ॥
य इमं शृणुतेऽध्यायं सर्वपापनिबर्हणम् ॥
वाजपेयफलं तस्य विष्णुलोकश्च शाश्वतः ॥ १०३ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां सहितायां द्वितीये वैष्णवखण्डे श्रीवेङ्कटाचलमाहात्म्ये तुम्बुरुतीर्थमाहात्म्यवर्णनन्नाम षड्विंशोऽध्यायः ॥ ॥ २६ ॥ ॥